suvichar

श्री दुर्गा सप्तशती पाठ अध्याय 8

Updated: मंगळवार, 12 ऑक्टोबर 2021 (23:08 IST)
तं निनादमुपश्रुत्य दैत्यसैन्यैश्‍चतुर्दिशम् ।
देवी सिंहस्तथा काली सरोषै: परिवारिता: ॥११॥
एतस्मिन्नन्तरे भूप विनाशाय सुरद्विषाम् ।
भवायामरसिंहानामतिवीर्यबलान्विता: ॥१२॥
ब्रह्मेशगुहविष्णूनां तथेन्द्रस्य च शक्‍तय: ।
शरीरेभ्यो विनिष्क्रम्य तद्रूपैश्‍चण्डिकां ययु: ॥१३॥
यस्य देवस्य यद्रूपं यथाभूषणवाहनम् ।
तद्वदेव हि तच्छक्तिरसुरान् योद्‌धुमाययौ ॥१४॥
हंसयुक्तविमानाग्रे साक्षसूत्रकमण्डलु: ।
आयाता ब्रह्मण: शक्तिर्ब्रह्माणी साभिधीयते ॥१५॥
माहेश्‍वरी वृषारूढा त्रिशुलवरधारिणी ।
महाहिवलया प्राप्ता चन्द्ररेखाविभूषणा ॥१६॥
कौमारी शक्तिहस्ता च मयूरवरवाहना ।
योद्धुमभ्याययौ दैत्यानम्बिका गुहरूपिणी ॥१७॥
तथैव वैष्णवी शक्तिर्गरुडोपरि संस्थिता ।
शङ्‌खचक्रगदाशाड्‌र्गखड्‌गहस्ताभ्युपाययौ ॥१८॥
यज्ञवाराहमतुलं रूपं या बिभ्रतो हरे: ।
शक्ति: साप्याययौ तत्र वाराहीं बिभ्रती तनुम् ॥१९॥
नारसिंही नृसिंहस्य बिभ्रती सदृशं वपु: ।
प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्रसंहति:॥२०॥
वज्रहस्ता तथैवैन्द्री गजराजोपरि स्थिता ।
प्राप्ता सहस्रनयना यथा शक्रस्तथैव सा ॥२१॥
तत: परिवृतस्ताभिरीशानो देवशक्तिभि: ।
हन्यन्तामसुरा: शीघ्रं मम प्रीत्याऽऽह चण्डिकाम् ॥२२॥
ततो देवीशरीरातु विनिष्क्रान्तातिभीषणा ।
चण्डिकाशक्तिरत्युग्रा शिवाशतनिनादिनी ॥२३॥
सा चाह धूम्रजटिलमीशानमपराजिता ।
दूत त्वं गच्छ भगवन् पार्श्वं शुम्भनिशुम्भयो: ॥२४॥
ब्रुहि शुम्भं निशुम्भं च दानवावतिगर्वितौ ।
ये चान्ये दानवास्तत्र युद्धाय समुपस्थिता: ॥२५॥
त्रैलोक्यमिन्द्रो लभतां देव: सन्तु हविर्भुज: ।
यूयं प्रयात पातालं यदि जीवितुमिच्छथ ॥२६॥
बलावलेपादथ चेद्‌भवन्तो युद्धकाङ्‌क्षिणा: ।
तदागच्छतु तृप्यन्तु मच्छिवा: पिशितेन व: ॥२७॥
यतो नियुक्तो दौत्येन तया देव्या शिव: स्वयम् ।
शिवदूतीति लोकेऽस्मिस्तत: सा ख्यातिमागता ॥२८॥
तेऽपि श्रुत्वा वचो देव्या: शर्वाख्यातं महासुरा: ।
अमर्षापूरिता जग्मुर्यत्र कात्यायनी स्थिता ॥२९॥
तत: प्रथममेवाग्रे शरशक्त्यृष्टिवृष्टिभि: ।
ववर्षुरुद्धतामर्षास्तां देवीममरारय: ॥३०॥
सा च तान् प्रहितान् बाणाञ्छूलशक्तिपरश्वधान् ।
चिच्छेद लीलयाऽऽध्मातधनुर्मुक्तैर्महेषुभि: ॥३१॥
तस्याग्रतस्तथा काली शूलपातविदारितान् ।
खट्‌वाङ्‌गपोथितांश्चारीन् कुर्वती व्यचरत्तदा ॥३२॥
कमण्डलुजलाक्षेपहतवीर्यान् हतौजस: ।
ब्रह्माणी चाकरोच्छत्रून् येन येन स्म धावति ॥३३॥
माहेश्‍वरी त्रिशूलेन तथा चक्रेण वैष्णवी ।
दैत्याज्जघान कौमारी तथा शक्त्यातिकोपना ॥३४॥
ऎन्द्रीकुलिशपातेन शतशो दैत्यदानवा: ।
पेतुर्विदारिता: पृथ्व्यां रुधिरौधप्रवर्षिण: ॥३५॥
तुण्डप्रहारविध्वस्ता दंष्ट्राग्रक्षतवक्षस: ।
वाराहमूर्त्या न्यपतंश्चक्रेण च विदारिता: ॥३६॥
नखैर्विदारितांश्चान्यान् भक्षयन्ती महासुरान् ।
