मंगळवार, 25 फेब्रुवारी 2025
  1. धर्म
  2. सण-उत्सव
  3. महाशिवरात्री
Written By
Last Updated : मंगळवार, 25 फेब्रुवारी 2025 (15:05 IST)

शिव स्तोत्रे संपूर्ण

श्री विश्वनाथ सुप्रभातं
उत्तिष्ट भैरवस्वामिन् काशिकापुरपालक । श्रीविश्वनाथभक्तानां संपूरय मनोरथम् ॥१॥
स्नानाय गाङ्गसलिलेऽथ समर्चनाय विश्वेश्वरस्य बहुभक्तजना उपेताः । श्रीकालभैरव लसन्ति भवन्निदेशं उत्तिष्ट दर्शय दशां तव सुप्रभातम् ॥२॥
यागव्रतादिबहुपुण्यवशं यथा त्वं पापात्मनामपि तथा सुगतिप्रदाऽसि । कारुण्यपूरमयि शैलसुतासपत्नि मातर्भगीरथसुते तव सुप्रभातम् ॥३॥
दुग्धप्रवाहकमनीयतरङ्गभङ्गे पुण्यप्रवाहपरिपाथितभक्तसङ्गे । नित्यं तपस्विजनसेवितपादपद्मे गङ्गे शरण्यशिवदे तव सुप्रभातम् ॥४॥
वाराणसीस्थितगजानन दुण्ठिराज संप्रार्थितेऽष्टफलदानसमर्थमूर्ते । उत्तिष्ट विघ्नविरहाय भजामहे त्वां श्रीपार्वतीतनय भोस्तव सुप्रभातम् ॥५॥
पूजास्पद प्रथममेव सुरेशु मध्ये संपूरणे कुशल भक्तमनोरथानाम् । गीर्वाणबृन्दपरिपूजितपादपद्म संजायतां गणपते तव सुप्रभातम् ॥६॥
कात्यायनी प्रमथनाथशरीरभागे भक्तालिगीतमुखरीकृतपादपद्मे । ब्रह्मादिदेवगणवन्दितदिव्यशौर्ये श्रीविश्वनाथदयिते तव सुप्रभातम् ॥७॥
प्रातः प्रसीद विमले कमलायताक्षि कारुण्यपूर्णहृदये नमतां शरण्ये । निर्धूतपापनिचये सुरपूजितांघ्रे श्रीविश्वनाथदयिते तव सुप्रभातम् ॥८॥
सस्यानुकूलजलवर्षणकार्यहेतोः शाकम्भरीति तव नाम भुवि प्रसिद्दम् । सस्यातिजातमिह शुष्यति चान्नपूर्णे उत्तिष्ट सर्वफलदे तव सुप्रभातम् ॥९॥
सर्वोत्तमं मानवजन्म लब्ध्वा हिनस्ति जीवान् भुवि मर्त्यवर्गः । तद्दारणायाशु जहीहि निद्रां देव्यन्नपूर्णे तव सुप्रभातम् ॥१०॥
श्रीकण्ठ कण्ठधृतपन्नग नीलकण्ठ सोत्कण्ठभक्तनिवहोपहितोपकण्ठ । उत्तिष्ट सर्वजनमङ्गलसाधनाय विश्वप्रजाप्रथितभद्र जहीहि निद्राम् ॥११॥
गङ्गाधराद्रितनयाप्रिय शान्तमूर्ते वेदान्तवेद्य सकलेश्वर विश्वमूर्ते । कूटस्थनित्य निखिलागमगीतकीर्ते देवासुरार्चित विभो तव सुप्रभातम् ॥१२॥
श्रीविश्वनाथकरुणामृतपूर्णसिन्धो शीतांशुखण्डसमलंकृतभव्यचूड । भस्माङ्गरागपरिशोभितसर्वदेह वाराणसीपुरपते तव सुप्रभातम् ॥१३॥
देवादिदेव त्रिपुरान्तक दिव्यभाव गङ्गाधर प्रमथवन्दित सुन्दराङ्ग । नागेन्द्रहार नतभक्तभयापहार वाराणसीपुरपते तव सुप्रभातम् ॥१४॥
वेदान्तशास्त्रविशदीकृतदिव्यमूर्ते प्रत्यूषकालमुनिपुङ्गवगीतकीर्ते । त्वय्यर्पितार्जितसमस्तसुरक्षणस्य वाराणसीपुरपते तव सुप्रभातम् ॥१५॥
कैलासवासमुनिसेवितपादपद्म गङ्गाजलौघपरिषिक्तजटाकलाप । वाचामगोचरविभो जटिलत्रिनेत्र वाराणसीपुरपते तव सुप्रभातम् ॥१६॥
श्रीपार्वतीहृदयवल्लभ पञ्चवक्त्र श्रीनीलकण्ठ नृकपालकलापमाल । श्रीविश्वनाथमृदुपंकजमंजुपाद श्रीकाशिकापुरपते तव सुप्रभातम् ॥१७॥
काशी त्रितापहरणी शिवसद्मभूता शर्मेश्वरी त्रिजगतां सुपुरीषु हृद्या । विद्याकलासु नवकौशलदानशीला श्रीकाशिकापुरपते तव सुप्रभातम् ॥१८॥
श्रीविश्वनाथ तव पादयुगं स्मरामि गङ्गामघापहरणीं शिरशा नमामि । वाचं तवैव यशसाऽनघ भूषयामि वाराणसीपुरपते तव सुप्रभातम् ॥१९॥
नारीनतेश्वरयुतं निजचारुरूपं स्त्रीगौरवं जगति वर्धयितुं तनोषि । गङ्गां हि धारयसि मूर्ध्नि तथैव देव वाराणसीपुरपते तव सुप्रभातम् ॥२०॥
त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव । त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देवदेव ॥
ॐ मङ्गलं भगवान् शम्भो मङ्गलम् वॄषभध्वज । मङ्गलं पार्वतीनाथ मङ्गलं भक्तवत्सल ॥ । एतत् श्लोकद्वयं प्राचीनकविकृतम् ।

हर हर महादेव
ॐ हर हर महादेव जय शिव ओंकार हर जय शिव ओंकार ब्रह्म विष्णु सदाशिव अर्धाङ्गि धार ॥
ॐ हर हर हर महादेव एकानन चतुरानन पञ्चानन राजें हंसासन गरुडासन वृशवाहन साजें ॥
ॐ हर हर हर महादेव दोय भुज् चार् चतुर्भुज् दशाभुज् तें सोहें तीनों रोओप् निरखथन् त्रिभुवन् जन् मोहें ॥
ॐ हर हर हर महादेव अक्षमाल बनमाल रुंड्माल धारि चन्दन् मृगमद् चन्द भोले शुभकरि ॥
ॐ हर हर हर महादेव श्वेताम्बर् पीताम्बर् बदाम्बर् अङ्गे सनकधिक् गरुदाधिक् भूतधिक् सङ्गे ॥
ॐ हर हर हर महादेव कर्मध्ये च कमन्दलु चक्र त्रिशूल् धर्त जग्कर्त दुखहर्त जग्पालन् कर्त ॥
ॐ हर हर हर महादेव ब्रह्मा विष्णु सदाशिव् जनत् अविवेक प्रणवक्षर् ॐ मध्ये ये तीनों येक ॥
ॐ हर हर हर महादेव त्रिगुन स्वामि कि आरति जो कोयि नर् गावे भव् भक्ति के करुण मन्वञ्चित् फल् पतें ॥
ॐ हर हर हर महादेव ॥ ॐ तत् सत् ॥

************************** 

सुवर्णमालास्तुतिः
ईश गिरीश नरेश परेश महेश बिलेशय भूषण भो । साम्ब सदाशिव शम्भो शङ्कर शरणम् मे तव चरणयुगम् ॥
उमया दिव्य सुमङ्गल विग्रह यालिङ्गित वामाङ्ग विभो । साम्ब सदाशिव शम्भो शङ्कर शरणम् मे तव चरणयुगम् ॥
ऊरी कुरु मामज्ञमनाथं दूरी कुरु मे दुरितं भो । साम्ब सदाशिव शम्भो शङ्कर शरणम् मे तव चरणयुगम् ॥
ऋषिवर मानस हंस चराचर जनन स्थिति लय कारण भो । साम्ब सदाशिव शम्भो शङ्कर शरणम् मे तव चरणयुगम् ॥
अन्तःकरण विशुद्दिं भक्तिम् च त्वयि सतीं प्रदेहि विभो । साम्ब सदाशिव शम्भो शङ्कर शरणम् मे तव चरणयुगम् ॥
करुणा वरुणालय मयिदास उदासस्तवोचितो न हि भो । साम्ब सदाशिव शम्भो शङ्कर शरणम् मे तव चरणयुगम् ॥
जय कैलाश निवास प्रमथ गणाधीश भू सुरार्चित भो । साम्ब सदाशिव शम्भो शङ्कर शरणम् मे तव चरणयुगम् ॥
झनुतक जङ्किणु झनुतत्किट तक शब्दैर्नटसि महानट भो । साम्ब सदाशिव शम्भो शङ्कर शरणम् मे तव चरणयुगम् ॥
धर्मस्थापन दक्ष त्र्यक्ष गुरो दक्ष यज्ञशिक्षक भो । साम्ब सदाशिव शम्भो शङ्कर शरणम् मे तव चरणयुगम् ॥
बलमारोग्यं चायुस्त्वद्गुण रुचिताम् चिरं प्रदेहि विभो । साम्ब सदाशिव शम्भो शङ्कर शरणम् मे तव चरणयुगम् ॥
भगवन् भर्ग भयापह भूत पते भूतिभूषिताङ्ग विभो । साम्ब सदाशिव शम्भो शङ्कर शरणम् मे तव चरणयुगम् ॥
शर्व देव सर्वोत्तम सर्वद दुर्वृत्त गर्वहरण विभो । साम्ब सदाशिव शम्भो शङ्कर शरणम् मे तव चरणयुगम् ॥
षड्रिपु षडूर्मि षड्विकार हर सन्मुख षण्मुख जनक विभो । साम्ब सदाशिव शम्भो शङ्कर शरणम् मे तव चरणयुगम् ॥
सत्यम् ज्ञानमनन्तं ब्रह्मे त्येतल्लक्षण लक्षित भो । साम्ब सदाशिव शम्भो शङ्कर शरणम् मे तव चरणयुगम् ॥
हाऽहाऽहूऽहू मुख सुरगायक गीता पदान पद्य विभो । साम्ब सदाशिव शम्भो शङ्कर शरणम् मे तव चरणयुगम् ॥
॥ इति श्री शङ्कराचार्य कृत सुवर्णमालास्तुतिः ॥

