सोमवार, 13 एप्रिल 2026
  1. धर्म
  2. हिंदू
  3. हिंदू धर्माविषयी
Last Modified: सोमवार, 13 एप्रिल 2026 (07:55 IST)

ईश्वरप्रार्थनास्तोत्रम् ishvara prarthana-stotram

mahadev
ईश्वरंशरणं यामि क्रोधमोहादिपीडितः ।
अनाथं पतितं दीनं पाहि मां परमेश्वर ॥ १॥ 
 
प्रभुस्त्वं जगतां स्वामिन् वश्यं सर्वं तवास्ति च ।
अहमज्ञो विमूढोऽस्मि त्वां न जानामि हे प्रभो ॥२॥
 
 ब्रह्मा त्वं च तथा विष्णुस्त्वमेव च महेश्वरः ।
तव तत्त्वं न जानामि पाहि मां परमेश्वर ॥३॥
 
 त्वं पिता त्वं च मे माता त्वं बन्धुः करुणानिधे ।
त्वां विना नहि चान्योऽस्ति मम दुःखविनाशकः ॥४॥ 
 
अन्तकाले त्वमेवासि मम दुःख विनाशकः ।
तस्माद्वै शरणोऽहं ते रक्ष मां हे जगत्पते ॥५॥
 
 पितापुत्रादयः सर्वे संसारे सुखभागिनः ।
विपत्तौ परिजातायां कोऽपि वार्ताम् न पृच्छति ॥६॥
 
 कामक्रोधादिभिर्युक्तो लोभमोहादिकैरपि ।
तान्विनश्यात्मनो वैरीन् पाहि मां परमेश्वर ॥७॥ 
 
अनेके रक्षिताः पूर्वं भवता दुःखपीडिताः ।
क्व गता ते दया चाद्य  पाहि मां हे जगत्पते ॥८॥
 
 न त्वां विना कश्चिदस्ति संसारे मम रक्षकः ।
शरणं  त्वां प्रपन्नोऽहं त्राहि मां परमेश्वर ॥९॥
 
ईश्वर प्रार्थनास्तोत्रं योगानन्देन निर्मितम् ।
यः पठेद्भक्तिसंयुक्तस्तस्येशः संप्रसीदति ॥१०॥ 
 
इति श्रीयोगानन्दतीर्थविरचितं ईश्वरप्रार्थनास्तोत्रं संपूर्णम् ॥