Festival Posters

सरस्वती सूक्त पाठ Shree Saraswati Sukt Path

Updated: गुरूवार, 2 ऑक्टोबर 2025 (10:47 IST)
यज्ञं वष्टु धिया वसुः॥३॥
 
‘ब्लूं’ चोदयित्री सूनृतानां चेतन्ती
सुमतीनाम् यज्ञं दधे सरस्वती ॥४॥
 
‘सौः’ महो अर्णः सरस्वती प्र चेतयति केतुना।
धियो विश्वा वि राजति॥५॥
 
‘ऐं’ चत्वारि वाक् परिमिता पदानि
तानि विदुर्ब्राह्मणा ये मनीषिणः।
गुहा त्रीणि निहिता नेङ्गयन्ति
तुरीयं वाचो मनुष्या वदन्ति ॥६॥
 
‘क्लीं’ यद् वाग्वदन्त्यविचेतनानि
राष्ट्री देवानां निषसाद मन्द्रा।
चतस्त्र ऊर्जं दुदुहे पयांसि
क्व स्विदस्याः परमं जगाम॥७॥
 
‘सौः’ देवीं वाचमजनयन्त देवास्तां
विश्वरूपाः पशवो वदन्ति।
सा नो मन्द्रेषमूर्जं दुहाना
धेनुर्वागस्मानुप सुष्टुतैतु॥८॥
 
‘सं’ उत त्वः पश्यन्न ददर्श वाच
मुत त्वः श्रृण्वन् न श्रृणोत्येनाम्।
उतो त्वस्मै तन्वं विसस्त्रे
जायेव पत्य उशती सुवासाः॥९॥
 
‘ऐं’ अम्बितमे नदीतमे देवितमे सरस्वति।
अप्रशस्ता इव स्मसि प्रशस्तिमम्ब नस्कृधि॥१०॥
 
चतुर्मुखमुखाम्भोजवनहंसवधूर्मम।
मानसे रमतां नित्यं सर्वशुक्ला सरस्वती॥१॥
 
नमस्ते शारदे देवि काश्मीरपुरवासिनि।
त्वामहं प्रार्थये नित्यं विद्यादानं च देहि मे ॥२॥
 
अक्षसूत्राङ्कुशधरा पाशपुस्तकधारिणी।
मुक्ताहारसमायुक्ता वाचि तिष्ठतु मे सदा॥३॥
 
कम्बुकण्ठी सुताम्रोष्ठी सर्वाभरणभूषिता।
महासरस्वतीदेवी जिह्वाग्रे सन्निविश्यताम्॥४॥
 
या श्रद्धा धारणा मेधा वाग्देवी विधिवल्लभा।
भक्तजिह्वाग्रसदना शमादिगुणदायिनी॥५॥
 
नमामि यामिनीनाथलेखालंकृतकुन्तलाम्।
भवानीं भवसंतापनिर्वापणसुधानदीम्॥६॥
 
यः कवित्वं निरातङ्कं भुक्तिमुक्ती च वाञ्छति।
सोऽभ्यच्चैनां दशश्लोक्या भक्त्या स्तौति सरस्वतीम्॥७॥
 
तस्यैवं स्तुवतो नित्यं समभ्यर्च्य सरस्वतीम्।
भक्तिश्रद्धाभियुक्तस्य षण्मासात् प्रत्ययो भवेत्॥८॥
 
ततः प्रवर्तते वाणी स्वेच्छया ललिताक्षरा।
गद्यपद्यात्मकैः शब्दैरप्रमेयैर्विवक्षितैः॥९॥
 
अश्रुतो बुध्यते ग्रन्थः प्रायः सारस्वतः कविः।
इत्येवं निश्चयं विप्राः सा होवाच सरस्वती॥१०॥
 
आत्मविद्या मया लब्धा ब्रह्मणैव सनातनी।
ब्रह्मत्वं मे सदा नित्यं सच्चिदानन्दरूपतः॥११॥
 
प्रकृतित्वं ततः सृष्टिं सत्त्वादिगुणसाम्यतः।
सत्यमाभाति चिच्छाया दर्पणे प्रतिबिम्बवत्॥१२॥
है॥१२॥
 
तेन चित्प्रतिबिम्बेन त्रिविधा भाति सा पुनः।
प्रकृत्यवच्छिन्नतया पुरुषत्वं पुनश्च ते॥१३॥
 
शुद्धसत्त्वप्रधानायां मायायां बिम्बितो ह्यजः।
सत्त्वप्रधाना प्रकृतिर्मायेति प्रतिपाद्यते॥१४॥
 
सा माया स्ववशोपाधिः सर्वज्ञस्येश्वरस्य हि।
वश्यमायत्वमेकत्वं सर्वज्ञत्वं च तस्य तु॥१५॥
 
सात्त्विकत्वात् समष्टित्वात् साक्षित्वाजगतामपि।
जगत्कर्तुमकर्तुं वा चान्यथा कर्तुमीशते॥१६॥
 