************************** 

शिवानन्द लहरी
कलाभ्यां चूडालङ्कृतशशिकलाभ्यां निजतपः- फलाभ्यां भक्तेषु प्रकटितफलाभ्यां भवतु मे । शिवाभ्यामस्तोकत्रिभुवनशिवाभ्यां हृदि पुन- र्भवाभ्यामानन्दस्फुरदनुभवाभ्यां नतिरियम् ॥१॥
गलन्ती शंभो त्वच्चरितसरितः किल्बिषरजो दलन्ती धीकुल्यासरणिषु पतन्ती विजयताम् । दिशन्ती संसारभ्रमणपरितापोपशमनं वसन्ती मच्चेतोहृदभुवि शिवानन्दलहरी ॥२॥
त्रयीवेद्यं हृद्यं त्रिपुरहरमाद्यं त्रिनयनं जटाभारोदारं चलदुरगहारं मृगधरम् । महादेवं देवं मयि सदयभावं पशुपतिं चिदालम्बं साम्बं शिवमतिविडम्बं हृदि भजे ॥३॥
सहस्रं वर्तन्ते जगति विबुधाः क्षुद्रफलदा न मन्ये स्वप्ने वा तदनुसरणं तत्कृतफलम् । हरिब्रह्मादीनामापि निकटभाजामसुलभं चिरं याचे शंभो तव पदांभोजभजनम् ॥४॥
स्मृतौ शास्त्रे वैद्ये शकुनकवितागानफणितौ पुराणे मन्त्रे वा स्तुतिनटनहास्येष्वचतुरः । कथं राज्ञां प्रीतिर्भवति मयि कोऽहं पशुपते पशुं मां सर्वज्ञ प्रथित कृपया पालय विभो ॥५॥
घटो वा मृत्पिण्डोऽप्यणुरपि च धूमोऽग्निरचलः पटो वा तन्तुर्वा परिहरति किं घोरशमनम् । वृथा कण्ठक्षोभं वहसि तरसा तर्कवचसा पदाम्भोजं शंभोर्भज परमसौख्यं व्रज सुधीः ॥६॥
मनस्ते पादाब्जे निवसतु वचः स्तोत्रफणितौ करौ चाभ्यर्चायां श्रुतिरपि कथाकर्णनविधौ । तव ध्याने बुद्धिर्नयनयुगलं मूर्तिविभवे परग्रन्थान् कैर्वा परमशिव जाने परमतः ॥७॥
यथा बुद्धिः शुक्तौ रजतमिति काचाश्मनि मणि- र्जले पैष्टे क्षीरं भवति मृगतृष्णासु सलिलम् । तथा देवभ्रान्त्या भजति भवदन्यं जडजनो महादेवेशं त्वां मनसि च न मत्वा पशुपते ॥८॥
गभीरे कासारे विशति विजने घोरविपिने विशाले शैले च भ्रमति कुसुमार्थं जडमतिः । समर्प्यैकं चेतः सरसिजमुमानाथ भवते सुखेनावस्थातुं जन इह न जानाति किमहो ॥९॥
नरत्वं देवत्वं नगवनमृगत्वं मशकता पशुत्वं कीटत्वं भवतु विहगत्वादि जननम् । सदा त्वत्पादाब्जस्मरणपरमानन्दलहरी- विहारासक्तं चेद्धृदयमिह किं तेन वपुषा ॥१०॥
वटुर्वा गेही वा यतिरपि जटी वा तदितरो नरो वा यः कश्चिद्भवतु भव किं तेन भवति । यदीयं हृत्पद्मं यदि भवदधीनं पशुपते तदीयस्त्वं शंभो भवसि भवभारं च वहसि ॥११॥
गुहायां गेहे वा बहिरपि वने वाऽद्रिशिखरे जले वा वह्नौ वा वसतु वसतेः किं वद फलम् । सदा यस्यैवान्तःकरणमपि शंभो तव पदे स्थितं चेद्योगोऽसौ स च परमयोगी स च सुखी ॥१२॥
असारे संसारे निजभजनदूरे जडधिया भ्रमन्तं मामन्धं परमकृपया पातुमुचितम् । मदन्यः को दीनस्तव कृपणरक्षातिनिपुण- स्त्वदन्यः को वा मे त्रिजगति शरण्यः पशुपते ॥१३॥
प्रभुस्त्वं दीनानां खलु परमबन्धुः पशुपते प्रमुख्योऽहं तेषामपि किमुत बन्धुत्वमनयोः । त्वयैव क्षन्तव्याः शिव मदपराधाश्च सकलाः प्रयत्नात्कर्तव्यं मदवनमियं बन्धुसरणिः ॥१४॥
उपेक्षा नो चेत् किं न हरसि भवद्ध्यानविमुखां दुराशाभूयिष्ठां विधिलिपिमशक्तो यदि भवान् । शिरस्तद्वैधात्रं न नखलु सुवृत्तं पशुपते कथं वा निर्यत्नं करनखमुखेनैव लुलितम् ॥१५॥
विरिञ्चिर्दीर्घायुर्भवतु भवता तत्परशिर- श्चतुष्कं संरक्ष्यं स खलु भुवि दैन्यं लिखितवान् । विचारः को वा मां विशद कृपया पाति शिव ते कटाक्षव्यापारः स्वयमपि च दीनावनपरः ॥१६॥
फलाद्वा पुण्यानां मयि करुणया वा त्वयि विभो प्रसन्नेऽपि स्वामिन् भवदमलपादाब्जयुगलम् । कथं पश्येयं मां स्थगयति नमः संभ्रमजुषां निलिम्पानां श्रोणिर्निजकनकमाणिक्यमकुटैः ॥१७॥
त्वमेको लोकानां परमफलदो दिव्यपदवीं वहन्तस्त्वन्मूलां पुनरपि भजन्ते हरिमुखाः । कियद्वा दाक्षिण्यं तव शिव मदाशा च कियती कदा वा मद्रक्षां वहसि करुणापूरितदृशा ॥१८॥
दुराशाभूयिष्ठे दुरधिपगृहद्वारघटके दुरन्ते संसारे दुरितनिलये दुःखजनके । मदायासं किं न व्यपनयसि कस्योपकृतये वदेयं प्रीतिश्चेत्तव शिव कृतार्थाः खलु वयम् ॥१९॥
सदा मोहाटव्यां चरति युवतीनां कुचगिरौ नटत्याशाशाखास्वटति झटिति स्वैरमभितः । कपालिन् भिक्षो मे हृदयकपिमत्यन्तचपलं दृढं भक्त्या बद्ध्वा शिव भवदधीनं कुरु विभो ॥२०॥
धृतिस्तंभाधारां दृढगुणनिबद्धां सगमनां विचित्रां पद्माढ्यां प्रतिदिवससन्मार्गघटिताम् । स्मरारे मच्चेतःस्फुटपटकुटीं प्राप्य विशदां जय स्वामिन् शक्त्या सह शिवगणैः सेवित विभो ॥२१॥
प्रलोभाद्यैरर्थाहरणपरतन्त्रो धनिगृहे प्रवेशोद्युक्तस्सन् भ्रमति बहुधा तस्करपते । इमं चेतश्चोरं कथमिह सहे शंकर विभो तवाधीनं कृत्वा मयि निरपराधे कुरु कृपाम् ॥२२॥
करोमि त्वत्पूजां सपदि सुखदो मे भव विभो विधित्वं विष्णुत्वं दिशसि खलु तस्याः फलमिति । पुनश्च त्वां द्रष्टुं दिवि भुवि वहन् पक्षिमृगता- मदृष्ट्वा तत्खेदं कथमिह सहे शंकर विभो ॥२३॥
कदा वा कैलासे कनकमणिसौधे सहगणै- र्वसन् शंभोरग्रे स्फुटघटितमूर्धाञ्जलिपुटः । विभो साम्ब स्वामिन् परमशिव पाहीति निगदन् विधातॄणां कल्पान् क्षणमिव विनेष्यामि सुखतः ॥२४॥
स्तवैर्ब्रह्मादीनां जयजयवचोभिर्नियमिनां गणानां केलीभिर्मदकलमहोक्षस्य ककुदि । स्थितं नीलग्रीवं त्रिनयनमुमाश्लिष्टवपुषं कदा त्वां पश्येयं करधृतमृगं खण्डपरशुम् ॥२५॥
कदा वा त्वां दृष्ट्वा गिरिश तव भव्याङ्घ्रियुगलं गृहीत्वा हस्ताभ्यां शिरसि नयने वक्षसि वहन् । समाश्लिष्याघ्राय स्फुटजलजगन्धान् परिमला- नलाभ्यां ब्रह्माद्यैर्मुदमनुभविष्यामि हृदये ॥२६॥
करस्थे हेमाद्रौ गिरिश निकटस्थे धनपतौ गृहस्थे स्वर्भूजाऽमरसुरभिचिन्तामणिगणे । शिरस्थे शीतांशौ चरणयुगलस्थेऽखिलशुभे कमर्थं दास्येऽहं भवतु भवदर्थं मम मनः ॥२७॥
सारूप्यं तव पूजने शिव महादेवेति संकीर्तने सामीप्यं शिवभक्तिधुर्यजनतासांगत्यसंभाषणे । सालोक्यं च चराचरात्मकतनुध्याने भवानीपते सायुज्यं मम सिद्धमत्र भवति स्वामिन् कृतार्थोऽस्म्यहम् ॥२८॥
त्वत्पादाम्बुजमर्चयामि परमं त्वां चिन्तयाम्यन्वहं त्वामीशं शरणं व्रजामि वचसा त्वामेव याचे विभो । वीक्षां मे दिश चाक्षुषीं सकरुणां दिव्यैश्चिरं प्रार्थितां शंभो लोकगुरो मदीयमनसः सौख्योपदेशं कुरु ॥२९॥
वस्त्रोद्धूतविधौ सहस्रकरता पुष्पार्चने विष्णुता गन्धे गन्धवहात्मताऽन्नपचने बर्हिर्मुखाध्यक्षता । पात्रे काञ्चनगर्भतास्ति मयि चेद् बालेन्दुचूडामणे शुश्रूषां करवाणि ते पशुपते स्वामिन् त्रिलोकीगुरो ॥३०॥
नालं वा परमोपकारकमिदं त्वेकं पशूनां पते पश्यन् कुक्षिगतान् चराचरगणान् बाह्यस्थितान् रक्षितुम् । सर्वामर्त्यपलायनौषधमतिज्वालाकरं भीकरं निक्षिप्तं गरलं गले न गिलितं नोद्गीर्णमेव त्वया ॥३१॥
ज्वालोग्रः सकलामरातिभयदः क्ष्वेलः कथं वा त्वया दृष्टः किं च करे धृतः करतले किं पक्वजंबूफलम् । जिह्वायां निहितश्च सिद्धघुटिका वा कण्ठदेशे भृतः किं ते नीलमणिर्विभूषणमयं शंभो महात्मन् वद ॥३२॥
नालं वा सकृदेव देव भवतः सेवा नतिर्वा नुतिः पूजा वा स्मरणं कथाश्रवणमप्यालोकनं मादृशाम् । स्वामिन्नस्थिरदेवतानुसरणायासेन किं लभ्यते का वा मुक्तिरितः कुतो भवति चेत् किं प्रार्थनीयं तदा ॥३३॥
किं ब्रूमस्तव साहसं पशुपते कस्यास्ति शंभो भव- द्धैर्यं चेदृशमात्मनः स्थितिरियं चान्यैः कथं लभ्यते । भ्रश्यद्देवगणं त्रसन्मुनिगणं नश्यत्प्रपञ्चं लयं पश्यन्निर्भय एक एव विहरत्यानन्दसान्द्रो भवान् ॥३४॥
योगक्षेमधुरंधरस्य सकलश्रेयःप्रदोद्योगिनो दृष्टादृष्टमतोपदेशकृतिनो बाह्यान्तरव्यापिनः । सर्वज्ञस्य दयाकरस्य भवतः किं वेदितव्यं मया शंभो त्वं परमान्तरङ्ग इति मे चित्ते स्मराम्यन्वहम् ॥३५॥
भक्तो भक्तिगुणावृते मुदमृतापूर्णे प्रसन्ने मनः कुम्भे साम्ब तवाङ्घ्रिपल्लवयुगं संस्थाप्य संवित्फलम् । सत्वं मन्त्रमुदीरयन्निजशरीरागारशुद्धिं वहन् पुण्याहं प्रकटीकरोमि रुचिरं कल्याणमापादयन् ॥३६॥
आम्नायाम्बुधिमादरेण सुमनस्संघाः समुद्यन्मनो मन्थानं दृढभक्तिरज्जुसहितं कृत्वा मथित्वा ततः । सोमं कल्पतरुं सुपर्वसुरभिं चिन्तामणिं धीमतां नित्यानन्दसुधां निरन्तररमासौभाग्यमातन्वते ॥३७॥
प्राक्पुण्याचलमार्गदर्शितसुधामूर्तिःप्रसन्नः शिवः सोमः सद्गुणसेवितो मृगधरः पूर्णस्तमोमोचकः । चेतः पुष्करलक्षितो भवति चेदानन्दपाथोनिधिः प्रागल्भ्येन विजृम्भते सुमनसां वृत्तिस्तदा जायते ॥३८॥
धर्मो मे चतुरङ्घ्रिकः सुचरितः पापं विनाशं गतं कामक्रोधमदादयो विगलिताः कालाः सुखाविष्कृताः । ज्ञानानन्दमहौषधिः सुफलिता कैवल्यनाथे सदा मान्ये मानसपुण्डरीकनगरे राजावतंसे स्थिते ॥३९॥
धीयन्त्रेण वचोघटेन कविताकुल्योपकुल्याक्रमै- रानीतैश्च सदाशिवस्य चरिताम्भोराशिदिव्यामृतैः । हृत्केदारयुताश्च भक्तिकलमाः साफल्यमातन्वते दुर्भिक्षान् मम सेवकस्य भगवन् विश्वेश भीतिः कुतः ॥४०॥
पापोत्पातविमोचनाय रुचिरैश्वर्याय मृत्युंजय स्तोत्रध्याननतिप्रदक्षिणसपर्यालोकनाकर्णने । जिह्वाचित्तशिरोङ्घ्रिहस्तनयनश्रोत्रैरहं प्रार्थितो मामाज्ञापय तन्निरूपय मुहुर्मामेव मा मेऽवचः ॥४१॥
गाम्भीर्यं परिखापदं घनधृतिः प्राकार उद्यद्गुण- स्तोमश्चाप्तबलं घनेन्द्रियचयो द्वाराणि देहे स्थितः । विद्यावस्तुसमृद्धिरित्यखिलसामग्रीसमेते सदा दुर्गातिप्रियदेव मामकमनोदुर्गे निवासं कुरु ॥४२॥
मा गच्छ त्वमितस्ततो गिरिश भो मय्येव वासं कुरु स्वामिन्नादिकिरात मामकमनःकान्तारसीमान्तरे । वर्तन्ते बहुशो मृगा मदजुषो मात्सर्यमोहादय- स्तान् हत्वा मृगयाविनोदरुचितालाभं च
संप्राप्स्यसि ॥४३॥
करलग्नमृगः करीन्द्रभङ्गो घनशार्दूलविखण्डनोऽस्तजन्तुः । गिरिशो विशदाकृतिश्च चेतः- कुहरे पञ्चमुखोस्ति मे कुतो भीः ॥४४॥
छन्दःशाखिशिखान्वितैर्द्विजवरैः संसेविते शाश्वते सौख्यापादिनि खेदभेदिनि सुधासारैः फलैर्दीपिते । चेतःपक्षिशिखामणे त्यज वृथासंचारमन्यैरलं नित्यं शंकरपादपद्मयुगलीनीडे विहारं कुरु ॥४५॥
आकीर्णे नखराजिकान्तिविभवैरुद्यत्सुधावैभवै- राधौतेपि च पद्मरागललिते हंसव्रजैराश्रिते । नित्यं भक्तिवधूगणैश्च रहसि स्वेच्छाविहारं कुरु स्थित्वा मानसराजहंस गिरिजानाथाङ्घ्रिसौधान्तरे ॥४६॥
शंभुध्यानवसन्तसंगिनि हृदारामेऽघजीर्णच्छदाः स्रस्ता भक्तिलताच्छटा विलसिताः पुण्यप्रवालश्रिताः । दीप्यन्ते गुणकोरका जपवचःपुष्पाणि सद्वासना ज्ञानानन्दसुधामरन्दलहरी संवित्फलाभ्युन्नतिः ॥४७॥
नित्यानन्दरसालयं सुरमुनिस्वान्ताम्बुजाताश्रयं स्वच्छं सद्द्विजसेवितं कलुषहृत्सद्वासनाविष्कृतम् । शंभुध्यानसरोवरं व्रज मनो हंसावतंस स्थिरं किं क्षुद्राश्रयपल्वलभ्रमणसंजातश्रमं प्राप्स्यसि ॥४८॥
आनन्दामृतपूरिता हरपदाम्भोजालवालोद्यता स्थैर्योपघ्नमुपेत्य भक्तिलतिका शाखोपशाखान्विता । उच्छैर्मानसकायमानपटलीमाक्रम्य निष्कल्मषा नित्याभीष्टफलप्रदा भवतु मे सत्कर्मसंवर्धिता ॥४९॥
सन्ध्यारंभविजृम्भितं श्रुतिशिरस्थानान्तराधिष्ठितं सप्रेमभ्रमराभिराममसकृत् सद्वासनाशोभितम् । भोगीन्द्राभरणं समस्तसुमनःपूज्यं गुणाविष्कृतं सेवे श्रीगिरिमल्लिकार्जुनमहालिङ्गं शिवालिङ्गितं ॥५०॥
भृंगीच्छानटनोत्कटः करमदिग्राही स्फुरन्माधवा- ह्लादो नादयुतो महासितवपुः पञ्चेषुणा चादृतः । सत्पक्षः सुमनोवनेषु स पुनः साक्षान्मदीये मनो- राजीवे भ्रमराधिपो विहरतां श्रीशैलवासी विभु: ॥५१॥
कारुण्यामृतवर्षिणं घनविपद्ग्रीष्मच्छिदाकर्मठं विद्यासस्यफलोदयाय सुमनःसंसेव्यमिच्छाकृतिम् । नृत्यद्भक्तमयूरमद्रिनिलयं चञ्चज्जटामण्डलं शंभो वाञ्छति नीलकन्धर सदा त्वां मे मनश्चातकः ॥५२॥
आकाशेन शिखी समस्तफणिनां नेत्रा कलापी नता- ऽनुग्राहिप्रणवोपदेशनिनदैः केकीति यो गीयते । श्यामां शैलसमुद्भवां घनरुचिं दृष्ट्वा नटन्तं मुदा वेदान्तोपवने विहाररसिकं तं नीलकण्ठं भजे ॥५३॥
सन्ध्याघर्मदिनात्ययो हरिकराघातप्रभूतानक- ध्वानो वारिदगर्जितं दिविषदां दृष्टिच्छटा चञ्चला । भक्तानां परितोषबाष्पविततिर्वृष्टिर्मयूरी शिवा यस्मिन्नुज्ज्वलताण्डवं विजयते तं नीलकण्ठं भजे ॥५४॥
आद्यायामिततेजसे श्रुतिपदैर्वेद्याय साध्याय ते विद्यानन्दमयात्मने त्रिजगतः संरक्षणोद्योगिने । ध्येयायाखिलयोगिभिः सुरगणैर्गेयाय मायाविने सम्यक्ताण्डवसंभ्रमाय जटिने सेयं नतिः शंभवे ॥५५॥
नित्याय त्रिगुणात्मने पुरजिते कात्यायनीश्रेयसे सत्यायादिकुटुम्बिने मुनिमनः प्रत्यक्षचिन्मूर्तये । मायासृष्टजगत्त्रयाय सकलाम्नायान्तसंचारिणे सायं ताण्डवसंभ्रमाय जटिने सेयं नतिः शंभवे ॥५६॥
नित्यं स्वोदरपोषणाय सकलानुद्दिश्य वित्ताशया व्यर्थं पर्यटनं करोमि भवतः सेवां न जाने विभो । मज्जन्मान्तरपुण्यपाकबलतस्त्वं शर्व सर्वान्तर- स्तिष्ठस्येव हि तेन वा पशुपते ते रक्षनीयोऽस्म्यहम् ॥५७॥
एको वारिजबान्धवः क्षितिनभो व्याप्तं तमोमण्डलं भित्वा लोचनगोचरोऽपि भवति त्वं कोटिसूर्यप्रभः । वेद्यः किन्न भवस्यहो घनतरं कीदृग्भवेन्मत्तम- स्तत्सर्वं व्यपनीय मे पशुपते साक्षात् प्रसन्नो भव ॥५८॥
हंसः पद्मवनं समिच्छति यथा नीलाम्बुदं चातकः कोकः कोकनदप्रियं प्रतिदिनं चन्द्रं चकोरस्तथा । चेतो वाञ्छति मामकं पशुपते चिन्मार्गमृग्यं विभो गौरीनाथ भवत्पदाब्जयुगलं कैवल्यसौख्यप्रदम् ॥५९॥
रोधस्तोयहृतः श्रमेण पथिकश्छायां तरोर्वृष्टितो भीतः स्वस्थगृहं गृहस्थमतिथिर्दीनः प्रभुं धार्मिकम् । दीपं सन्तमसाकुलश्च शिखिनं शीतावृतस्त्वं तथा चेतः सर्वभयापहं व्रज सुखं शंभोः पदाम्भोरुहम् ॥६०॥
अङ्कोलं निजबीजसन्ततिरयस्कान्तोपलं सूचिका साध्वी नैजविभुं लता क्षितिरुहं सिन्धुः सरिद्वल्लभम् । प्राप्नोतीह यथा तथा पशुपतेः पादारविन्दद्वयं चेतोवृत्तिरुपेत्य तिष्ठति सदा सा भक्तिरित्युच्यते ॥६१॥
आनन्दाश्रुभिरातनोति पुलकं नैर्मल्यतच्छादनं वाचा शङ्खमुखे स्थितैश्च जठरापूर्तिं चरित्रामृतैः । रुद्राक्षैर्भसितेन देव वपुषो रक्षां भवद्भावना- पर्यङ्के विनिवेश्य भक्तिजननी भक्तार्भकं रक्षति ॥६२॥
मार्गावर्तितपादुका पशुपतेरङ्गस्य कूर्चायते गण्डूषांबुनिषेचनं पुररिपोर्दिव्याभिषेकायते । किंचिद्भक्षितमांसशेषकबलं नव्योपहारायते भक्तिः किं न करोत्यहो वनचरो भक्तावतंसायते ॥६३॥
वक्षस्ताडनमन्तकस्य कठिनापस्मारसंमर्दनं भूभृत्पर्यटनं नमस्सुरशिरःकोटीरसंघर्षणम् । कर्मेदं मृदुलस्य तावकपदद्वन्द्वस्य गौरीपते मच्चेतोमणिपादुकाविहरणं शंभो सदाङ्गीकुरु ॥६४॥
वक्षस्ताडनशङ्कया विचलितो वैवस्वतो निर्जराः कोटीरोज्ज्वलरत्नदीपकलिकानीराजनं कुर्वते । दृष्ट्वा मुक्तिवधूस्तनोति निभृताश्लेषं भवानीपते यच्चेतस्तव पादपद्मभजनं तस्येह किं दुर्लभम् ॥६५॥
क्रीडार्थं सृजसि प्रपञ्चमखिलं क्रीडामृगास्ते जनाः यत्कर्माचरितं मया च भवतः प्रीत्यै भवत्येव तत् । शंभो स्वस्य कुतूहलस्य करणं मच्चेष्टितं निश्चितं तस्मान्मामकरक्षणं पशुपते कर्तव्यमेव त्वया ॥६६॥
बहुविधपरितोषबाष्पपूर- स्फुटपुलकाङ्कितचारुभोगभूमिम् । चिरपदफलकाङ्क्षिसेव्यमानां परमसदाशिवभावनां प्रपद्ये ॥६७॥
अमितमुदमृतं मुहुर्दुहन्तीं विमलभवत्पदगोष्ठमावसन्तीम् । सदय पशुपते सुपुण्यपाकां मम परिपालय भक्तिधेनुमेकाम् ॥६८॥
जडता पशुता कलङ्किता कुटिलचरत्वं च नास्ति मयि देव । अस्ति यदि राजमौले भवदाभरणस्य नास्मि किं पात्रम् ॥६९॥
अरहसि रहसि स्वतन्त्रबुद्ध्या वरिवसितुं सुलभः प्रसन्नमूर्तिः । अगणितफलदायकः प्रभुर्मे जगदधिको हृदि राजशेखरोऽस्ति ॥७०॥
आरूढभक्तिगुणकुञ्चितभावचाप- युक्तैः शिवस्मरणबाणगणैरमोघैः । निर्जित्य किल्बिषरिपून् विजयी सुधीन्द्रः सानन्दमावहति सुस्थिरराजलक्ष्मीम् ॥७१॥
ध्यानाञ्जनेन समवेक्ष्य तमःप्रदेशं भित्वा महाबलिभिरीश्वरनाममन्त्रैः । दिव्याश्रितं भुजगभूषणमुद्वहन्ति ये पादपद्ममिह ते शिव ते कृतार्थाः ॥७२॥
भूदारतामुदवहद्यदपेक्षया श्री- भूदार एव किमतः सुमते लभस्व । केदारमाकलितमुक्तिमहौषधीनां पादारविन्दभजनं परमेश्वरस्य ॥७३॥
आशापाशक्लेशदुर्वासनादि- भेदोद्युक्तैर्दिव्यगन्धैरमन्दैः । आशाशाटीकस्य पादारविन्दं चेतःपेटीं वासितां मे तनोतु ॥७४॥
कल्याणिनां सरसचित्रगतिं सवेगं सर्वेङ्गितज्ञमनघं ध्रुवलक्षणाढ्यम् । चेतस्तुरङ्गमधिरुह्य चर स्मरारे नेतः समस्तजगतां वृषभाधिरूढ ॥७५॥
भक्तिर्महेशपदपुष्करमावसन्ती कादम्बिनीव कुरुते परितोषवर्षम् । संपूरितो भवति यस्य मनस्त्तटाक- स्तज्जन्मसस्यमखिलं सफलं च नाऽन्यत् ॥७६॥
बुद्धिःस्थिरा भवितुमीश्वरपादपद्म- सक्ता वधूर्विरहिणीव सदा स्मरन्ती । सद्भावनास्मरणदर्शनकीर्तनादि संमोहितेव शिवमन्त्रजपेन विन्ते ॥७७॥
सदुपचारविधिष्वनुबोधितां सविनयां सहृदयं सदुपाश्रिताम् । मम समुद्धर बुद्धिमिमां प्रभो वरगुणेन नवोढवधूमिव ॥७८॥
नित्यं योगिमनः सरोजदलसञ्चारक्षमस्त्वत्क्रमः शंभो तेन कथं कठोरयमराड्वक्षःकवाटक्षतिः । अत्यन्तं मृदुलं त्वदङ्घ्रियुगलं हा मे मनश्चिन्तय- त्येतल्लोचनगोचरं कुरु विभो हस्तेन संवाहये ॥७९॥
एष्यत्येष जनिं मनोऽस्य कठिनं तस्मिन्नटानीति म- द्रक्षायै गिरिसीम्नि कोमलपदन्यासः पुराभ्यासितः । नोचेद्दिव्यगृहान्तरेषु सुमनस्तल्पेषु वेद्यादिषु प्रायः सत्सु शिलातलेषु नटनं शंभो किमर्थं तव ॥८०॥
कंचित्कालमुमामहेश भवतः पादारविन्दार्चनैः कंचिद्ध्यानसमाधिभिश्च नतिभिः कंचित्कथाकर्णनैः । कंचित् कंचिदवेक्षनैश्च नुतिभिः कंचिद्दशामीदृशीं यः प्राप्नोति मुदा त्वदर्पितमना जीवन् स मुक्तः खलु ॥८१॥
बाणत्वं वृषभत्वमर्धवपुषा भार्यात्वमार्यापते घोणित्वं सखिता मृदङ्गवहता चेत्यादि रूपं दधौ । त्वत्पादे नयनार्पणं च कृतवान् त्वद्देहभागो हरिः पूज्यात्पूज्यतरः स एव हि न चेत् को वा तदान्योऽधिकः ॥८२॥
जननमृतियुतानां सेवया देवतानां न भवति सुखलेशः संशयो नास्ति तत्र । अजनिममृतरूपं साम्बमीशं भजन्ते य इह परमसौख्यं ते हि धन्या लभन्ते ॥८३॥
शिव तव परिचर्यासन्निधानाय गौर्या भव मम गुणधुर्यां बुद्धिकन्यां प्रदास्ये । सकलभुवनबन्धो सच्चिदानन्दसिन्धो सदय हृदयगेहे सर्वदा संवस त्वम् ॥८४॥
जलधिमथनदक्षो नैव पातालभेदी न च वनमृगयायां नैव लुब्धः प्रवीणः । अशनकुसुमभूषावस्त्रमुख्यां सपर्यां कथय कथमहं ते कल्पयानीन्दुमौले ॥८५॥
पूजाद्रव्यसमृद्धयो विरचिताः पूजां कथं कुर्महे पक्षित्वं न च वा किटित्वमपि न प्राप्तं मया दुर्लभम् । जाने मस्तकमङ्घ्रिपल्लवमुमाजाने न तेऽहं विभो न ज्ञातं हि पितामहेन हरिणा तत्त्वेन तद्रूपिणा ॥८६॥
अशलं गरलं फणी कलापो वसनं चर्म च वाहनं महोक्षः । मम दास्यसि किं किमस्ति शंभो तव पादाम्बुजभक्तिमेव देहि ॥८७॥
यदा कृतांभोनिधिसेतुबन्धनः करस्थलाधःकृतपर्वताधिपः । भवानि ते लङ्घितपद्मसंभवः तदा शिवार्चास्तवभावनक्षमः ॥८८॥
नतिभिर्नुतिभिस्त्वमीशपूजा- विधिभिर्ध्यानसमाधिभिर्न तुष्टः । धनुषा मुसलेन चाश्मभिर्वा वद ते प्रीतिकरं तथा करोमि ॥८९॥
वचसा चरितं वदामि शंभो- रहमुद्योगविधासु तेऽप्रसक्तः । मनसा कृतिमीश्वरस्य सेवे शिरसा चैव सदाशिवं नमामि ॥९०॥
आद्याऽविद्या हृद्गता निर्गतासी- द्विद्या हृद्या हृद्गता त्वत्प्रसादात् । सेवे नित्यं श्रीकरं त्वत्पदाब्जं भावे मुक्तेर्भाजनं राजमौले ॥९१॥
दूरीकृतानि दुरितानि दुरक्षराणि दौर्भाग्यदुःखदुरहंकृतिदुर्वचांसि । सारं त्वदीयचरितं नितरां पिबन्तं गौरीश मामिह समुद्धर सत्कटाक्षैः ॥९२॥
सोमकलाधरमौलौ कोमलघनकन्धरे महामहसि । स्वामिनि गिरिजानाथे मामकहृदयं निरन्तरं रमताम् ॥९३॥
सा रसना ते नयने तावेव करौ स एव कृतकृत्यः । या ये यौ यो भर्गं वदतीक्षेते सदार्चतः स्मरति ॥९४॥
अतिमृदुलौ मम चरणा- वतिकठिनं ते मनो भवानीश । इति विचिकित्सां संत्यज शिव कथमासीद्गिरौ तथा प्रवेशः ॥९५॥
धैर्याङ्कुशेन निभृतं रभसादाकृष्य भक्तिशृङ्खलया । पुरहर चरणालाने हृदयमदेभं बधान चिद्यन्त्रैः ॥९६॥
प्रचरत्यभितः प्रगल्भवृत्त्या मदवानेष मनः करी गरीयान् । परिगृह्य नयेन भक्तिरज्ज्वा परम स्थाणुपदं दृढं नयामुम् ॥९७॥
सर्वालंकारयुक्तां सरलपदयुतां साधुवृत्तां सुवर्णां सद्भिःसंस्तूयमानां सरसगुणयुतां लक्षितां लक्षणाढ्याम् । उद्यद्भूषाविशेषामुपगतविनयां द्योतमानार्थरेखां कल्याणीं देव गौरीप्रिय मम कविताकन्यकां
त्वं गृहाण ॥९८॥
इदं ते युक्तं वा परमशिव कारुण्यजलधे गतौ तिर्यग्रूपं तव पदशिरोदर्शनधिया । हरिब्रह्माणौ तौ दिवि भुवि चरन्तौ श्रमयुतौ कथं शंभो स्वामिन् कथय मम वेद्योऽसि पुरतः ॥९९॥
स्तोत्रेणालमहं प्रवच्मि न मृषा देवा विरिञ्चादयः स्तुत्यानं गणनाप्रसङ्गसमये त्वामग्रगण्यं विदुः । माहात्म्याग्रविचारणप्रकरणे धानातुषस्तोमव- द्धूतास्त्वां विदुरुत्तमोत्तमफलं शंभो भवत्सेवकाः ॥१००॥ ॥
इति श्रीमच्छङ्कराचार्यविरचित शिवानन्दलहरी समाप्ता ॥

