1. धर्म
  2. हिंदू
  3. हिंदू धर्माविषयी
  4. Sadashiva Pancharatnam Stotram lyrics

सदाशिवपञ्चरत्नम् : भगवान शिवाची स्तुती करणारे पवित्र स्तोत्र दर सोमवारी पठण केल्याने लाभ मिळेल

।यत्सन्दर्शनमात्राद्भक्तिर्जाताप्यविद्धकर्णस्य ।
तत्सन्दर्शनमधुना कृत्वा नूनं कृतार्थोऽस्मि ॥१॥ 
 
योऽनिशमात्मन्येव ह्यात्मानं सन्दधद्वीथ्याम् ।
भस्मच्छन्नानल इव जडाकृतिश्चरति तं  नौमि ॥२॥ 
 
यस्य विलोकनमात्राच्चेतसि सञ्जायते शीघ्रम् ।
वैराग्यमचलमखिलेष्वपि विषयेषु प्रणौमि तं यमिनम् ॥३॥
 
 पुरतो भवतु कृपाब्धिः पुरवैरिनिविष्टमानसः सोऽयम् ।
परमशिवेन्द्रकराम्बुजसञ्जातो यः सदाशिवेन्द्रो मे ॥४॥
 
 उन्मत्तवत्सञ्चरतीह शिष्यस्तवेति लोकस्य वचांसि श्रॄण्वन् ।
खिद्यत्रुवाचास्य गुरुः पुराहो ह्युन्मत्तता मे न हि तादृशीति ॥५॥
 
 पञ्चकमेतद्भक्त्या श्लोकानां विरचितं लोके ।
यः पठति सोऽपि लभते करुणां शीघ्रं सदाशिवेन्द्रस्य ॥६॥ 
 
इति सदाशिवपञ्चरत्नम् संपूर्णम् ॥ 
 
पुढील लेख
Nagpanchami Naivedyam Recipe नागपंचमीच्या दिवशी बनवा पारंपरिक नैवेद्य