नारसिंही चचाराजौ नादापूर्णदिगम्बरा ॥३७॥
चण्डाट्टहासैरसुरा: शिवदूत्यभिदूषिता: ।
पेतु: पृथिव्यां पतितांस्तांश्‍चखादाथ सा तदा ॥३८॥
इति मातृगणं क्रुद्धं मर्दयन्तं महासुरान् ।
दृष्ट्‌वाभ्युपायैर्विविधैर्नेशुर्देवारिसैनिका: ॥३९॥
पलयनपरान् दृष्ट्‌वा दैत्यान् मातृगणार्दितान् ।
योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुर: ॥४०॥
रक्‍तबिन्दुर्यदा भूमौ पतत्यस्य शरीरत: ।
समुत्पतति मेदिन्यां तत्प्रमाणस्तदासुर: ॥४१॥
युयुधे स गदापाणिरिन्द्रशक्त्या महासुर: ।
ततश्‍चैन्द्री स्ववज्रेण रक्‍तबीजमताडयत् ॥४२॥
कुलिशेनाहतस्याशु बहु सुस्राव शेणितम् ।
समुत्तस्थुस्ततो योधास्तद्रूपास्तत्पराक्रमा: ॥४३॥
यावन्त: पतितास्तस्य शरीराद्रक्‍तबिन्दव: ।
तावन्त: पुरुषा जातास्तद्वीर्यबलविक्रमा: ॥४४॥
ते चापि युयुधुस्तत्र पुरुषा रक्तसम्भवा: ।
समं मातृभिरत्युग्रशस्त्रपातातिभीषणम् ॥४५॥
पुनश्‍च वज्रपातेन क्षतमस्य शिरो यदा ।
ववाह रक्तं पुरुषास्ततो जाता: सहस्रश: ॥४६॥
वैष्णवी समरे चैनं चक्रेणाभिजघान ह ।
गदया ताडयामास ऎन्द्री तमसुरेश्‍वरम् ॥४७॥
वैष्णवीचक्रभिन्नस्य रुधिरस्रावसम्भवै: ।
सहस्रशो जगद्‌व्याप्तं तत्प्रमाणैर्महासुरै: ॥४८॥
शक्त्या जघान कौमारी वाराही च तथासिना ।
माहेश्‍वरी त्रिशूलेन रक्‍तबीजं महासुरम् ॥४९॥
स चापि गदया दैत्य: सर्वा एवाहनत् पृथक् ।
मातृ: कोपसमाविष्टो रक्तबीजो महासुर: ॥५०॥
तस्याहतस्य बहुधा शक्तिशूलादिभिर्भुवि ।
पपात यो वै रक्‍तौघस्तेनासञ्छतशोऽसुरा: ॥५१॥
तैश्‍चासुरासृक्सम्भूतैरसुरै: सकलं जगत् ।
व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम् ॥५२॥
तान् विषण्णान् सुरान् दृष्ट्‌वा चण्डिका प्राह सत्वरा ।
उवाच कालीं चामुण्डे विस्तीर्णं वदनं कुरु ॥५३॥
मच्छस्त्रपातसम्भूतान् रक्तबिन्दून्महासुरान् ।
रक्‍तबिन्दो: प्रतीच्छ त्वं वक्त्रेणानेन वेगिना ॥५४॥
भक्षयन्ती चर रणे तदुत्पन्नान्महासुरान् ।
एवमेष क्षयं दैत्य: क्षीणरक्तो गमिष्यति ॥५५॥
भक्ष्यमाणास्त्वया चोग्रा न चोत्पत्स्यन्ति चापरे ।
इत्युक्त्वा तां ततो देवी शूलेनाभिजघान तम् ॥५६॥
मुखेन काली जगृहे रक्‍तबीजस्य शोणितम् ।
ततोऽसावाजघानाथ गदया तत्र चण्डिकाम् ॥५७॥
न चास्या वेदनां चक्रे गदापातोऽल्पिकामपि ।
तस्याहतस्य देहात्तु बहु सुस्राव शोणितम् ॥५८॥
यतस्ततस्तद्वक्त्रेण चामुण्डा सम्प्रतीच्छति ।
मुखे समुद्गता येऽस्या रक्‍तपातान्महासुरा: ॥५९॥
तांश्‍चखादाथ चामुण्डा पपौ तस्य च शोणितम् ।
देवी शूलेन वज्रेण बाणैरसिभिऋष्टिभि: ॥६०॥
जघान रक्‍तबीजं तं चामुण्डापीतशोणितम् ।
स पपात महीपृष्ठे शस्‍त्रसङ्घसमाहत: ॥६१॥
नीरक्तश्र्च महीपाल रक्तबीजो महासुर: ।
ततस्ते हर्षमतुलमवापुस्रिदशा नृप ॥६२॥
तेषां मातृगणो जातो ननर्तासृङ्‌मदोद्धत: ॥ॐ॥६३॥
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे
देवीमाहात्म्ये
रक्तबीजवधो नामाष्टमोऽध्याय: ॥८॥
उवाच१, अर्धश्‍लोक: १,श्लोका: ६१,
एवम् ६३, एवमादित: ५०२ ॥