शिवषडक्षर स्तोत्रम्
ॐकारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिनः । कामदं मोक्षदं चैव ॐकाराय नमो नमः ॥१॥
नमंति ऋषयो देवा नमन्त्यप्सरसां गणाः । नरा नमंति देवेशं नकाराय नमो नमः ॥२॥
महादेवं महात्मानं महाध्यानं परायणम् । महापापहरं देवं मकाराय नमो नमः ॥३॥
शिवं शांतं जगन्नाथं लोकानुग्रहकारकम् । शिवमेकपदं नित्यं शिकाराय नमो नमः ॥४॥
वाहनं वृषभो यस्य वासुकिः कंठभूषणम् । वामे शक्तिधरं वेदं वकाराय नमो नमः ॥५॥
यत्र तत्र स्थितो देवः सर्वव्यापी महेश्वरः । यो गुरुः सर्वदेवानां यकाराय नमो नमः ॥६॥
षडक्षरमिदं स्तोत्रं यः पठेच्छिवसंनिधौ । शिवलोकमवाप्नोति शिवेन सह मोदते ॥७॥
॥ इति श्री रुद्रयामले उमामहेश्वरसंवादे षडक्षरस्तोत्रं संपूर्णम् ॥
 
*********************************
 
शिवरक्षास्तोत्रं
श्री गणेशाय नमः ॥
अस्य श्रीशिवरक्षास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषिः ॥
श्री सदाशिवो देवता ॥अनुष्टुप् छन्दः ॥
श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः ॥
चरितं देवदेवस्य महादेवस्य पावनम् । अपारं परमोदारं चतुर्वर्गस्य साधनम् ॥१॥
गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् । शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः ॥२॥
गंगाधरः शिरः पातु भालं अर्धेन्दुशेखरः । नयने मदनध्वंसी कर्णो सर्पविभूषण ॥३॥
घ्राणं पातु पुरारातिः मुखं पातु जगत्पतिः । जिह्वां वागीश्वरः पातु कंधरां शितिकंधरः ॥४॥
श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः । भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक् ॥५॥
हृदयं शंकरः पातु जठरं गिरिजापतिः । नाभिं मृत्युञ्जयः पातु कटी व्याघ्राजिनाम्बरः ॥६॥
सक्थिनी पातु दीनार्तशरणागतवत्सलः ॥ उरू महेश्वरः पातु जानुनी जगदीश्वरः ॥७॥
जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः ॥ चरणौ करुणासिंधुः सर्वाङ्गानि सदाशिवः ॥८॥
एतां शिवबलोपेतां रक्षां यः सुकृती पठेत् । स भुक्त्वा सकलान्कामान् शिवसायुज्यमाप्नुयात् ॥९॥
ग्रहभूतपिशाचाद्यास्त्रैलोक्ये विचरन्ति ये । दूरादाशु पलायन्ते शिवनामाभिरक्षणात् ॥१० ॥
अभयङ्करनामेदं कवचं पार्वतीपतेः । भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत्त्रयम् ॥११॥
इमां नारायणः स्वप्ने शिवरक्षां यथाऽऽदिशत् । प्रातरुत्थाय योगीन्द्रो याज्ञवल्क्यः तथाऽलिखत् ॥१२॥
इति श्रीयाज्ञवल्क्यप्रोक्तं शिवरक्षास्तोत्रं सम्पूर्णम् ॥
 
*********************************
शिवसूत्र
रूपंरूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय ॥
१-शाम्भवोपाय
चैतन्यमात्मा ॥१-१॥
ज्ञानं बन्धः ॥१-२॥
योनिवर्गः कलाशरीरम् ॥१-३॥
ज्ञानाधिष्ठानं मातृका ॥१-४॥
उद्यमो भैरवः ॥ १-५॥
शक्तिचक्रसन्धाने विश्वसंहारः ॥१-६॥
जाग्रत्स्वप्नसुषुप्तभेदे तुर्याभोगसंभवः ॥१-७॥
ज्ञानं जाग्रत् ॥१-८॥
स्वप्नो विकल्पाः ॥१-९॥
अविवेको मायासौषुप्तम् ॥१-१०॥
त्रितयभोक्ता वीरेशः ॥ १-११॥
विस्मयो योगभूमिकाः ॥१-१२॥
इच्छा शक्तिरुमा कुमारी ॥१-१३॥
दृश्यं शरीरम् ॥१-१४॥
हृदये चित्तसंघट्टाद् दृश्यस्वापदर्शनम् ॥१-१५॥
शुद्धतत्त्वसन्धानाद् वा अपशुशक्तिः ॥१-१६॥
वितर्क आत्मज्ञानम् ॥१-१७॥
लोकानन्दः समाधिसुखम् ॥१-१८॥
शक्तिसन्धाने शरीरोत्पत्तिः ॥१-१९॥
भूतसन्धान भूतपृथक्त्व विश्वसंघट्टाः ॥१-२०॥
शुद्धविद्योदयाच्चक्रेशत्व सिद्धिः ॥१-२१॥
महाह्रदानुसन्धानान्मन्त्रवीर्यानुभवः ॥१-२२॥
२-शाक्तोपाय
चित्तं मन्त्रः ॥२-१॥
प्रयत्नः साधकः ॥२-२॥
विद्याशरीरसत्ता मन्त्ररहस्यम् ॥२-३॥
गर्भे चित्तविकासोऽविशिष्ट विद्यास्वप्नः ॥२-४॥
विद्यासमुत्थाने स्वाभाविके खेचरी शिवावस्था ॥२-५॥
गुरुरुपायः ॥२-६॥
मातृकाचक्रसम्बोधः ॥२-७॥
शरीरं हविः ॥२-८॥
ज्ञानं अन्नम् ॥२-९॥
विद्यासंहारे तदुत्थ स्वप्न दर्शनम् ॥२-१०॥
३-आणवोपाय
आत्मा चित्तम् ॥३-१॥
ज्ञानं बन्धः ॥३-२॥
कलादीनां तत्त्वानां अविवेको माया ॥३-३॥
शरीरे संहारः कलानाम् ॥३-४॥
नाडी संहार भूतजय भूतकैवल्य भूतपृथक्त्वानि ॥३-५॥
मोहावरणात् सिद्धिः ॥३-६॥
मोहजयाद् अनन्ताभोगात् सहजविद्याजयः ॥३-७॥
जाग्रद् द्वितीयकरः ॥३-८॥
नर्तक आत्मा ॥३-९॥
रङ्गोऽन्तरात्मा ॥३-१०॥
प्रेक्षकाणीन्द्रियाणि ॥३-११॥
धीवशात् सत्त्वसिद्धिः ॥३-१२॥
सिद्धः स्वतन्त्रभावः ॥३-१३॥
यथा तत्र तथान्यत्र ॥३-१४॥
विसर्गस्वाभाव्याद् अबहिः स्थितेस्तत्स्थितिः ॥३-१५॥
बीजावधानम् ॥३-१६॥
आसनस्थः सुखं ह्रदे निमज्जति ॥३-१७॥
स्वमात्रा निर्माणं आपादयति ॥३-१८॥
विद्या अविनाशे जन्म विनाशः ॥३-१९॥
कवर्गादिषु माहेश्वर्याद्याः पशुमातरः ॥३-२०॥
त्रिषु चतुर्थं तैलवदासेच्यम् ॥३-२१॥
मग्नः स्वचित्तेन प्रविशेत् ॥३-२२॥
प्राण समाचारे समदर्शनम् ॥३-२३॥
मध्येऽवर प्रसवः ॥३-२४॥
मात्रास्वप्रत्यय सन्धाने नष्टस्य पुनरुत्थानम् ॥३-२५॥
शिवतुल्यो जायते ॥३-२६॥
शरीरवृत्तिर्व्रतम् ॥३-२७॥
कथा जपः ॥३-२८॥
दानं आत्मज्ञानम् ॥३-२९॥
योऽविपस्थो ज्ञाहेतुश्च ॥३-३०॥
स्वशक्ति प्रचयोऽस्य विश्वम् ॥३-३१॥
स्तिथिलयौ ॥३-३२॥
तत् प्रवृत्तावप्यनिरासः संवेत्तृभावात् ॥३-३३॥
सुख दुःखयोर्बहिर्मननम् ॥३-३४॥
तद्विमुक्तस्तु केवली ॥३-३५॥
मोहप्रतिसंहतस्तु कर्मात्मा ॥३-३६॥
भेद तिरस्कारे सर्गान्तर कर्मत्वम् ॥३-३७॥
करणशक्तिः स्वतोऽनुभवात् ॥३-३८॥
त्रिपदाद्यनुप्राणनम् ॥३-३९॥
चित्तस्थितिवत् शरीर करण बाह्येषु ॥३-४०॥
अभिलाषाद्बहिर्गतिः संवाह्यस्य ॥३-४१॥
तदारूढप्रमितेस्तत्क्षयाज्जीवसंक्षयः ॥३-४२॥
भूतकञ्चुकी तदा विमुक्तो भूयः पतिसमः परः ॥३-४३॥
नैसर्गिकः प्राणसंबन्धः ॥३-४४॥
नासिकान्तर्मध्य संयमात् किमत्र सव्यापसव्य सौषुम्नेषु ॥३-४५॥
भूयः स्यात् प्रतिमीलनम् ॥३-४६॥
ॐ तत् सत्

