मंगळवार, 30 सप्टेंबर 2025
  1. धर्म
  2. हिंदू
  3. हिंदू धर्माविषयी
Written By
Last Modified: सोमवार, 29 सप्टेंबर 2025 (06:34 IST)

जीवन्मुक्तानन्दलहरी स्तोत्रम Jeevanmuktanandalahari Stotram

Jeevan Muktananda Lahari Stotram Lyrics

जीवन्मुक्तानन्दलहरी। पुरे पौरान्पश्यन्नरयुवतिनामाकृतिमयान सुवेशान स्वर्णालङ्करणकलिताञ्चित्रसद्रुशान । स्वयं साक्षी द्रष्टेत्यपि च कलयंस्तैः सह रमन मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥१॥

वने वृक्षान्पश्यन दलफलभरान्नम्रमुशिखान्घनच्छायाछन्नान बहुलकलकूजद्विजगणान । भक्षन घस्रे रात्राववनितलतल्पैकशयनो मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥२॥

कदाचित्प्रासादे क्वचिदपि तु सौधे च धवळे कदाकाले शैले क्वचिदपि च कूले च सरिताम । कुटीरे दान्तानां मुनिजनवराणामपि वसन मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥३॥  

क्वचिद्वालैः सार्धे करतलजतालैश्च हसितैः क्वचिद्वै तारुण्याङ्कितचतुरनार्या सह रमन । क्वचिद्वऐद्धश्चिन्तां क्वचिदपि तदन्यैश्च विलपन मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥४॥

कदाचिद्विद्वद्भिर्विविधसुपुरानन्दरसिकैः कदाचित्काव्यालङ्कृतरसरसालैः कविवरैः । वदन्वादांस्तकैंरनुमितिपरैस्तार्किकवरैर्मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥ ५॥

कदा ध्यानाभ्यासैः क्वचिदपि सपर्या विकसितैः सुगन्धै सत्पुष्पैः क्वचिदपि दलैरेव विमलैः । प्रकुर्वन्देवस्य प्रमुदितमनाः संस्तुतिपरो मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥६॥

शिवायाः शंभोर्वा क्वचिदपि च विष्णोरपि कदा गणाध्यक्षस्यापि प्रकटतपनस्यापि च कदा । पठन्वै नामालिं नयनरचितानन्दसलिलो मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥७॥

कदा गङ्गांभोभिः क्वचिदपि च कूपोत्थितजलैः क्वचित्कासारोत्थैः क्वचिदपि सदुष्णैश्च शिशिरैः । भजन्स्नानैर्भूत्या क्वचिदपि च कर्पूरनिभया मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥८॥

कदाचिज्जागृत्यां विषयकरणैः संव्यवह मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥९॥

कदाप्याशावासाः क्वचिदपि च दिव्याम्बरधरः क्वचित्पञ्चास्योत्थां त्वचमपि दधानः कटितटे । मनस्वी निःशङ्कः स्वजनहृदयानन्दजनको मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥१०॥

कदाचित्सत्त्वस्थः क्वचिदपि रजोवृत्तियुगतस्तमोवॄत्तिः क्वापि त्रितयरहितः क्वापि च पुनः । कदाचित्संसारी श्रुतिपथविहारी क्वचिदपि मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥११॥

कदाचिन्मौनस्थः क्वचिदपि च व्याख्याननिरतः कदाचित्सानन्दं हसति रमसत्यक्तवचसा । कदाचिल्लोकानां व्यवहृतिसमालोकनपरो मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥१२॥

कदाचिच्छक्तीनां विकचमुखपद्मेषु कवलान्क्षिपंस्तासां क्वापि स्वयमपि च गृह्वन्स्वमुखतः । महाद्वैतं रूपं निजपरविहीनं प्रकटयन मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥१३॥

क्वचिच्छैवैः सार्धं क्वचिदपि च शाक्तैः सह वसन कदा विष्णोर्भक्तैः क्वचिदपि च सौरैः सह वसन । कदागाणापत्यैर्गत सकलभेदोऽद्वयतया मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥१४॥

निराकारम क्वापि क्वचिदपि च साकारममलम निजं शैवं रूपं विविधगुणभेदेन बहुधा । कदाश्चर्यं पश्यन्किमिदमिति हॄष्यन्नपि कदा मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षत

जीवन्मुक्तानन्दलहरी स्तोत्रम