यः स ईश्वर इत्युक्तः सर्वज्ञत्वादिभिर्गुणैः।
शक्तिद्वयं हि मायाया विक्षेपावृतिरूपकम्॥१७॥
 
विक्षेपशक्तिर्लिङ्गादि ब्रह्माण्डान्तं जगत् सृजेत्।
अन्तर्दृग्दृश्ययोर्भेदं बहिश्च ब्रह्मसर्गयोः॥१८॥
के भेद को आवृत करती है॥१८॥
 
आवृणोत्यपरा शक्तिः सा संसारस्य कारणम्।
साक्षिणः पुरतो भातं लिङ्गदेहेन संयुतम्॥१९॥
 
चितिच्छायासमावेशाज्जीवः स्याद्व्यावहारिकः।
अस्य जीवत्वमारोपात् साक्षिण्यप्यवभासते॥२०॥
होता है॥२०॥
 
आवृतौ तु विनष्टाया भेदे भाते प्रयाति तत्।
तथा सर्गब्रह्मणोश्च भेदमावृत्य तिष्ठति॥२१॥
 
या शक्तिस्तद्वशाद्ब्रह्म विकृतत्वेन भासते।
अत्राप्यावृतिनाशेन विभाति ब्रह्मसर्गयोः॥२२॥
 
भेदस्तयोर्विकार: स्यात् सर्गे न ब्रह्मणि क्वचित्।
अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम्॥२३॥
 
आद्यत्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम्।
अपेक्ष्य नामरूपे द्वे सच्चिदानन्दतत्परः॥२४॥
जगत्- रूप बनता है॥२४॥
 
समाधिं सर्वदा कुर्याद्धृदये वाथ वा बहिः।
सविकल्पो निर्विकल्पः समाधिर्द्विविधो हृदि॥२५॥
 
दृश्यशब्दानुभेदेन सविकल्पः पुनर्द्विधा।
कामाद्याश्चित्तगा दृश्यास्तत्साक्षित्वेन चेतनम्॥२६॥
 
ध्यायेद् दृश्यानुविद्धोऽयं समाधिः सविकल्पकः।
असङ्गः सच्चिदानन्दः स्वप्रभो द्वैतवर्जितः ॥२७॥
 
अस्मीतिशब्दविद्धोऽयं समाधिः सविकल्पकः।
स्वानुभूतिरसावेशाद् दृश्यशब्दाद्यपेक्षितुः ॥२८॥
 
निर्विकल्पः समाधिः स्यान्निवातस्थितदीपवत्।
हृदीयं बाह्यदेशेऽपि यस्मिन् कस्मिंश्च वस्तुनि॥२९॥
 
समाधिराद्यदृङ्मात्रा नामरूपपृथक् कृतिः।
स्तब्धीभावो रसास्वादात् तृतीयः पूर्ववन्मतः॥३०॥
 
एतैः समाधिभिः षड्भिर्नयेत् कालं निरन्तरम्।
देहाभिमाने गलिते विज्ञाते परमात्मनि।
यत्र यत्र मनो याति तत्र तत्र परामृतम्॥३१॥
 
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः।
क्षीयन्ते चास्य कर्माणि तस्मिन् द्रष्टे परावरे॥३२॥
 
मयि जीवत्वमीशत्वं कल्पितं वस्तुतो नहि।
इति यस्तु विजानाति स मुक्तो नात्र संशयः॥३३॥ 
 
॥ॐ वाङ्मे मनसीति शान्तिः॥ (ऋग्वेदीय सरस्वतीरहस्योपनिषद् )
 
॥ इति श्री सरस्वती सूक्तम्‌ संपूर्णम्‌ ॥

सर्व पहा

Sampat Shanivar Katha संपत शनिवारची कहाणी

Shaniwar Upay शनिवारी हे उपाय केल्याने शनिदेव प्रसन्न होतील, तुमचे भाग्य उजळेल

Raksha Bandhan 2026 Wishes for Sister in Marathi बहिणीसाठी रक्षाबंधनाच्या शुभेच्छा

रक्षाबंधन निमित्त लाडक्या बहिणीला फिरायला घेऊन जा मुंबईच्या या निसर्गरम्य ठिकाणी

आरती शनिवारची-पुजेच्या प्रांतीं अभ्यंग करी

सर्व पहा

भाऊ-बहिण प्रत्येक गोष्टीवरून भांडतात का? राखीला या गोष्टी करा

चाणक्य नीती: जर स्त्रीमध्ये हे ४ गुण असतील तर कुटुंब समृद्ध होते; चाणक्य नीतीमध्ये वर्णन

भविष्य मालिकेची भाकिते खरी ठरणार? १३ मुस्लिम देशांचा गट आणि भारतावरील हल्ल्याच्या दाव्यामागचे सत्य

डेंग्यू-मलेरियाचा धोका वाढतोय; पावसाळ्यात घरात या ७ गोष्टी नक्की करा

गणेशोत्सवाच्या आधी घराची साफसफाई करताना या ७ चुका करू नका; आरोग्यावर होऊ शकतो परिणाम

पुढील लेख
Show comments