शिवमीडेस्तवरत्नम्
स्वप्रकाशशिवरूपसद्गुरुं निष्प्रकाशजडचैत्यभासकम् । अप्रमेयसुगुणामृतालयं संस्मरामि हृदि नित्यमद्भुतम् ॥१॥
यः क्रीडार्थं विश्वमशेषं निजशक्त्या सृष्ट्वा स्वस्मिन् क्रीडति देवोऽप्यनवद्यः । निस्त्रैगुण्यो मायिकभूमिव्यतिरिक्तः तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥२॥
एको देवो भाति तरङ्गेष्विव भानुः नानाभूतेष्वात्मसु सर्वेष्वपि नित्यम् । शुद्धो बुद्धो निर्मलरूपो निरवद्यः तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥३॥
देवाधीशं सर्ववरेण्यं हृदयाब्जे नित्यं ध्यात्वा योगिवरा यं दृढभक्त्या । शुद्धा भूत्वा यान्ति भवाब्धिं न पुनस्ते तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥४॥
श्रौतैः स्मार्तैः कर्मशतैश्चपि य ईशो दुर्विज्ञेयः कल्पशतं तैर्जडरूपैः । संविद्रूपस्वैकविचारादधिगम्यः तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥५॥
कर्माध्यक्षः कामिजनानां फलदाता कर्तृत्वाहंकारविमुक्तो निरपेक्षः । देहातीतो दृश्यविविक्तो जगदीशः तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥६॥
नान्तर्बाह्ये नोभयतो वा प्रविभक्तं यं सर्वज्ञं नापि समर्थो निगमादिः । तत्त्वातीतं तत्पदलक्ष्यं गुरुगम्यं तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥७॥
यद्भासार्को भाति हिमांशुर्दहनो वा दृश्यैर्भास्यैर्यो न च भाति प्रियरूपः । यस्माद् भाति व्यष्टिसमष्ट्यात्मकमेतत् तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥८॥
आशादेशाद्यव्यवधानो विभुरेकः सर्वाधारः सर्वनियन्ता परमात्मा । पूर्णानन्दः सत्त्ववतां यो हृदि देवः तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥९॥
कोऽहं देवः किं जगदेतत् प्रविचाराद् दृश्यं सर्वं नश्वररूपं गुरुवाक्यात् । सिद्धे चैवं यः खलु शेषः प्रतिपन्नः तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥१०॥
सत्यं ज्ञानं ब्रह्म सुखं यं प्रणवान्तं सर्वस्फूर्तिः शाश्वतरूपस्त्विति वेदः । जल्पन्त्येवं स्वच्छधियोऽपि प्रभुमेकं तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥११॥
यस्माद् भीतो वाति च वायुस्त्रिपुरेषु ब्रह्मेन्द्राद्यास्ते निजकर्मस्वनुबद्धाः । चन्द्रादित्यौ लोकसमूहे प्रचरन्तौ तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥१२॥
मायाकार्यं जन्म च नाशः पुरजेतुः नास्ति द्वन्द्वं नाम च रूपं श्रुतिवाक्यात् । निर्णीतार्थो नित्यविमुक्तो निरपायः तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥१३॥
नायं देहो नेन्द्रियवर्गो न च वायुः नेदं दृश्यं जात्यभिमानो न च बुद्धिः । इत्थं श्रुत्या यो गुरुवाक्यात् प्रतिलब्धः तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥१४॥
स्थूलं सूक्ष्मं क्षाममनेकं न च दीर्घं ह्रस्वं शुक्लं कृष्णमखण्डोऽव्ययरूपः । प्रत्यक्साक्षी यः परतेजाः प्रणवान्तः तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥१५॥
यत्सौख्याब्धेर्लेशकणांशोः सुरमर्त्या- स्तिर्यञ्चोऽपि स्थावरभेदाः प्रभवन्ति । तत्तत्कार्यप्राभववन्तः सुखिनस्ते तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥१६॥
यस्मिञ्ज्ञाते ज्ञातमशेषं भुवनं स्याद् यस्मिन् दृष्टे भेदसमूहो लयमेति । यस्मिन्मृत्युर्नास्ति च शोको भवपाशाः तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥१७॥
द्यां मूर्धानं यस्य वदन्ति श्रुतयस्ताः चन्द्रादित्यौ नेत्रयुगं ज्यां पदयुग्मम् । आशां श्रोत्रं लोमसमूहं तरुवल्लीः तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥१८॥
प्राणायामैः पूतधियो यं प्रणवान्तं संधायात्मन्यव्यपदेश्यं निजबोधम् । जीवन्मुक्ताः सन्ति दिशासु प्रचरन्तः तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥१९॥
यच्छ्रोतव्यं श्रौतगिरा श्रीगुरुवाक्याद् यन्मन्तव्यं स्वात्मसुखार्थं पुरुषाणाम् । यद् ध्यातव्यं सत्यमखण्डं निरवद्यं तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥२०॥
यं जिज्ञासुः सद्गुरुमूर्तिं द्विजवर्यं नित्यानन्दं तं फलपाणिः समुपैति । भक्तिश्रद्धादान्तिविशिष्टो धृतियुक्तः तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥२१॥
पृथव्यम्बवग्निस्पर्शनखानि प्रविलाप्य स्वस्मिन् मत्या धारनया वा प्रणवेन । यच्छिष्टं तद् ब्रह्म भवामीत्यनुभूतं तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥२२॥
लीने चित्ते भाति च एको निखिलेषु प्रत्यग्दृष्ट्या स्थावरजन्तुष्वपि नित्यम् । सत्यासत्ये सत्यमभूच्च व्यतिरेकात् तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥२३॥
चेतःसाक्षी प्रत्यगभिन्नो विभुरेकः प्रज्ञानात्मा विश्वभुगादिव्यतिरिक्तः । सत्यज्ञानानन्दसुधाब्धिः परिपूर्णः तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥२४॥
सर्वे कामा यस्य विलीना हृदि संस्थाः तस्योदेति ब्रह्मरविर्यो हृदि तत्र । विद्याविद्या नास्ति परे च श्रुतिवाक्यात् तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥२५॥
स त्यागेशः सर्वगुहान्तः परिपूर्णो वक्ता श्रोता वेदपुराणप्रतिपाद्यः । इत्थं बुद्धौ ज्ञानमखण्डं स्फुरदास्ते तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥२६॥
नित्यं भक्त्या यः पठतीदं स्तवरत्नं तस्याविद्या जन्म च नाशो लयमेतु । किं चात्मनं पश्यतु सत्यं निजबोधं सर्वान् कामान् स्वं लभतां स प्रियरूपम् ॥२७॥
इत्यानन्दनाथपादपपद्मोपजीविना काश्यपगोत्रोत्पन्नेनान्ध्रेण त्यागराजनाम्ना विरचितं शिवमीडेस्तवरत्नं संपूर्णम् ॥
 
*****************************
श्री रुद्रकवचम्
ॐ अस्य श्री रुद्र कवच स्तोत्र महा मंत्रस्य दूर्वासऋषिः अनुष्ठुप् छंदः त्र्यंबक रुद्रो देवता ह्राम् बीजम् श्रीम् शक्तिः ह्रीम् कीलकम् मम मनसोभीष्टसिद्ध्यर्थे जपे विनियोगः ह्रामित्यादिषड्बीजैः षडंगन्यासः ॥
॥ ध्यानम् ॥
शांतम् पद्मासनस्थम् शशिधरमकुटम् पंचवक्त्रम् त्रिनेत्रम् शूलम् वज्रंच खड्गम् परशुमभयदम् दक्षभागे महन्तम् ।
नागम् पाशम् च घंटाम् प्रळय हुतवहम् सांकुशम् वामभागे नानालंकारयुक्तम् स्फटिकमणिनिभम् पार्वतीशम् नमामि ॥
॥ दूर्वास उवाच ॥
प्रणम्य शिरसा देवम् स्वयंभु परमेश्वरम् । एकम् सर्वगतम् देवम् सर्वदेवमयम् विभुम् ।
रुद्र वर्म प्रवक्ष्यामि अंग प्राणस्य रक्षये । अहोरात्रमयम् देवम् रक्षार्थम् निर्मितम् पुरा ॥
रुद्रो मे जाग्रतः पातु पातु पार्श्वौहरस्तथा । शिरोमे ईश्वरः पातु ललाटम् नीललोहितः ।
नेत्रयोस्त्र्यंबकः पातु मुखम् पातु महेश्वरः । कर्णयोः पातु मे शंभुः नासिकायाम् सदाशिवः ।
वागीशः पातु मे जिह्वाम् ओष्ठौ पात्वंबिकापतिः । श्रीकण्ठः पातु मे ग्रीवाम् बाहो चैव पिनाकधृत् ।
हृदयम् मे महादेवः ईश्वरोव्यात् स्सनान्तरम् । नाभिम् कटिम् च वक्षश्च पातु सर्वम् उमापतिः ।
बाहुमध्यान्तरम् चैव सूक्ष्म रूपस्सदाशिवः ।
स्वरंरक्षतु मेश्वरो गात्राणि च यथा क्रमम् वज्रम् च शक्तिदम् चैव पाशांकुशधरम् तथा ।
गण्डशूलधरान्नित्यम् रक्षतु त्रिदशेश्वरः ।
प्रस्तानेषु पदे चैव वृक्षमूले नदीतटे संध्यायाम् राजभवने विरूपाक्षस्तु पातु माम् ।
शीतोष्णा दथकालेषु तुहिनद्रुमकंटके । निर्मनुष्ये समे मार्गे पाहि माम् वृषभध्वज ।
इत्येतद्द्रुद्रकवचम् पवित्रम् पापनाशनम् । महादेव प्रसादेन दूर्वास मुनिकल्पितम् ।
ममाख्यातम् समासेन नभयम् तेनविद्यते ।
प्राप्नोति परम आरोग्यम् पुण्यमायुष्यवर्धनम् विद्यार्थी लभते विद्याम् धनार्थी लभते धनम् ।
कन्यार्थी लभते कन्याम् नभय विन्दते क्वचित् । अपुत्रो लभते पुत्रम् मोक्षार्थी मोक्ष माप्नुयात् ।
त्राहि त्राहि महादेव त्राहि त्राहि त्रयीमय ।
त्राहिमाम् पार्वतीनाथ त्राहिमाम् त्रिपुरंतक पाशम् खट्वांग दिव्यास्त्रम् त्रिशूलम् रुद्रमेवच ।
नमस्करोमि देवेश त्राहिमाम् जगदीश्वर । शत्रु मध्ये सभामध्ये ग्राममध्ये गृहान्तरे ।
गमनेगमने चैव त्राहिमाम् भक्तवत्सल । त्वम् चित्वमादितश्चैव त्वम् बुद्धिस्त्वम् परायणम् ।
कर्मणामनसा चैव त्वंबुद्धिश्च यथा सदा । सर्व ज्वर भयम् छिन्दि सर्व शत्रून्निवक्त्याय ।
सर्व व्याधिनिवारणम् रुद्रलोकम् सगच्छति रुद्रलोकम् सगच्छत्योन्नमः ॥
॥ इति स्कंदपुराणे दूर्वास प्रोक्तम् रुद्रकवचम् संपूर्णम् ॥
 
*****************************
 
सांब सदाशिव अक्षरमाला
अथ श्री सांब सदाशिव अक्षरमालास्तवः सांब सदाशिव सांब सदाशिव ।
सांब सदाशिव सांब शिव ॥
अद्भुतविग्रह अमराधीश्वर अगणित गुणगण अमृत शिव - हर - सांब
आनन्दामृत आश्रितरक्षक आत्मानन्द महेश शिव - हर - सांब
इन्दुकलादर इन्द्रादिप्रिय सुन्दररूप सुरेश शिव - हर - सांब
ईश सुरेश महेश जनप्रिय केशव सेवित कीर्ति शिव - हर - सांब
उरगादिप्रिय उरगविभूषण नरकविनाश नतेश शिव - हर - सांब
ऊर्जितदान वनाश परात्पर आर्जितपापविनाश शिव - हर - सांब
ऋग्वेदश्रुति मौलि विभूषण रवि चन्द्राग्नित्रिनेत्र शिव - हर - सांब
ॠपनामादि प्रपञ्चविलक्षण तापनिवारण तत्व शिव - हर - सांब
ऌल्लिस्वरूप सहस्रकरोत्तम वागीश्वर वरदेश शिव - हर - सांब
ॡताधीश्वर रूपप्रिय हर वेदान्तप्रिय वेद्य शिव - हर - सांब
एकानेक स्वरूप सदाशिव भोगादिप्रिय पूर्ण शिव - हर - सांब
ऐश्वर्याश्रय चिन्मय चिद्घन सच्चिदानन्द सुरेश शिव - हर - सांब
ओङ्कारप्रिय उरगविभूषण ह्रींङ्कारप्रिय ईश शिव - हर - सांब
औरसलालित अन्तकनाशन गौरिसमेत गिरीश शिव - हर - सांब
अंबरवास चिदंबर नायक तुंबुरु नारद सेव्य शिव - हर - सांब
आहारप्रिय अष्त दिगीश्वर योगिहृदि प्रियवास शिव - हर - सांब
कमलापूजित कैलासप्रिय करुणासागर काशि शिव - हर - सांब
खड्गशूल मृग टङ्कधनुर्धर विक्रमरूप विश्वेश शिव - हर - सांब
गंगा गिरिसुत वल्लभ शङ्कर गणहित सर्वजनेश शिव - हर - सांब
घातकभंजन पातकनाशन दीनजनप्रिय दीप्ति शिव - हर - सांब
ङान्तास्वरूपानन्द जनाश्रय वेदस्वरूप वेद्य शिव - हर - सांब
चण्डविनाशन सकलजनप्रिय मण्डलाधीश महेश शिव - हर - सांब
छत्रकिरीट सुकुण्डल शोभित पुत्रप्रिय भुवनेश शिव - हर - सांब
जन्मजरा मृत्यादि विनाशन कल्मषरहित काशि शिव - हर - सांब
झङ्कारप्रिय भृंगिरिटप्रिय ओङ्कारेश्वर विश्वेश शिव - हर - सांब
ञानाञान विनाशन निर्मल दीनजनप्रिय दीप्ति शिव - हर - सांब
टङ्कस्वरूप सहस्रकरोत्तम वागीश्वर वरदेश शिव - हर - सांब
ठक्काद्यायुध सेवित सुरगण लावण्यामृत लसित शिव - हर - सांब
डंभविनाशन डिण्डिमभूषण अंबरवास चिदेक शिव - हर - सांब
ढंढंडमरुक धरणीनिश्चल ढुंढिविनायक्क सेव्य शिव - हर - सांब
णाणामणिगण भूषणनिर्गुण नतजनपूत सनाथ शिव - हर - सांब
तत्वमस्यादि वाक्यार्थ स्वरूप नित्यस्वरूप निजेश शिव - हर - सांब
स्थावरजंगम भुवनविलक्षण तापनिवारण तत्व शिव - हर - सांब
दन्तिविनाशन दळितमनोभव चन्दन लेपित चरण शिव - हर - सांब
धरणीधरशुभ धवळविभासित धनदादिप्रिय दान शिव - हर - सांब
नळिनविलोचन नटनमनोहर अळिउलभूषण अमृत शिव - हर - सांब
पार्वतिनायक पन्नगभूषण परमानन्द परेश शिव - हर - शांब
फालविलोचन भानुकोटिप्रभ हालाहलधर अमृत शिव - हर - सांब
बन्धविमोचन बृहतीपावन स्कन्दादिप्रिय कनक शिव - हर - सांब
भस्मविलेपन भवभयमोचन विस्मयरूप विश्वेश शिव - हर - सांब
मन्मथनाशन मधुरानायक मन्दरपर्वतवास शिव - हर - सांब
यतिजन हृदयाधिनिवास विधिविष्ण्वादि सुरेश शिव - हर - सांब
लङ्काधीश्वर सुरगण सेवित लावण्यामृत लसित शिव - हर - सांब
वरदाभयकर वासुकिभूषण वनमालादि विभूष शिव - हर - सांब
शान्ति स्वरूपातिप्रिय सुन्दर वागीश्वर वरदेश शिव - हर - सांब
षण्मुखजनक सुरेन्द्रमुनिप्रिय षाड्गुण्यादि समेत शिव - हर - सांब
संसारार्णव नाशन शाश्वत साधुजन प्रियवास शिव - हर - सांब
हरपुरुषोत्तम अद्वैतामृत मुररिपुसेव्य मृदेश शिव - हर - सांब
लाळित भक्तजनेश निजेश्वर काळिनटेश्वर काम शिव - हर - सांब
क्षररूपाभि प्रियान्वित सुन्दर साक्षात् स्वामिन्नंबा समेत शिव - हर - सांब
सांब सदाशिव सांब सदाशिव सांब सदाशिव सांब शिव

चमकप्रश्नः
अग्नाविष्णू सजोषसेमा वर्धन्तु वां गिरः । द्युम्नैर्वाजेभिरागतम् ॥
 
वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मेऽपानश्च मे व्यानश्च मेऽसुश्च मे चित्तं च म आधीतं च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रं च मे दक्षश्च मे बलं च म ओजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनूश्च मे शर्म च मे वर्म च मे ऽङ्गानि च मेऽस्थानि च मे परूषि च मे शरीराणि च मे ॥१॥
 
ज्यैष्ठ्यं च म आधिपथ्यं च मे मन्युश्च मे भामश्च मेऽमश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्राघुया च मे वृद्धं च मे वृद्धिश्च मे सत्यं च मे श्रद्धा च मे जगच्च मे धनं च मे वशश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे जातं च मे जनिष्यमाणं च मे सूक्तं च मे सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच्च मे सुगं च मे सुपथं च म ऋद्धं च म ऋद्धिश्च मे कॢप्तं च मे कॢप्तिश्च मे मतिश्च मे सुमतिश्च मे ॥२॥
 
शं च मे मयश्च मे प्रियं च मेऽनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे सूश्च मे प्रसूश्च मे सीरं च मे लयश्च म ऋतं च मे ऽमृतं च मेऽयक्ष्मं च मेऽनामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मेऽनमित्रं च मेऽभयं च मे सुगं च मे शयनं च मे सूषा च मे सुदिनं च मे ॥३॥
 
