1. धर्म
  2. हिंदू
  3. हिंदू धर्माविषयी
  4. Saraswati Ashtakam Lyrics

विद्यार्थ्यांसाठी अभ्यासात एकाग्रता वाढवणारे स्तोत्र : सरस्वती अष्टकम

॥ सरस्वती अष्टकम ॥

॥ श्रीगणेशाय नमः ॥
 
॥ शतानीक उवाच ॥
 
महामते महाप्राज्ञ सर्वशास्त्रविशारद ।
अक्षीणकर्मबन्धस्तु पुरुषो द्विजसत्तम ॥ १॥
 
मरणे यज्जपेज्जाप्यं यं च भावमनुस्मरन् ।
परं पदमवाप्नोति तन्मे ब्रूहि महामुने ॥ २॥
 
॥ शौनक उवाच ॥
 
इदमेव महाराज पृष्टवांस्ते पितामहः ।
भीष्मं धर्मविदां पृष्ठेदं धर्मपुत्रो युधिष्ठिरः ॥ ३॥
 
॥ युधिष्ठिर उवाच ॥
 
पितामह महाप्राज्ञ सर्वशास्त्रविशारद ।
बृहस्पतिस्तुता देवी वागीशाय महात्मने ।
आत्मानं दर्शयामास सूर्य कोटिसमप्रभम् ॥ ४॥
 
॥ सरस्वत्युवाच ॥
 
वरं वृणीष्व भद्रं ते यत्ते मनसि वर्तते ।
 
॥ बृहस्पतिरुवाच ॥
 
यदि मे वरदा देवि दिव्यज्ञानं प्रयच्छ मे ॥ ५॥
 
॥ देव्युवाच ॥
 
हन्त ते निर्मलं ज्ञानं कुमतिध्वंसकारकम् ।
स्तोत्रेणानेन ये भक्त्या मां स्तुवन्ति मनीषिणः ॥ ६॥
 
॥ बृहस्पतिरुवाच ॥
 
लभते परमं ज्ञानं यत्सुरैरपि दुर्लभम् ।
प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः ॥ ७॥
 
॥ सरस्वत्युवाच ॥
 
त्रिसन्ध्यं प्रयतो नित्यं पठेदष्टकमुत्तमम् ।
तस्य कण्ठे सदा वासं करिष्यामि न संशयः ॥ ८॥
 
॥ इति श्रीपद्मपुराणे दिव्यज्ञानप्रदायकं सरस्वत्यष्टकस्तोत्रं सम्पूर्णम् ॥