मंगळवार, 24 फेब्रुवारी 2026
  1. धर्म
  2. हिंदू
  3. हिंदू धर्माविषयी
Written By
Last Modified: सोमवार, 23 फेब्रुवारी 2026 (07:58 IST)

चन्द्रचूडालाष्टकम् Chandrachoodaalaa Ashtakam

adhiyogi-shiv

चन्द्रचूडाला अष्टकम्

यमनियमाद्यङ्गयुतैर्योगैर्यत्पादपङ्कजं द्रष्टुम् ।
प्रयतन्ते मुनिवर्यास्तमहं प्रणमामि चन्द्रचूडालम् ॥१॥ 
 
यमगर्वभञ्जनचणं नमतां सर्वेष्टदानधौरेयम् ।
शमदमसाधनसंपल्लभ्यं प्रणमामि चन्द्रचूडालम् ॥२॥ 
 
यं द्रोणबिल्वमुख्यैः पूजयतां द्वारि मत्तमातङ्गाः ।
कण्ठे लसन्ति विद्यास्तमहं प्रणमामि चन्द्रचूडालम् ॥३॥ 
 
नलिनभवपद्मनेत्रप्रमुखामरसेव्यमानपदपद्मम् ।
नतजनविद्यादानप्रवणं प्रणमामि चन्द्रचूडालम् ॥४॥ 
 
नुतिभिर्देववराणां मुखरीकृतमन्दिरद्वारम् ।
स्तुतमादिमवाक्ततिभिः सततं प्रणमामि चन्द्रचूडालम् ॥५॥ 
 
जन्तोस्तव पादपूजनकरणात्करपद्मगाः पुमर्थाः स्युः ।
मुरहरपूजितपादं तमहं प्रणमामि चन्द्रचूडालम् ॥६॥ 
 
चेतसि चिन्तयतां यत्पदपद्मं सत्वरं वक्त्रात् ।
निःसरति वाक्सुधामा तमहं प्रणमामि चन्द्रचूडालम् ॥७॥ 
 
नम्राज्ञानतमस्ततिदूरीकरणाय नेत्रलक्ष्माद्यः ।
धत्तेऽग्निचन्द्रसूर्यांस्तमहं प्रणमामि चन्द्रचूडालम् ॥८॥ 
 
अष्टकमेतत्पठतां स्पष्टतरं कष्टनाशनं पुंसाम् ।
अष्ट ददाति हि सिद्धीरिष्टसमष्टीश्च चन्द्रचूडालः ॥९॥ 
 
इति चन्द्रचूडालाष्टकं संपूर्णम् ॥