ऊर्क्च मे सूनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सग्धिश्च मे सपीतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रं च म औद्भिद्यं च मे रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णं च मे पूर्णतरं च मेऽक्षितिश्च मे कूयवाश्च मे ऽन्नं च मेऽक्षुच्च मे व्रीहियश्च मे यवाश्च मे माषाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियंगवश्च मेऽणवश्च मे श्यामाकाश्च मे नीवाराश्च मे ॥४॥
 
अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मे ऽयश्च मे सीसं च मे त्रपुश्च मे श्यामं च मे लोहं च मेऽग्निश्च म आपश्च मे वीरुधश्च म ओषधयश्च मे कृष्टपच्यं च मेऽकृष्टपच्यं च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्तां वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे ऽर्थश्च म एमश्च म इतिश्च मे गतिश्च मे ॥५॥
 
अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मेऽश्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरीक्षं च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे ॥६॥
 
अशुश्च मे रश्मिश्च मेऽदाभ्यश्च मेऽधिपतिश्च म उपाशुश्च मेऽन्तर्यामश्च म ऐन्द्रवायश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिपस्थानश्च मे शुक्रश्च मे मन्थी च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च म ऋतुग्राहाश्च मे ऽतिग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवाश्च मे मरुत्वतीयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्नीवतश्च मे हारियोजनश्च मे ॥७॥
 
इध्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्णियाश्च मे स्रुचश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे । अधिषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पूतभृच्च मे आधवनीयश्च म आग्नीध्रं च मे हविर्धानं च मे गृहाश्च मे सदश्च मे पुरोडाशाश्च मे पचताश्च मेऽवभृथश्च मे स्वगाकारश्च मे ॥८॥
 
अग्निश्च मे धर्मश्च मेऽर्कश्च मे सूर्यश्च मे प्राणश्च मेऽश्वमेधश्च मे पृथिवी च मेऽ दितिश्च मे दितिश्च मे द्यौश्च मे शक्क्वरीरङ्गुलयो दिशश्च मे यज्ञेन कल्पन्तामृक्च मे साम च मे स्तोमश्च मे यजुश्च मे दीक्षा च मे तपश्च म ऋतुश्च मे व्रतं च मे ऽहोरात्रयोर्वृष्ट्या बृहद्रथन्तरे च मे यज्ञेन कल्पेताम् ॥९॥
 
गर्भाश्च मे वत्साश्च मे त्रविश्च मे त्रवी च मे दित्यवाट् च मे दित्यौही च मे पञ्चाविश्च मे पञ्चावी च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाट् च मे तुर्यौही च मे पष्ठवाट् च मे पष्ठौही च म उक्षा च मे वशा च म ऋषभश्च मे वेहश्च मे ऽनड्वाञ्च मे धेनुश्च म आयुर्यज्ञेन कल्पतां प्राणो यज्ञेन कल्पतामपानो यज्ञेन कल्पतां व्यानो यज्ञेन कल्पतां चक्षुर्यज्ञेन कल्पता श्रोत्रं यज्ञेन कल्पतां मनो यज्ञेन कल्पतां वाग्यज्ञेन कल्पतामात्मा यज्ञेन कल्पतां यज्ञो यज्ञेन कल्पताम् ॥१०॥
 
एका च मे तिस्रश्च मे पञ्च च मे सप्त च मे नव च म एकदश च मे त्रयोदश च मे पंचदश च मे सप्तदश च मे नवदश च म एक विशतिश्च मे त्रयोविशतिश्च मे पंचविशतिश्च मे सप्तविशतिश्च मे नवविशतिश्च म एकत्रिशच्च मे त्रयस्त्रिशच्च मे चतस्रश्च मेऽष्टौ च मे द्वादश च मे षोडश च मे विशतिश्च मे चतुर्विशतिश्च मेऽष्टाविशतिश्च मे द्वात्रिशच्च मे षट्त्रिशच्च मे चत्वरिशच्च मे चतुश्चत्वारिशच्च मेऽष्टाचत्वारिशच्च मे वाजश्च प्रसवश्चापिजश्च क्रतुश्च सुवश्च मूर्धा च व्यश्नियश्चान्त्यायनश्चान्त्यश्च भौवनश्च भुवनश्चाधिपतिश्च ॥११॥
 
इडा देवहूर्मनुर्यज्ञनीर्बृहस्पतिरुक्थामदानि शसिषद्विश्वेदेवाः सूक्तवाचः पृथिवीमातर्मा मा हिसीर्मधु मनिष्ये मधु जनिष्ये मधु वक्ष्यामि मधु वदिष्यामि मधुमतीं देवेभ्यो वाचमुद्यास शुश्रूषेण्यां मनुष्येभ्यस्तं मा देवा अवन्तु शोभायै पितरोऽनुमदन्तु ॥
॥ ॐ शान्तिः शान्तिः शान्तिः ॥
॥ इति श्री कृष्णयजुर्वेदीय तैत्तिरीय संहितायां चतुर्थकाण्डे सप्तमः प्रपाठकः
 
*********************** 
 
श्री रुद्रप्रश्नः
॥ नमकम् ॥ ध्यानम्
आपातालनभःस्थलान्तभुवनब्रह्माण्डमाविस्फुर- ज्ज्योतिः स्फाटिकलिङ्गमौलिविलसत् पूर्णेन्दुवान्तामृतैः ।
अस्तोकाप्लुतमेकमीशमनिशं रुद्रानुवाकाञ्जपन् ध्यायेदीप्सित सिद्धयेऽद्रुतपदं विप्रोऽभिषिञ्जेच्छिवम् ॥
ब्रह्माण्डव्याप्तदेहा भसितहिमरुचा भासमाना भुजङ्गैः कण्ठे कालाः कपर्दाकलित शशिकलाश्चण्डकोदण्डहस्ताः ।
त्र्यक्षा रुद्राक्षमालाः प्रणतभयहराः शांभवा मूर्तिभेदाः रुद्राः श्रीरुद्रसूक्तप्रकटितविभवा नः प्रयच्छन्तु सौख्यम् ॥
॥ ओं नमो भगवते रुद्राय ॥
नमस्ते रुद्रमन्यव उतोत इषवे नमः । नमस्ते अस्तु धन्वने बाहुभ्या- मुत ते नमः ॥१- १॥
यात इषुः शिवतमा शिवं बभूव ते धनुः । शिवा शरव्या या तव तया नो रुद्र मृडय ॥१- २॥
 
************ 
 
मृतसञ्जीवन स्तोत्रम्
एवमारध्य गौरीशं देवं मृत्युञ्जयमेश्वरं । मृतसञ्जीवनं नाम्ना कवचं प्रजपेत् सदा ॥
सारात् सारतरं पुण्यं गुह्याद्गुह्यतरं शुभं । महादेवस्य कवचं मृतसञ्जीवनामकं ॥
समाहितमना भूत्वा शृणुष्व कवचं शुभं । शृत्वैतद्दिव्य कवचं रहस्यं कुरु सर्वदा ॥
वराभयकरो यज्वा सर्वदेवनिषेवितः । मृत्युञ्जयो महादेवः प्राच्यां मां पातु सर्वदा ॥
दधाअनः शक्तिमभयां त्रिमुखं षड्भुजः प्रभुः । सदाशिवोऽग्निरूपी मामाग्नेय्यां पातु सर्वदा ॥
अष्टदसभुजोपेतो दण्डाभयकरो विभुः । यमरूपि महादेवो दक्षिणस्यां सदावतु ॥
खड्गाभयकरो धीरो रक्षोगणनिषेवितः । रक्षोरूपी महेशो मां नैरृत्यां सर्वदावतु ॥
पाशाभयभुजः सर्वरत्नाकरनिषेवितः । वरुणात्मा महादेवः पश्चिमे मां सदावतु ॥
गदाभयकरः प्राणनायकः सर्वदागतिः । वायव्यां मारुतात्मा मां शङ्करः पातु सर्वदा ॥
शङ्खाभयकरस्थो मां नायकः परमेश्वरः । सर्वात्मान्तरदिग्भागे पातु मां शङ्करः प्रभुः ॥
शूलाभयकरः सर्वविद्यानमधिनायकः । ईशानात्मा तथैशान्यां पातु मां परमेश्वरः ॥
ऊर्ध्वभागे ब्रःमरूपी विश्वात्माऽधः सदावतु । शिरो मे शङ्करः पातु ललाटं चन्द्रशेखरः ॥
भूमध्यं सर्वलोकेशस्त्रिणेत्रो लोचनेऽवतु । भ्रूयुग्मं गिरिशः पातु कर्णौ पातु महेश्वरः ॥१
नासिकां मे महादेव ओष्ठौ पातु वृषध्वजः । जिह्वां मे दक्षिणामूर्तिर्दन्तान्मे गिरिशोऽवतु ॥
मृतुय्ञ्जयो मुखं पातु कण्ठं मे नागभूषणः । पिनाकि मत्करौ पातु त्रिशूलि हृदयं मम ॥
पञ्चवक्त्रः स्तनौ पातु उदरं जगदीश्वरः । नाभिं पातु विरूपाक्षः पार्श्वौ मे पार्वतीपतिः ॥
कटद्वयं गिरीशौ मे पृष्ठं मे प्रमथाधिपः । गुह्यं महेश्वरः पातु ममोरू पातु भैरवः ॥
जानुनी मे जगद्दर्ता जङ्घे मे जगदम्बिका । पादौ मे सततं पातु लोकवन्द्यः सदाशिवः ॥
गिरिशः पातु मे भार्यां भवः पातु सुतान्मम । मृत्युञ्जयो ममायुष्यं चित्तं मे गणनायकः ॥
सर्वाङ्गं मे सदा पातु कालकालः सदाशिवः । एतत्ते कवचं पुण्यं देवतानां च दुर्लभम् ॥
मृतसञ्जीवनं नाम्ना महादेवेन कीर्तितम् । सह्स्रावर्तनं चास्य पुरश्चरणमीरितम् ॥
यः पठेच्छृणुयान्नित्यं श्रावयेत्सु समाहितः । सकालमृत्युं निर्जित्य सदायुष्यं समश्नुते ॥
हस्तेन वा यदा स्पृष्ट्वा मृतं सञ्जीवयत्यसौ । आधयोव्याध्यस्तस्य न भवन्ति कदाचन ॥
कालमृयुमपि प्राप्तमसौ जयति सर्वदा । अणिमादिगुणैश्वर्यं लभते मानवोत्तमः ॥
युद्दारम्भे पठित्वेदमष्टाविशतिवारकं । युद्दमध्ये स्थितः शत्रुः सद्यः सर्वैर्न दृश्यते ॥
न ब्रह्मादीनि चास्त्राणि क्षयं कुर्वन्ति तस्य वै । विजयं लभते देवयुद्दमध्येऽपि सर्वदा ॥
प्रातरूत्थाय सततं यः पठेत्कवचं शुभं । अक्षय्यं लभते सौख्यमिह लोके परत्र च ॥
सर्वव्याधिविनिर्मृक्तः सर्वरोगविवर्जितः । अजरामरणो भूत्वा सदा षोडशवार्षिकः ॥
विचरव्यखिलान् लोकान् प्राप्य भोगांश्च दुर्लभान् । तस्मादिदं महागोप्यं कवचम् समुदाहृतम् ॥
मृतसञ्जीवनं नाम्ना देवतैरपि दुर्लभम् ॥
॥इति वसिष्ठ कृत मृतसञ्जीवन स्तोत्रम् ॥

श्री मृत्युञ्जय मानसिक पूजा स्तोत्रम्
कैलासे कमनीयरत्नखचिते कल्पद्रुमूले स्थितं कर्पूरस्फटिकेन्दुसुन्दरतनुं कात्यायनीसेवितम् ।
गङ्गातुङ्गतरङ्गरञ्जितजटाभारं कृपासागरं कण्ठालंकृतशेषभूषणममुं मृत्युञ्जयं भावये ॥१॥
आगत्य मृत्युञ्जय चन्द्रमौले व्याघ्राजिनालंकृत शूलपाणे ।
स्वभक्तसंरक्षणकामधेनो प्रसीद विश्वेश्वर पार्वतीश ॥२॥
भास्वन्मौक्तिकतोरणे मरकतस्तम्भायुधालंकृते सौधे धूपसुवासिने मणिमये माणिक्यदीपाञ्चिते ।
ब्रह्मेन्द्रामरयोगिपुङ्गवगणैर्युक्ते च कल्पद्रुमैः श्रीमृत्युञ्जय सुस्थिरो भव विभो माणिक्यसिंहासने ॥३॥
मन्दारमल्लीकरवीरमाधवी- पुन्नागनीलोत्पलचम्पकान्वितैः ।
कर्पूरपाटीरसुवासितैर्जलै- राधत्स्व मृत्युञ्जय पाद्यमुत्तमम् ॥४॥
सुगन्धपुष्पप्रकरैः सुवासितै- र्वियन्नदीशीतलवारिभिः शुभैः ।
त्रिलोकनाथार्तिहरार्घ्यमादरा- द्गृहाण मृत्युञ्जय सर्ववन्दित ॥५॥
हिमाम्बुवासितैस्तोयैः शीतलैरतिपावनैः ।
मृत्युञ्जय महादेव शुद्धाचमनमाचर ॥६॥
गुडदधिसहितं मधुप्रकीर्णं सुघृतसमन्वितधेनुदुग्धयुक्तम् ।
शुभकरमधुपर्कमाहर त्वं त्रिनयन मृत्युहर त्रिलोकवन्द्य ॥७॥
पञ्चास्र शान्त पञ्चास्य पञ्चपातकसंहर ।
पञ्चामृतस्नानमिदं कुरु मृत्युञ्जय प्रभो ॥८॥
जगत्रयीख्यात समस्ततीर्थ- समाहृतैः कल्मषहारिभिश्च ।
स्नानं सुतोयैः समुदाचर त्वं मृत्युञ्जयानन्दगुणाअभिराम ॥९॥
आनीतेनातिशुभ्रेण कौशेयेनामरद्रुमात् ।
मार्जयामि जटाभारं शिव मृत्युञ्जय प्रभो ॥१०॥
नानाहेमविचित्राणि चीरचीनाम्बराणि च ।
विविधानि च दिव्यानि मृत्युञ्जय सुधारय ॥११॥
विशिद्धमुक्ताफलजालरम्यं मनोहरं काञ्चनहेमसूत्रम् ।
यज्ञ्नोपवीतं परमं पवित्र- माधत्स्व मृत्युञ्जय भक्तिगम्य ॥१२॥
श्रीगन्धं घनसारकुङ्कुमयुतं कस्तूरिकापूरितं कालेयेन हिमाम्बुना विरचित्तं मन्दारसंवासितम् ।
दिव्यं देवमनोहरं मणिमये पात्रे समारोपितं सर्वाङ्गेषु विलेपयामि सततं मृत्युञ्जय श्रीविभो ॥१३॥
अक्षतैर्धवलैर्दिव्यैः सम्यक्तिलसमन्वितैः ।
मृत्युञ्जय महादेव पूजयामि वृषध्वज ॥१४॥
चम्पकपङ्कजकुन्दैः करवीरमल्लिकाकुसुमैः ।
विस्तारय निजमकुटं मृत्युञ्जय पुण्डरीकनयनाप्त ॥१५॥
माणिक्यपादुकाद्वन्द्वे मौनिहृत्पद्ममन्दिरे ।
पादौ सद्पद्मसदृशौ मृत्युञ्जय निवेशय ॥१६॥
माणिक्यकेयूरकिरीटहारैः काञ्चीमणिस्थापितकुद्मलैश्च ।
मञ्जीरमुख्याभरणैर्मनोज्ञै- रङ्गानि मृत्युञ्जय भूषयामि ॥१७॥
गजवदनस्कन्दधृते- नातिस्वच्छेन चामरयुगेन ।
गलदलकाननपद्मं मृत्युञ्जय भावयामि हृत्पद्मे ॥१८॥
मुक्तातपत्रं शशिकोटिशुभ्रं शुभप्रदं काञ्जनदण्डयुक्तम् ।
माणिक्यसंस्थापितहेमकुम्भं सुरेश मृत्युञ्जय तेऽर्पयामि ॥१९॥
मणिमुकुरे निष्पटले त्रिजगद्गाढान्धकारसप्ताश्वे ।
कन्दर्पकोटीसदृशं मृत्युञ्जय पश्य वदनमात्मीयम् ॥२०॥
कर्पूरचूर्णं कपिलाज्यपूतं दास्यामि कालेयसमान्वितैश्च ।
समुद्भवं पावनगन्धधूपितं मृत्युञ्जयाङ्गं परिकल्पयामि ॥२१॥
वर्तित्रयोपेतमखण्डदीप्त्या तमोहरं ब्राह्ममथान्तरं च ।
साज्यं समस्तामरवर्गहृद्यं सुरेशा मृत्युञ्जय वंशदीपम् ॥२२॥
राजान्नं मधुरान्वितं च मृदुलं माणिक्यपात्रे स्थितं हिङ्गूजीरकसन्मरीचमिलितैः शाकैरनेकैः शुभैः ।
शाकं सम्यगपूपसूपसहितं सद्योघृतेनाप्लुतं श्रीमृत्युञ्जय पार्वतीप्रिय विभो सापोशनं भुज्यताम् ॥२३॥
कूष्माण्डवार्ताकपटोलिकानां फलानि रम्याणि च कारवल्ल्या ।
सुपाकयुक्तानि ससौरभाणि श्रीकण्ठ मृत्युञ्जय भक्षयेश ॥२४॥
शीतलं मधुरं स्वच्छं पावनं वासितं लघु ।
मध्ये स्वीकुरु पानीयं शिव मृत्युञ्जय प्रभो ॥२५॥
शर्करामिलितं स्निग्धं दुग्धान्नं गोधृतान्वितम् ।
कदलीफलसंमिश्रं भुज्यतां मृत्युसंहर ॥२६॥
केवलमतिमाधुर्यं दुग्धैः स्निग्धैश्च शर्करामिलितैः ।
एलामरीचमिलितं मृत्युञ्जय देव भुङ्क्ष्व परमान्नम् ॥२७॥
रम्भाचूतकपित्थकण्ठकफलैर्द्राक्षारसास्वादुम- त्खर्जूरैर्मधुरेक्षुखण्डशकलैः सन्नारिकेलाम्बुभिः ।
कर्पूरेण सुवासितैर्गुडजलैर्माधुर्ययुक्तैर्विभो श्रीमृत्युञ्जय पूरय त्रिभुवनाधारं विशालोदरम् ॥२८॥
मनोज्ञरम्भावनखण्डखण्डिता- न्रुचिप्रदान्सर्षपजीरकांश्च ।
ससौरभान्सैन्धवसेवितांश्च गृहाण मृत्युञ्जय लोकवन्द्य ॥२९॥
हिङ्गूजीरकसहितं विमलामलकं कपित्थमतिमधुरम् ।
बिसखण्डाल्लावण्ययुता- न्मृत्युञ्जय तेऽर्पयामि जगदीश ॥३०॥
एलाशुण्ठीसहितं दध्यन्नं चारुहेमपात्रस्थम् ।
अमृतप्रतिनिधिमाढ्यं मृत्युञ्जय भुज्यतां त्रिलोकेश ॥३१॥
जम्बीरनीराञ्चितशृङ्गबेरं मनोहरानम्लशलाटुखण्डान् ।
मृदूपदंशान्सहितोपभुङ्क्ष्व मृत्युञय श्रीकरुणासमुद्र ॥३२॥
नागररामठयुक्तं सुललितजम्बीरनीरसंपूर्णम् ।
मथितं सैन्दवसहितं पिब हर मृत्युञ्जय क्रतुध्वंसिन् ॥३३॥
मन्दारहेमाम्बुजगन्धयुक्तै- र्मन्दाकिनीनिर्मलपुण्यतोयैः ।
गृहाण मृत्युञ्जय पूर्णकाम श्रीमत्परापोशनमभ्रकेश ॥३४॥
गगनधुनीविमलजलै- र्मृत्युञ्जय पद्मरागपात्रगतैः ।
मृगमदचन्दनपूर्णं प्रक्षालय चारु हस्तपादयुग्मम् ॥३५॥
पुन्नागमल्लिकाकुन्दवासितैर्जाह्नवीजलैः ।
मृत्युञ्जय महादेव पुनराचमनं कुरु ॥३६॥
मौक्तिकचूर्णसमेतै- र्मृगमदघनसारवासितैः पूगैः ।
पर्णैः स्वर्णसमानै- र्मृत्युञ्जय तेऽर्पयामि ताम्बूलम् ॥३७॥
नीराजनं निर्मलदीप्त्माद्भि- र्दीपाङ्कुरैरुज्ज्वलमुच्छ्रितैश्च ।
घण्टानिनादेन समर्पयामि मृत्युञ्जयाय त्रिपुरान्तकाय ॥३८॥
विरिञ्चिमुख्यामरवृन्दवन्दिते सरोजमत्स्याङ्कितचक्रचिह्निते ।
ददामि मृत्युञ्जय पादपङ्कजे फणीन्द्रभूषे पुनरर्घ्यमीश्वर ॥३९॥
पुन्नागनीलोत्पलकुन्दजाती- मन्दारमल्लीकरवीरपङ्कजैः ।
पुष्पाञ्जलिं बिल्वदलैस्तुलस्या मृत्युञ्जयाङ्घ्रौ विनिवेशयामि ॥४०॥
पदे पदे सर्वमनोनिकृन्दनं पदे पदे सर्वशुभप्रदायकम् ।
प्रदक्षिणं भक्तियुतेन चेतसा करोमि मृत्युञ्जय रक्ष रक्ष माम् ॥४१॥
नमो गौरीशाय स्फटिकधवलाङ्गाय च नमो नमो लोकेशाय स्तुतिविबुधलोकाय च नमः ।
नमः श्रीकण्ठाय क्षपितपुरदैत्याय च नमो नमः फालाक्षाय स्मरमदविनाशाय च नमः ॥४२॥
संसारे जनितापरोगसहिते तपत्रयाक्रन्दिते नित्यं पुत्रकलत्रवित्तविलसत्पाशैर्निबद्धं दृढम् ।
गर्वान्धं बहुपापवर्गसहितं कारुण्यदृष्ट्या विभो श्रीमृत्युञ्जय पार्वतीप्रिय सदा मां पाहि सर्वेश्वर ॥४३॥
सौधे रत्नमये नवोत्पलदलाकीर्णे च तल्पान्तरे कौशेयेन मनोहरेण धवलेनाच्छादिते सर्वशः ।
कर्पूराञ्चितदीपदीप्तिमिलिते रम्योपधानद्वये पार्र्वत्याः करपद्मलालितपदं मृत्युञ्जयं भावये ॥४४॥
चतुश्चत्वारिंशद्विलसदुपचारैरभिमतै- र्मनः पद्मे भक्त्या बहिरपि च पूजां शुभकरीम् ।
करोति प्रत्यूषे निशि दिवसमध्येऽपि च पुमा- न्प्रयाति श्रीमृत्युञ्जयपदमनेकाद्भुतपदम् ॥४५॥
प्रातर्लिङ्गमुमापतेरहरहः संदर्शनात्स्वर्गतं मध्याह्ने हयमेधतुल्यफलदं सायंतने मोक्षदम् ।
भानोरस्तमने प्रदोषसमये पञ्चाक्षराराधनं तत्कालत्रयतुल्यमिष्टफलदं सद्योऽनवद्यं दृढम् ॥४६॥
॥इति श्रीमच्छाङ्करभगवतः कृतौ मृत्युञ्जयमानसिकपूजास्तोत्रं संपूर्णम् ॥
 