सर्व पहा

देवांना अत्यंत प्रिय असणाऱ्या या फुलांच्या माळा अर्पण करा; मिळवा विशेष आशीर्वाद!

गणेशोत्सव १० दिवसांचाच का असतो? बाप्पाच्या पाहुणचाराशी आणि महाभारताशी संबंधित ही आकर्षक कथा वाचा

नीम करोली बाबा पुण्यतिथी Neem Karoli Baba death anniversary

Mahalakshmi Mantra देवी लक्ष्मीचे ६ चमत्कारी मंत्र: संपत्ती, समृद्धी आणि आशीर्वाद मिळविण्यासाठी अचूक उपाय

Modak Variety गणेशोत्सव विशेष गणपती बाप्पासाठी खास ट्रेंडिंग मोदकाचे प्रकार

सर्व पहा

Pithori Amavasya Matrudin 2026 Wishes in Marathi पिठोरी अमावस्या शुभेच्छा संदेश

Haritalika 2026 : हरितालिकेच्या दिवशी चुकून सुद्धा करू नका हे 5 काम

कॉफी फक्त पिण्यासाठीच नाही तर ती घरगुती कामांसाठीही खूप उपयुक्त आहे! वाचा

नथीचा तोराच वेगळा! या गणेशोत्सवात ट्राय करा नथीचे हे खास आणि ट्रेन्डी प्रकार

घरातील या एका जागी चप्पल ठेवणे चुकीचे? काय सांगते वास्तुशास्त्र

पुढील लेख
Show comments