1. धर्म
  2. हिंदू
  3. हिंदू धर्माविषयी
  4. Gaurigirisha Stotram lyrics

गौरीगिरीशस्तोत्रम्- Gaurigirisha Stotram

Gaurigirisha Stotram lyrics
गौरीगिरीश स्तोत्रम् चन्द्रार्धप्रविभासिमस्तकतटौ 
तन्द्राविहीनौ सदा भक्तौघप्रतिपालने निजतनुच्छायाजितार्कायुतौ ।
 शृङ्गाद्रिस्थविवाहमण्डपगतौ कारुण्यवारान्निधी कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥१॥ 
 
अन्योन्यार्चनतत्परौ मधुरवाक्सन्तोषितान्योन्यकौ चन्द्रार्धांचितशेखरा प्रणमतामिष्टर्थदौ सत्वरम् । शृङ्गाद्रिस्थविवाहमण्डपगतौ शृङ्गारजन्मावनी कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥२॥ 
 
सौन्दर्येण परस्परं प्रमुदितावन्योन्यचित्तस्थितौ राकाचन्द्रसमानवक्त्रकमलौ पादाब्जकालङ्कृतौ । शृङ्गाद्रिस्थविवाहमण्डपगतौ गङ्गातटावासिनौ कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥३॥
 
सिंहोक्षाग्र्यगती महोन्नतपदं संप्रापयन्तौ नता- नंहोराशिनिवारणैकनिपुणौ ब्रह्मोग्रविष्ण्वर्चितौ । शृङ्गाद्रिस्थविवाहमण्डपगतौ गाङ्गेयभूषोज्ज्वलौ कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥४॥ 
 
कस्तूरीघानसारचर्चिततनू प्रस्तूयमानौ सुरै- रस्तूक्त्या प्रणतेष्टपूरणकरौ वस्तूपलब्धिप्रदौ । शृङ्गाद्रिस्थविवाहमण्डपगतावङ्गावधूतेन्दुभौ कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥५॥ 
 
वाणीनिर्जितहंसकोकिलरवौ पाणीकृतांभोरुहौ वेणीकेशविनिर्जिताहिचपलौ क्षोणीसमानक्षमौ । शृङ्गाद्रिस्थविवाहमण्डपगतौ तुङ्गेष्टजालप्रदो कल्याणं तनुतां समस्तजगतां गौरीगिरिशौ मुदा॥६॥
 
 कामापत्तिविभूतिकारणदशौ सोमार्धभूषोज्ज्वलौ सामाम्नायसुगीयमानचरितौ रामार्चिताङ्घ्रिद्वयौ । शृङ्गाद्रिस्थविवाहमण्डपगतौ माणिक्यभूषान्वितौ कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥७॥
 
 दंभाहङ्कॄतिदोषशून्यपुरुषैः संभावनीयौ सदा जंभारातिमुखामरेन्द्रविनुतौ कुंभात्मजाद्यर्चितौ । शृङ्गाद्रिस्थविवाहमण्डपगतौ वाग्दानदीक्षाधरौ कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा॥८॥
 
 शापानुग्रहशक्तिदाननिपुणौ तापापनोदक्षमौ सोपानक्रमतोऽधिकारेभिरनुप्राप्यौ क्षमासागरौ । शृङ्गाद्रिस्थविवाहमण्डपगतौ लावण्यपाथोनिधी कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥९॥
 
 शोणांभोरुहतुल्यपादयुगळौ बाणार्चनातोषितौ वीणाधृङ्मुनिगीयमानविभवौ बालारुणाभांबरौ । शृङ्गाद्रिस्थविवाहमण्डपगतौ तुल्याधिकैर्वर्जितौ कल्याणं तनुतां समस्तजगतां गौरीगिरीशौ मुदा ॥१०॥
 
इति गौरीगिरीशस्तोत्रं संपूर्णम् ॥
 
About Writer
वेबदुनिया धर्म टीम
वेबदुनिया धर्म टीम विविध धर्मांतील सण-उत्सव, परंपरा आणि अध्यात्मावर आधारित सखोल माहिती वाचकांपर्यंत पोहोचवते. दैनंदिन पंचांग, राशीभविष्य आणि तीर्थक्षेत्रांचा इतिहास रंजक पद्धतीने मांडून लोकांच्या धार्मिक व आध्यात्मिक जिज्ञासेचे समाधान करणे, हे या टीमचे मुख्य काम असते..... आणखी वाचा
पुढील लेख
५ मे मंगळवार आज अंगारक चतुर्थी, या प्रकारे करा गणेश, मारुती आणि मंगळ ग्रहाची पूजा