************************* 
 
मार्गबंधु स्तोत्रं
शम्भो महादेव देव शिव शम्भो महादेव देव शिव शम्भो शम्भो महादेव देव ॥धृ॥
फालावनम्रत् किरीटं भालनेत्रार्चिषा दग्धपंचेषुकीटम् । शूलाहतारातिकूटं शुद्धमर्धेन्दुचूडं भजे मार्गबंधुम् ॥शम्भो॥
अंगे विराजद् भुजंगं अभ्र गंगा तरंगाभि रामोत्तमांगम् । ॐकारवाटी कुरंगं सिद्ध संसेवितांघ्रिं भजे मार्गबंधुम् ॥शम्भो॥
नित्यं चिदानंदरूपं निह्नुताशेष लोकेश वैरिप्रतापम् । कार्तस्वरार्गेद्र चापं कृतिवासं भजे दिव्य मार्गबंधुम् ॥शम्भो॥
कंदर्प दर्पघ्नमीचं कालकण्ठं महेशं महाव्योमकेशम् । कुन्दाभदन्तं सुरेशं कोटिसूर्यप्रकाशं भजे मार्गबंधुम् ॥शम्भो॥
मंदारभूतेरुदारं मंथरागेन्द्रसारं महागौर्यदूरम् । सिंदूर दूर प्रचारं सिंधुराजातिधीरं भजे मार्गबंधुम् ॥शम्भो॥
अप्पय्ययज्वेन्द्रगीतं स्तोत्रराजं पठेद्यस्तु भक्त्या प्रयाणे । तस्यार्थसिद्दिं विधत्ते मार्गमध्येऽभयं चाशुतोषी महेशः ॥
शंभो महादेव देव शिव शंभो महादेव देवेश शंभो शंभो महादेव देव ॥
इति अप्पय्य दीक्षितप्रणितम् श्रीमार्गबन्धुस्तोत्रम् संपूर्णम् ॥
 
 
************************* 
 
महामृत्युञ्जयस्तोत्रम्
ध्यानम्
चन्द्रार्काग्निविलोचनं स्मितमुखं पद्मद्वयान्तस्थितं मुद्रापाशमृगाक्षसत्रविलसत्पाणिं हिमांशुप्रभम् ।
कोटीन्दुप्रगलत्सुधाप्लुततमुं हारादिभूषोज्ज्वलं कान्तं विश्वविमोहनं पशुपतिं मृत्युञ्जयं भावयेत् ॥
रुद्रं पशुपतिं स्थाणुं नीलकण्ठमुमापतिम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥१॥
नीलकन्ठं कालमूर्त्तिं कालज्ञं कालनाशनम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥२॥
नीलकण्ठं विरूपाक्षं निर्मलं निलयप्रदम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥३॥
वामदेवं महादेवं लोकनाथं जगद्गुरुम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥४॥
देवदेवं जगन्नाथं देवेशं वृषभध्वजम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥५॥
त्र्यक्षं चतुर्भुजं शान्तं जटामकुटधारिणम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥६॥
भस्मोद्धूलितसर्वाङ्गं नागाभरणभूषितम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥७॥
अनन्तमव्ययं शान्तं अक्षमालाधरं हरम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥८॥
आनन्दं परमं नित्यं कैवल्यपददायिनम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥९॥
अर्द्धनारीश्वरं देवं पार्वतीप्राणनायकम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥१०॥
प्रलयस्थितिकर्त्तारमादिकर्त्तारमीश्वरम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥११॥
व्योमकेशं विरूपाक्षं चन्द्रार्द्धकृतशेखरम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥१२॥
गङ्गाधरं शशिधरं शङ्करं शूलपाणिनम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥१३॥
अनाथः परमानन्तं कैवल्यपदगामिनि । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥१४॥
स्वर्गापवर्गदातारं सृष्टिस्थित्यन्तकारणम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥१५॥
कल्पायुर्द्देहि मे पुण्यं यावदायुररोगताम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥१६॥
शिवेशानां महादेवं वामदेवं सदाशिवम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥१७॥
उत्पत्तिस्थितिसंहारकर्तारमीश्वरं गुरुम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥१८॥
फलश्रुति मार्कण्डेयकृतं स्तोत्रं यः पठेच्छिवसन्निधौ । तस्य मृत्युभयं नास्ति नाग्निचौरभयं क्वचित् ॥१९॥
शतावर्त्तं प्रकर्तव्यं संकटे कष्टनाशनम् । शुचिर्भूत्वा पथेत्स्तोत्रं सर्वसिद्धिप्रदायकम् ॥२०॥
मृत्युञ्जय महादेव त्राहि मां शरणागतम् । जन्ममृत्युजरारोगैः पीडितं कर्मबन्धनैः ॥२१॥
तावकस्त्वद्गतः प्राणस्त्वच्चित्तोऽहं सदा मृड । इति विज्ञाप्य देवेशं त्र्यम्बकाख्यमनुं जपेत् ॥२३॥
नमः शिवाय साम्बाय हरये परमात्मने । प्रणतक्लेशनाशाय योगिनां पतये नमः ॥२४॥
॥इति श्रीमार्कण्डेयपुराणे मार्कण्डेयकृत महामृत्युञ्जयस्तोत्रं संपूर्णम् ॥
 
 
************************* 
नटराजस्तोत्र
॥ अथ-चरणशृङ्गरहित-नटराजस्तोत्रम् ॥
सदञ्चित मुदञ्चित निकुञ्चित पदं झलझलञ्चलित मञ्जु कटकम् पतञ्जलि दृगञ्जन मनञ्जन मचञ्चलपदं जनन भञ्जन करम् ।
कदम्बरुचिमम्बरवसं परमम्बुद कदम्ब कविडम्बक कगलम् चिदम्बुधि मणिं बुध हृदम्बुज रविं पर चिदम्बर नटं हृदि भज ॥१॥
हरं त्रिपुर भञ्जनं अनन्तकृतकङ्कणं अखण्डदय मन्तरहितं विरिञ्चिसुरसंहतिपुरन्धर विचिन्तितपदं तरुणचन्द्रमकुटम् ।
परं पद विखण्डितयमं भसित मण्डिततनुं मदनवञ्चन परं चिरन्तनममुं प्रणवसञ्चितनिधिं पर चिदम्बर नटं हृदि भज ॥२॥
अवन्तमखिलं जगदभङ्ग गुणतुङ्गममतं धृतविधुं सुरसरित्- तरङ्ग निकुरम्ब धृति लम्पट जटं शमनदम्भसुहरं भवहरम् ।
शिवं दशदिगन्तर विजृम्भितकरं करलसन्मृगशिशुं पशुपतिं हरं शशिधनञ्जयपतङ्गनयनं परचिदम्बर नटं हृदि भज ॥३॥
अनन्तनवरत्नविलसत्कटककिङ्किणिझलं झलझलं झलरवं मुकुन्दविधि हस्तगतमद्दल लयध्वनिधिमिद्धिमित नर्तन पदम् ।
शकुन्तरथ बर्हिरथ नन्दिमुख शृङ्गिरिटिभृङ्गिगणसङ्घनिकटम् सनन्दसनक प्रमुख वन्दित पदं परचिदम्बर नटं हृदि भज ॥४॥
अनन्तमहसं त्रिदशवन्द्य चरणं मुनि हृदन्तर वसन्तममलम् कबन्ध वियदिन्द्ववनि गन्धवह वह्निमख बन्धुरविमञ्जु वपुषम् ।
अनन्तविभवं त्रिजगन्तर मणिं त्रिनयनं त्रिपुर खण्डन परम् सनन्द मुनि वन्दित पदं सकरुणं पर चिदम्बर नटं हृदि भज ॥५॥
अचिन्त्यमलिवृन्द रुचि बन्धुरगलं कुरित कुन्द निकुरम्ब धवलम् मुकुन्द सुर वृन्द बल हन्तृ कृत वन्दन लसन्तमहिकुण्डल धरम् ।
अकम्पमनुकम्पित रतिं सुजन मङ्गलनिधिं गजहरं पशुपतिम् धनञ्जय नुतं प्रणत रञ्जनपरं पर चिदम्बर नटं हृदि भज ॥६॥
परं सुरवरं पुरहरं पशुपतिं जनित दन्तिमुख षण्मुखममुं मृडं कनक पिङ्गल जटं सनकपङ्कज रविं सुमनसं हिमरुचिम् ।
असङ्घमनसं जलधि जन्मकरलं कवलयन्त मतुलं गुणनिधिम् सनन्द वरदं शमितमिन्दु वदनं पर चिदम्बर नटं हृदि भज ॥७॥
अजं क्षितिरथं भुजगपुङ्गवगुणं कनक शृङ्गि धनुषं करलसत् कुरङ्ग पृथु टङ्क परशुं रुचिर कुङ्कुम रुचिं डमरुकं च दधतमं ।
मुकुन्द विशिखं नमदवन्ध्य फलदं निगम वृन्द तुरगं निरुपमं सचण्डिकममुं झटिति संहृतपुरं परचिदम्बर नटं हृदि भज ॥८॥
अनङ्गपरिपन्थिनमजं क्षिति धुरन्धरमलं करुणयन्तमखिलं ज्वलन्तमनलं दधतमन्तकरिपुं सततमिन्द्रमुखवन्दितपदम् ।
उदञ्चदरविन्दकुल बन्धुशत बिम्बरुचि संहति सुगन्धि वपुषं पतञ्जलिनुतं प्रणवपञ्चर शुकंपर चिदम्बर नटं हृदि भज ॥९॥
इति स्तवममुं भुजगपुङ्गव कृतं प्रतिदिनं पठति यः कृतमुखः सदः प्रभुपद द्वितयदर्शनपदं सुललितं चरण शृङ्ग रहितम् ।
सरःप्रभव सम्भव हरित्पति हरिप्रमुख दिव्यनुत शङ्करपदं स गच्छति परं न तु जनुर्जलनिधिं परमदुःखजनकं दुरितदम् ॥१०॥
॥ इति श्रीपतञ्जलिमुनिप्रणीतं चरणशृङ्गरहित नटराजस्तोत्रं संपूर्णम् ॥

द्वादश ज्योतिर्लिङ्गानि
द्वादश ज्योतिर्लिङ्गानि सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् । उज्जयिन्यां महाकालमोङ्कारममलेश्वरम् ॥
परल्यां वैद्यनाथं च डाकिन्यां भीमशङ्करम् । सेतुबन्धे तु रामेशं नागेशं दारुकावने ॥
वाराणस्यां तु विश्वेशं त्र्यम्बकं गौतमीतटे । हिमालये तु केदारं घुश्मेशं च शिवालये ॥
एतानि ज्योतिर्लिङ्गानि सायं प्रातः पठेन्नरः । सप्तजन्मकृतं पापं स्मरणेन विनश्यति ॥
एतेशां दर्शनादेव पातकं नैव तिष्ठति । कर्मक्षयो भवेत्तस्य यस्य तुष्टो महेश्वराः ॥
 
******************** 
 
श्री दक्षिणामूर्ति स्तोत्रम्
अपासकानां यदुपासनीयमुपात्तवासं वटशाखिमूले । तद्दाम दाक्षिण्यजुषा स्वमूर्त्या जागर्तु चित्ते मम बोधरूपम् ॥१॥
अद्राक्षमक्षीणदयानिधानमाचार्यमाद्यं वटमूलभागे । मौनेन मन्दस्मितभूषितेन महर्षिलोकस्य तमो नुदन्तम् ॥२॥
विद्राविताशेषतमोगणेन मुद्राविशेषेण मुहुर्मुनीनाम् । निरस्य मायां दयया विधत्ते देवो महांस्तत्त्वमसीति बोधम् ॥३॥
अपारकारुण्यसुधातरङ्गैरपाङ्गपातैरवलोकयन्तम् । कठोरसंसारनिदाघतप्तान्मुनीनहं नौमि गुरुं गुरूणाम् ॥४॥
ममाद्यदेवो वटमूलवासी कृपाविशेषात्कृतसन्निधानः । ओंकाररूपामुपदिश्य विद्यामाविद्यकध्वान्तमपाकरोतु ॥५॥
कलाभिरिन्दोरिव कल्पिताङ्गं मुक्ताकलापैरिव बद्दमूर्तिम् । आलोकये देशिकमप्रमेयमनाद्यविद्यातिमिरप्रभातम् ॥६॥
स्वदक्षजानुस्थितवामपादं पादोदरालंकृतयोगपट्टम् । अपस्मृतेराहितपादमङ्गे प्रणौमि देवं प्रणिधानवन्तम् ॥७॥
तत्त्वार्थमन्तेवसतामृषीणां युवाऽपि यः सन्नुपदेष्टुमीष्टे । प्रणौमि तं प्राक्तनपुण्यजालैराचार्यमाश्चर्यगुणाधिवासाम् ॥८॥
एकेन मुद्रां परशुं करेण करेण चान्येन मृगं दधानः । स्वजानुविन्यस्तकरः पुरस्तादाचार्यचूडामणिराविरस्तु ॥९॥
आलेपवन्तं मदनाङ्गभूत्या शार्दूलकृत्त्या परिधानवन्तम् । आलोकये कञ्चन देशिकेन्द्रमज्ञानवाराकरबाडवाग्निम् ॥१०॥
चारुस्मित सोमकलावतंसं वीणाधरं व्यक्तजटाकलापम् । उपासते केचन योगिनस्त्वामुपात्तनादानुभवप्रमोदम् ॥११॥
उपासते यं मुनयः शुकाद्या निराशिषो निर्ममताधिवासाः । तं दक्षिणामूर्तितनुं महेशमुपास्महे मोहमहार्तिशान्त्यै ॥१२॥
कान्त्या निन्दितकुन्दकन्दलवपुर्न्यग्रोधमूले वस - न्कारुण्यामृतवारिभिर्मुनिजनं संभावयन्वीक्षितैः ।
मोहध्वान्तविभेदनं विरचयन्बोधेन तत्तादृशा देवस्तत्त्वमसीति बोधयतु मां मुद्रावता पाणिना ॥१३॥
अगौरगात्रैरललाटनेत्रैरशान्तवेषैरभुजङ्गभूषैः । अबोधमुद्रैरनपास्तनिद्रैर्पूर्णकामैरमरेरलं नः ॥१४॥
दैवतानि कति सन्ति चावनौ नैव तानि मनसो मतानि मे । दीक्षितं जडधियामनुग्रहे दक्षिणाभिमुखमेव दैवतम् ॥१५॥
मुदिताय मुग्धशशिनावतंसिने भसितावलेपरमणीयमूर्तये । जगदीन्द्रजालरचनापटियसे महसे नमोऽस्तु वटमूलवासिने ॥१६॥
व्यालम्बिनीभिः परितो जटाभिः कलावशेषेण कलाधरेण । पश्यल्ललाटेन मुखेन्दुना च प्रकाशसे चेतसि निर्मलानाम् ॥१७॥
उपासकानां त्वमुमासहायः पूर्णेन्दुभावं प्रकटीकरोषि । उअदद्य ते दर्शनमात्रतो मे द्रवत्यहो मानसचन्द्रकान्तः ॥१८॥
यस्ते प्रसन्नामनुसन्दधानो मूर्तिं मुदा मुग्धश्शाङ्कमौलेः । ऐश्वर्यमायुर्लभते च विद्यामन्ते च वेदान्तमहारहस्यम् ॥१९॥
॥ दक्षिणामूर्तिस्तोत्रं संपूर्णम्॥
 
******************** 
 
दक्षिणामूर्ति स्तोत्रम्
॥ शांतिपाठः ॥
ॐ यो ब्रह्माणं विदधाति पूर्वम् यो वै वेदांश्च प्रहिणोति तस्मै । तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ॥
ॐ शांतिः शांतिः शांतिः
विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं पश्यन्नात्मनि मायया बहिरिवोद्भूतं यदा निद्रया ।
यः साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥१॥
बीजस्यान्तरिवाङ्कुरो जगदिदं प्राङ्निर्विकल्पं पुनः मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम् ।
मायावीव विजृम्भयत्यपि महायोगीव यः स्वेच्छया तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥२॥
यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थकं भासते साक्षात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान् ।
यत्साक्षात्करणाद्भवेन्न पुनरावृत्तिर्भवाम्भोनिधौ तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥३॥
नानाच्छिद्रघटोदरस्थितहादीपप्रभाभास्वरं ज्ञानं यस्य तु चक्षुरादिकरणद्वारा बहिः स्पन्दते ।
जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगत् तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥४॥
देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः स्त्रीबालान्धजडोपमास्त्वहमिति भ्रान्ता भृशं वादिनः ।
मायाशक्तिविलासकल्पितमहा व्यामोहसंहारिणे तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥५॥
राहुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्छादनात् सन्मात्रः करणोपसंहरणतो योऽभूत्सुषुप्तः पुमान् ।
प्रागस्वाप्समिति प्रबोधसमये यः प्रत्यभिज्ञायते तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥६॥
बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा ।
स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥७॥
विश्वं पश्यति कार्यकारणतया स्वस्वामिसंबन्धतः शिष्याचार्यतया तयैव पितृपुत्राद्यात्मना भेदतः ।
स्वप्ने जाग्रति वा य एष पुरुषो मायापरिभ्रामितः तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥८॥
भूरम्भांस्यनलोऽनिलोऽम्बरमहर्नाथो हिमांशुः पुमान् इत्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् ।
नान्यत्किञ्चन विद्यते विमृशतां यस्मात्परस्माद्विभोः तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥९॥
सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिन् स्तवे तेनास्य श्रवणात्तदर्थमननाद्ध्यानाच्च सङ्कीर्तनात् ।
सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वतः सिद्ध्येत्तत्पुनरष्टधा परिणतं चैश्वर्यमव्याहतम् ॥१०॥
वटविटपिसमीपे भूमिभागे निषण्णं सकलमुनिजनानां ज्ञानदातारमारात् ।
त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवं जननमरणदुःखच्छेददक्षं नमामि ॥
 
******************** 
 
तत्त्वार्यास्तवः
शिवकामसुन्दरीशं शिवगङ्गातीरकल्पितनिवेशम् । शिवमाश्रये द्युकेशं शिवमिच्छन्मा वपुष्यभिनिवेशम् ॥१॥
गीर्वाणचक्रवर्ती गीश्चेतोमार्गदूरतोवर्ती । भक्ताशयानुवर्ती भवतु नटेशोऽखिलामयनिवर्ती ॥२॥
वैयाघ्रपादभाग्यं वैयाघ्रं चर्म कंचन वसानम् । वैयाकरणफणीड्यं वैयासिक्या गिरा स्तुतं प्रणुमः ॥३॥
हाटकसभानिवासः शाटकतापन्नसकलहरिदन्तः । घोटकनिगमो मायानाटकसाक्षी जगत्पतिर्जयति ॥४॥
शैलूषराजमाद्यं मालूरप्रसवमालिकाभरणम् । पीलूपमोऽन्धुजीर्यच्छालूराभः कथं विजानीयाम् ॥५॥
कनकसभैकनिकेतं कठिनपुराणोक्तिसारसंकेतम् । नाराधयन्ति के तं नारायण्या युतं स्वतोकेतम् ॥६॥
तिल्लवने क्षुल्लवने पल्लवसंभिन्नफुल्लपुष्पघने । चिल्लहरीमुल्ललयन् वल्लभया भिल्लतल्लजो नटति ॥७॥
वैराजहृत्सरोजे वैराजाद्यैः स सामभिः स्तव्यः । वैराग्यादिगुणाढ्यैः वैराद्युत्सृज्य दृश्यते नृत्यन् ॥८॥
ढक्कानिनदैः सूत्राण्यङ्गदनादैरहो महद्भाष्यम् । व्याकरणस्य विवृण्वन् नृत्यति भृत्यान् कृतार्थयन् मर्त्यान् ॥९॥
नटनायक नटनाय क इह सुकृती नो तव स्पृहयेत् । मन्~जुलतामञ्जुलतामहिते वस्तुं च तिल्लवने ॥१०॥
अतिदुरितोत्तारकृते चिरधृतहर्षः सभापतिः सद्यः । अगणेयाघघनं मामासाद्यानन्दमेदुरो नटति ॥११॥
मत्पादलग्नजनतामुद्धर्तास्मीति चित्सभानाथः । ताण्डवमिषोद्धृतैकसवाङ्घ्रिः सर्वान् विबोधयति ॥१२॥
आपन्नलोकपालिनि कपालिनि स्त्रीकृताङ्गपालिनि मे । शमितविधिश्रीशरणे शरणा धीरस्तु चित्सभाशरणे ॥१३॥
भिक्षुर्महेश्वरोऽपि श्रुत्या प्रोक्तः शिवोऽप्युग्रः । अपि भवहारी च भवो नटोऽपि चित्रं सभानाथः ॥१४॥
नृत्यन्नटेशमौलित्वङ्गद्गङ्गातरङ्गशीकरिणः । भूषाहिपीतशिष्टाः पुनन्तु मां तिल्लवनवाताः ॥१५॥
कनकसभासम्राजो नटनारम्भे झलंझलंझलिति । मञ्जीरमञ्जुनिनदा ध्वनियुः श्रोत्रे कदा नु मम ॥१६॥
पर्वतराजतनूजाकुचतटसंक्रान्तकुङ्कुमोन्मिश्राः । नटनार्भटीविधूता भूतिकणास्ते स्पृशेयुरपि मेऽङ्गम् ॥१७॥
नटनोच्चलत्कपालामर्दितचन्द्रक्षरत्सुधामिलिताः । आदिनटमौलितटिनीपृषतो गोत्रेऽत्र मे स्खलेयुः किम् ॥१८॥
पश्यानि सभाधीशं कदा नु तं मूर्धनि सभाधीशम् । यः क्षयरसिकं कालं जितवान् धत्ते च शिरसि कङ्कालम् ॥१९॥
तनुजायातनुजायासक्तानां दुर्लभं सभानाथम् । नगतनया नगतनया वशयति दत्त्वा शरीरार्धम् ॥२०॥
आनन्दताण्डवं यस्तवेश पश्येन्न चापि नृगणे यः । स च स च न चन्द्रमौले विद्वद्भिर्जन्मवत्सु विगणेयः ॥२१॥
कामपरवशं कृत्वा कामपरवशं त्वकृत्वा माम् । कनकसभां गमयसि रे कनकसभां हा न यापयसि ॥२२॥
नटनं विहाय शंभोर्घटनं पीनस्तनीभिराशास्से । अटनं भवे दुरन्ते विट नन्दसि न स्वभूमसुखम् ॥२३॥
कलितभवलङ्घनानां किं करैव चित्सुखघनानाम् । सुमुदां सापघनानां शिवकामेश्याः कृपामृतघनानाम् ॥२४॥
निनिलीये मायायां न विलिये वा शुचा परं लीये । आनन्दसीमनि लसत्तिल्लवनीधामनि स्वभूमनि तु ॥२५॥
अधिहेमसभं प्रसभं बिसभङ्गवदान्यधन्यरुचम् । श्रुतगलगरलं सरलं निरतं भक्तावने भजे देवम् ॥२६॥
सभया चित्सभयासीन्माया मायाप्रबोधशीतरुचेः । सुहिता धीः सुहिता मे सोमा सोमार्धधारिणी मूर्तिः ॥२७॥
पत्या हेमसभायाः सत्यानन्दैकचिद्वपुषा । कत्यार्ता न त्राता नृत्यायत्तेन मादृशा मर्त्याः ॥२८॥
भजतां मुमुक्षया त्वां नटेश लभयास्त्रयः पुमर्थाश्च । फललिप्सयाम्रभाजां छायासौरभ्यमाधव्य इव ॥२९॥
कञ्चुकपञ्चकनद्धं नटयसि मां किं नटेश नाटयसि । नटसि निरावृतिसुखितो जहि मायां त्वादृशोऽहमपि तत् स्याम् ॥३०॥
आस्तां नटेश तद्यन्नटति भवानम्बरे निरालम्बे । त्वन्नटनेऽपि हि नटनं वेदपुरानागमाः समादधति ॥३१॥
वेधसि सर्वाधीशेऽमेधसि वा मादृशे सरूपकृता । रोधसि शिवगङ्गाया बोधसिरा काचिदुल्लसति ॥३२॥
हट्टायितं विमुक्तेः कुट्टाकं तं भजामि मायायाः । भट्टारकं सभायाः किट्टात्मन्यङ्गके त्यजन्ममताम् ॥३३॥
श्रीमच्चिदम्बरेशादन्यत्रानन्दताण्डवासक्तात् । ब्राह्मं लक्षणमास्ते कुत्रचिदानन्दरूपता देवे ॥३४॥
क्षुल्लककामकृतेऽपि त्वत्सेवा स्याद्विमुक्तिमपि दात्री । पीतामृतोऽप्युदन्याशान्त्यै स्याच्चित्सभाधिपामर्त्यः ॥३५॥
सत्यं सत्यं गत्यन्तरमुत्सृज्य ते पदापात्यम् । अत्यन्तार्तं भृत्यं न त्यज नित्यं नटेश मां पाहि ॥३६॥
षट्त्रिंशता तत्त्वमयीभिराभिः सोपानभूताभिरुमासहायम् । आर्याभिराद्यं परतत्त्वभूतं चिदम्बरानन्दनटं भजध्वम् ॥३७॥
॥ इति श्रीतत्त्वार्यास्तवः संपूर्णः॥
 
******************** 
 
शिवरक्षास्तोत्रं
अस्य श्रीशिवरक्षास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषिः ॥
श्री सदाशिवो देवता ॥अनुष्टुप् छन्दः ॥ श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः ॥
चरितं देवदेवस्य महादेवस्य पावनम् । अपारं परमोदारं चतुर्वर्गस्य साधनम् ॥१॥
गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् । शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः ॥२॥
गंगाधरः शिरः पातु भालं अर्धेन्दुशेखरः । नयने मदनध्वंसी कर्णो सर्पविभूषण ॥३॥
घ्राणं पातु पुरारातिः मुखं पातु जगत्पतिः । जिह्वां वागीश्वरः पातु कंधरां शितिकंधरः ॥४॥
श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः । भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक् ॥५॥
हृदयं शंकरः पातु जठरं गिरिजापतिः । नाभिं मृत्युञ्जयः पातु कटी व्याघ्राजिनाम्बरः ॥६॥
सक्थिनी पातु दीनार्तशरणागतवत्सलः । उरू महेश्वरः पातु जानुनी जगदीश्वरः ॥७॥
जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः । चरणौ करुणासिंधुः सर्वाङ्गानि सदाशिवः ॥८॥
एतां शिवबलोपेतां रक्षां यः सुकृती पठेत् । स भुक्त्वा सकलान्कामान् शिवसायुज्यमाप्नुयात् ॥९॥
ग्रहभूतपिशाचाद्यास्त्रैलोक्ये विचरन्ति ये । दूरादाशु पलायन्ते शिवनामाभिरक्षणात् ॥१० ॥
अभयङ्करनामेदं कवचं पार्वतीपतेः । भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत्त्रयम् ॥११॥
इमां नारायणः स्वप्ने शिवरक्षां यथाऽऽदिशत् । प्रातरुत्थाय योगीन्द्रो याज्ञवल्क्यः तथाऽलिखत् ॥१२॥
॥ इति श्रीयाज्ञवल्क्यप्रोक्तं शिवरक्षास्तोत्रं सम्पूर्णम् ॥

शिवप्रातःस्मरणस्तोत्रम्
प्रातः स्मरामि भवभीतिहरं सुरेशं गङ्गाधरं वृषभवाहनमम्बिकेशम् ।
खट्टाङ्गशूलरवदाभयहस्तमीशं संसाररोगहरमौषधमद्वितीयम् ॥ १॥
प्रातर्नमामि गिरिशं गिरिजार्धदेहं सर्गस्थितिप्रलयकारणमादिदेवम् ।
विश्वेश्वरं विजितविश्वमनोभिरामं संसाररोगहरमौषधमद्वितीयम् ॥ २॥
प्रातर्भजामि शिवमेकमनन्तमाद्यं वेदान्तवेद्यमनघं पुरूषं महान्तम् ।
नामादिभेदरहितं षड्भावशून्यं संसाररोगहरमौषधमद्वितीयम् ॥ ३॥
 
************* 
शम्भुस्तोत्रम्
नानायोनिसहस्रकोटिषु मुहुः संभूय संभूय तद्गर्भावासनिरन्तदुःखनिवहं वक्तुं न शक्यं च तत् ।
भूयो भूय इहानुभूय सुतरां कष्टानि नष्टोऽस्म्यहं त्राहि त्वं करुणातरङ्गितदृशा शंभो दयाम्भोनिधे ॥१॥
बाल्ये ताडनपीडनैर्बहुविधैः पित्रादिभिर्बोधितः तत्कालोचितरोगजालजनितैर्दुःखैरलं बाधितः ।
लीलालौल्यगुणीकृतैश्च विविधैर्दुश्चोष्टितैः क्लेशितः सोऽहं त्वां शरणं व्रजाम्यव विभो शंभो दयाम्भोनिधे ॥२॥
तारुण्ये मदनेन पीडिततनुः कामातुरः कामिनीसक्तस्तद्वशगः स्वधर्मविमुखः सद्भिः सदा दूषितः ।
कर्माकार्षमपारनारकफलं सौख्याशया दुर्मतिः त्राहि त्वं करुणातरङ्गितदृशा शंभो दयाम्भोनिधे ॥३॥
वृद्धत्वे गलिताखिलेन्द्रियबलो विभ्रष्टदन्तावलिः श्वेतीभूतशिराः सुजर्जरतनुः कम्पाश्रयोऽनाश्रयः ।
लालोच्छिष्टपुरीषमूत्रसलिलक्लिन्नोऽस्मि दीनोऽस्म्यहं त्राहि त्वं करुणातरङ्गितदृशा शंभो दयाम्भोनिधे ॥४॥
ध्यातं ते पदाम्बुजं सकृदपि ध्यातं धनं सर्वदा पूजा ते न कृता कृता स्ववपुषः स्त्रग्गन्धलेपार्चनैः ।
नान्नाद्यैः परितर्पिता द्विजवरा जिह्वैव संतर्पिता पापिष्ठेन मया सदाशिव विभो शंभो दयाम्भोनिधे ॥५॥
संध्यास्नानजपादि कर्म न कृतं भक्त्या कृतं दुष्कृतं त्वन्नामेश न कीर्तितं त्वतिमुदा दुर्भाषितं भाषितम् ।
त्वन्मूर्तिर्न विलोकिता पुनरपि स्त्रीमूर्तिरालोकिता भोगासक्तिमता मया शिव विभो शंभो दयाम्भोनिधे ॥६॥
संध्याध्यानजपादिकर्मकरणे शक्तोऽस्मि नैव प्रभो दातुं हन्त मतिं प्रतीपकरणे दारादिबन्धास्पदे ।
नामैकं तव तारकं मम विभो ह्यन्यन्न चास्ति क्वचित् त्राहि त्वं करुणातरङ्गितदृशा शंभो दयाम्भोनिधे ॥७॥
कुम्भीपाकधुरंधरादिषु महाबीजादिषु प्रोद्धतं घोरं नारकदुःखमीषदपि वा सोढुं न शक्तोऽस्म्यहम् ।
तस्मात् त्वां शरणं व्रजामि सततं जानामि न त्वां विना त्राहि त्वं करुणातरङ्गितदृशा शंभो दयाम्भोनिधे ॥८॥
माता वापि पिता सुतोऽपि न हितो भ्रात्रादयो बान्धवाः सर्वे स्वार्थपरा भवन्ति खलु मां त्रातुं न केऽपि क्षमाः ।
दूतेभ्यो यमचोदितेभ्य इह तु त्वामन्तरा शंकर त्राहि त्वं करुणातरङ्गितदृशा शंभो दयाम्भोनिधे ॥९॥
॥ शंभुस्तोत्रं संपूर्णम् ॥
 
 
************* 
वेदसारशिवस्तोत्रम्
पशूनां पतिं पापनाशं परेशं गजेन्द्रस्य कृत्तिं वसानं वरेण्यम् ।
जटाजूटमध्ये स्फुरद्गाङ्गवारिं महादेवमेकं स्मरामि स्मरारिम् ॥ १॥
महेशं सुरेशं सुरारातिनाशं विभुं विश्वनाथं विभूत्यङ्गभूषम् ।
विरूपाक्षमिन्द्वर्कवह्नित्रिनेत्रं सदानन्दमीडे प्रभुं पञ्चवक्त्रम् ॥ २॥
गिरीशं गणेशं गले नीलवर्णं गवेन्द्राधिरूढं गुणातीतरूपम् ।
भवं भास्वरं भस्मना भूषिताङ्गं भवानीकलत्रं भजे पञ्चवक्त्रम् ॥ ३॥
शिवाकान्त शंभो शशाङ्कार्धमौले महेशान शूलिञ्जटाजूटधारिन् ।
त्वमेको जगद्व्यापको विश्वरूपः प्रसीद प्रसीद प्रभो पूर्णरूप ॥ ४॥
परात्मानमेकं जगद्बीजमाद्यं निरीहं निराकारमोंकारवेद्यम् ।
यतो जायते पाल्यते येन विश्वं तमीशं भजे लीयते यत्र विश्वम् ॥ ५॥
न भूमिर्नं चापो न वह्निर्न वायु- र्न चाकाशमास्ते न तन्द्रा न निद्रा ।
न चोष्णं न शीतं न देशो न वेषो न यस्यास्ति मूर्तिस्त्रिमूर्तिं तमीडे ॥ ६॥
अजं शाश्वतं कारणं कारणानां शिवं केवलं भासकं भासकानाम् ।
तुरीयं तमःपारमाद्यन्तहीनं प्रपद्ये परं पावनं द्वैतहीनम् ॥ ७॥
नमस्ते नमस्ते विभो विश्वमूर्ते नमस्ते नमस्ते चिदानन्दमूर्ते ।
नमस्ते नमस्ते तपोयोगगम्य नमस्ते नमस्ते श्रुतिज्ञानगम्य ॥ ८॥
प्रभो शूलपाणे विभो विश्वनाथ महादेव शंभो महेश त्रिनेत्र ।
शिवाकान्त शान्त स्मरारे पुरारे त्वदन्यो वरेण्यो न मान्यो न गण्यः ॥ ९॥
शंभो महेश करुणामय शूलपाणे गौरीपते पशुपते पशुपाशनाशिन् ।
काशीपते करुणया जगदेतदेक- स्त्वंहंसि पासि विदधासि महेश्वरोऽसि ॥ १०॥
त्वत्तो जगद्भवति देव भव स्मरारे त्वय्येव तिष्ठति जगन्मृड विश्वनाथ ।
त्वय्येव गच्छति लयं जगदेतदीश लिङ्गात्मके हर चराचरविश्वरूपिन् ॥ ११॥
॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ वेदसारशिवस्तोत्रं संपूर्णम् ।
 
 
************* 
 
दारिद्र्य दहन शिवस्तोत्रं
विश्वेश्वराय नरकार्णव तारणाय कणामृताय शशिशेखरधारणाय ।
कर्पूरकान्तिधवलाय जटाधराय दारिद्र्य दुःखदहनाय नमः शिवाय ॥ १॥
गौरीप्रियाय रजनीशकलाधराय कालान्तकाय भुजगाधिपकङ्कणाय ।
गंगाधराय गजराजविमर्दनाय दारिद्र्य दुःखदहनाय नमः शिवाय ॥ २॥
भक्तिप्रियाय भवरोगभयापहाय उग्राय दुर्गभवसागरतारणाय ।
ज्योतिर्मयाय गुणनामसुनृत्यकाय दारिद्र्य दुःखदहनाय नमः शिवाय ॥ ३॥
चर्मम्बराय शवभस्मविलेपनाय भालेक्षणाय मणिकुण्डलमण्डिताय ।
मंझीरपादयुगलाय जटाधराय दारिद्र्य दुःखदहनाय नमः शिवाय ॥ ४॥
पञ्चाननाय फणिराजविभूषणाय हेमांशुकाय भुवनत्रयमण्डिताय ।
आनन्दभूमिवरदाय तमोमयाय दारिद्र्य दुःखदहनाय नमः शिवाय ॥ ५॥
भानुप्रियाय भवसागरतारणाय कालान्तकाय कमलासनपूजिताय ।
नेत्रत्रयाय शुभलक्षण लक्षिताय दारिद्र्य दुःखदहनाय नमः शिवाय ॥ ६॥
रामप्रियाय रघुनाथवरप्रदाय नागप्रियाय नरकार्णवतारणाय ।
पुण्येषु पुण्यभरिताय सुरार्चिताय दारिद्र्य दुःखदहनाय नमः शिवाय ॥ ७॥
मुक्तेश्वराय फलदाय गणेश्वराय गीतप्रियाय वृषभेश्वरवाहनाय ।
मातङ्गचर्मवसनाय महेश्वराय दारिद्र्य दुःखदहनाय नमः शिवाय ॥ ८॥
वसिष्ठेन कृतं स्तोत्रं सर्वरोगनिवारणं । सर्वसंपत्करं शीघ्रं पुत्रपौत्रादिवर्धनम् ।
त्रिसंध्यं यः पठेन्नित्यं स हि स्वर्गमवाप्नुयात् ॥ ९॥
॥ इति श्रीवसिष्ठविरचितं दारिद्र्यदहनशिवस्तोत्रं सम्पूर्णम् ॥
 
************* 
शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम्
श्रीमदात्मने गुणैकसिन्धवे नमः शिवाय धामलेशधूतकोकबन्धवे नमः शिवाय ।
नामशेषितानमद्भावान्धवे नमः शिवाय पामरेतरप्रधानबन्धवे नमः शिवाय ॥ १॥
कालभीतविप्रबालपाल ते नमः शिवाय शूलभिन्नदुष्टदक्षफाल ते नमः शिवाय ।
मूलकारणाय कालकाल ते नमः शिवाय पालयाधुना दयालवाल ते नमः शिवाय ॥ २॥
इष्टवस्तुमुख्यदानहेतवे नमः शिवाय दुष्टदैत्यवंशधूमकेतवे नमः शिवाय ।
सृष्टिरक्षणाय धर्मसेतवे नमः शिवाय अष्टमूर्तये वृषेन्द्रकेतवे नमः शिवाय ॥ ३॥
आपदद्रिभेदटङ्कहस्त ते नमः शिवाय पापहारिदिव्यसिन्धुमस्त ते नमः शिवाय ।
पापदारिणे लसन्नमस्तते नमः शिवाय शापदोषखण्डनप्रशस्त ते नमः शिवाय ॥ ४॥
व्योमकेश दिव्यभव्यरूप ते नमः शिवाय हेममेदिनीधरेन्द्रचाप ते नमः शिवाय ।
नाममात्रदग्धसर्वपाप ते नमः शिवाय कामनैकतानहृद्दुराप ते नमः शिवाय ॥ ५॥
ब्रह्ममस्तकावलीनिबद्ध ते नमः शिवाय जिह्मगेन्द्रकुण्डलप्रसिद्ध ते नमः शिवाय ।
ब्रह्मणे प्रणीतवेदपद्धते नमः शिवाय जिंहकालदेहदत्तपद्धते नमः शिवाय ॥ ६॥
कामनाशनाय शुद्धकर्मणे नमः शिवाय सामगानजायमानशर्मणे नमः शिवाय ।
हेमकान्तिचाकचक्यवर्मणे नमः शिवाय सामजासुराङ्गलब्धचर्मणे नमः शिवाय ॥ ७॥
जन्ममृत्युघोरदुःखहारिणे नमः शिवाय चिन्मयैकरूपदेहधारिणे नमः शिवाय ।
मन्मनोरथावपूर्तिकारिणे नमः शिवाय सन्मनोगताय कामवैरिणे नमः शिवाय ॥ ८॥
यक्षराजबन्धवे दयालवे नमः शिवाय दक्षपाणिशोभिकाञ्चनालवे नमः शिवाय ।
पक्षिराजवाहहृच्छयालवे नमः शिवाय अक्षिफाल वेदपूततालवे नमः शिवाय ॥ ९॥
दक्षहस्तनिष्ठजातवेदसे नमः शिवाय अक्षरात्मने नमद्बिडौजसे नमः शिवाय ।
दीक्षितप्रकाशितात्मतेजसे नमः शिवाय उक्षराजवाह ते सतां गते नमः शिवाय ॥ १०॥
राजताचलेन्द्रसानुवासिने नमः शिवाय राजमाननित्यमन्दहासिने नमः शिवाय ।
राजकोरकावतंसभासिने नमः शिवाय राजराजमित्रताप्रकाशिने नमः शिवाय ॥ ११॥
दीनमानवालिकामधेनवे नमः शिवाय सूनबाणदाहकृत्कृशानवे नमः शिवाय ।
स्वानुरागभक्तरत्नसानवे नमः शिवाय दानवान्धकारचण्डभानवे नमः शिवाय ॥ १२॥
सर्वमङ्गलाकुचाग्रशायिने नमः शिवाय सर्वदेवतागणातिशायिने नमः शिवाय ।
पूर्वदेवनाशसंविधायिने नमः शिवाय सर्वमन्मनोजभङ्गदायिने नमः शिवाय ॥ १३॥
स्तोकभक्तितोऽपि भक्तपोषिणे नमः शिवाय माकरन्दसारवर्षिभाषिणे नमः शिवाय ।
एकबिल्वदानतोऽपि तोषिणे नमः शिवाय नैकजन्मपापजालशोषिणे नमः शिवाय ॥ १४॥
सर्वजीवरक्षणैकशीलिने नमः शिवाय पार्वतीप्रियाय भक्तपालिने नमः शिवाय ।
दुर्विदग्धदैत्यसैन्यदारिणे नमः शिवाय शर्वरीशधारिणे कपालिने नमः शिवाय ॥ १५॥
पाहि मामुमामनोज्ञदेह ते नमः शिवाय देहि मे वरं सिताद्रिगेह ते नमः शिवाय ।
मोहितर्षिकामिनीसमूह ते नमः शिवाय स्वेहितप्रसन्न कामदोह ते नमः शिवाय ॥ १६॥
मङ्गलप्रदाय गोतुरंग ते नमः शिवाय गङ्गया तरङ्गितोत्तमाङ्ग ते नमः शिवाय ।
सङ्गरप्रवृत्तवैरिभङ्ग ते नमः शिवाय अङ्गजारये करेकुरङ्ग ते नमः शिवाय ॥ १७॥
ईहितक्षणप्रदानहेतवे नमः शिवाय आहिताग्निपालकोक्षकेतवे नमः शिवाय ।
देहकान्तिधूतरौप्यधातवे नमः शिवाय गेहदुःखपुञ्जधूमकेतवे नमः शिवाय ॥ १८॥
त्र्यक्ष दीनसत्कृपाकटाक्ष ते नमः शिवाय दक्षसप्ततन्तुनाशदक्ष ते नमः शिवाय ।
ऋक्षराजभानुपावकाक्ष ते नमः शिवाय रक्ष मां प्रपन्नमात्ररक्ष ते नमः शिवाय ॥ १९॥
न्यङ्कुपाणये शिवंकराय ते नमः शिवाय संकटाब्धितीर्णकिंकराय ते नमः शिवाय ।
कङ्कभीषिताभयंकराय ते नमः शिवाय पङ्कजाननाय शंकराय ते नमः शिवाय ॥ २०॥
कर्मपाशनाश नीलकण्ठ ते नमः शिवाय शर्मदाय नर्यभस्मकण्ठ ते नमः शिवाय ।
निर्ममर्षिसेवितोपकण्ठ ते नमः शिवाय कुर्महे नतीर्नमद्विकुण्ठ ते नमः शिवाय ॥ २१॥
विष्टपाधिपाय नम्रविष्णवे नमः शिवाय शिष्टविप्रहृद्गुहाचरिष्णवे नमः शिवाय ।
इष्टवस्तुनित्यतुष्टजिष्णवे नमः शिवाय कष्टनाशनाय लोकजिष्णवे नमः शिवाय ॥ २२॥
अप्रमेयदिव्यसुप्रभाव ते नमः शिवाय सत्प्रपन्नरक्षणस्वभाव ते नमः शिवाय ।
स्वप्रकाश निस्तुलानुभाव ते नमः शिवाय विप्रडिम्भदर्शितार्द्रभाव ते नमः शिवाय ॥ २३॥
सेवकाय मे मृड प्रसीद ते नमः शिवाय भावलभ्य तावकप्रसाद ते नमः शिवाय ।
पावकाक्ष देवपूज्यपाद ते नमः शिवाय तवकाङ्घ्रिभक्तदत्तमोद ते नमः शिवाय ॥ २४॥
भुक्तिमुक्तिदिव्यभोगदायिने नमः शिवाय शक्तिकल्पितप्रपञ्चभागिने नमः शिवाय ।
भक्तसंकटापहारयोगिने नमः शिवाय युक्तसन्मनःसरोजयोगिने नमः शिवाय ॥ २५॥
अन्तकान्तकाय पापहारिणे नमः शिवाय शान्तमायदन्तिचर्मधारिणे नमः शिवाय ।
संतताश्रितव्यथाविदारिणे नमः शिवाय जन्तुजातनित्यसौख्यकारिणे नमः शिवाय ॥ २६॥
शूलिने नमो नमः कपालिने नमः शिवाय पालिने विरिञ्चितुण्डमालिने नमः शिवाय ।
लीलिने विशेषरुण्डमालिने नमः शिवाय शीलिने नमः प्रपुण्यशालिने नमः शिवाय ॥ २७॥
शिवपञ्चाक्षरमुद्रां चतुष्पदोल्लासपद्यमणिघटिताम् । नक्षत्रमालिकामिह दधदुपकण्ठं नरो भवेत्सोमः ॥ २८॥
॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ शिवपञ्चाक्षरनक्षत्रमालास्तोत्रं संपूर्णम् ॥

उमामहेश्वरस्तोत्रम्
श्री शङ्कराचार्य कृतम् ।
नमः शिवाभ्यां नवयौवनाभ्याम् परस्पराश्लिष्टवपुर्धराभ्याम् । नागेन्द्रकन्यावृषकेतनाभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ १॥
नमः शिवाभ्यां सरसोत्सवाभ्याम् नमस्कृताभीष्टवरप्रदाभ्याम् । नारायणेनार्चितपादुकाभ्यां नमो नमः शङ्करपार्वतीभ्याम् ॥ २॥
नमः शिवाभ्यां वृषवाहनाभ्याम् विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम् । विभूतिपाटीरविलेपनाभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ३॥
नमः शिवाभ्यां जगदीश्वराभ्याम् जगत्पतिभ्यां जयविग्रहाभ्याम् । जम्भारिमुख्यैरभिवन्दिताभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ४॥
नमः शिवाभ्यां परमौषधाभ्याम् पञ्चाक्षरी पञ्जररञ्जिताभ्याम् । प्रपञ्चसृष्टिस्थिति संहृताभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ५॥
नमः शिवाभ्यामतिसुन्दराभ्याम् अत्यन्तमासक्तहृदम्बुजाभ्याम् । अशेषलोकैकहितङ्कराभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ६॥
नमः शिवाभ्यां कलिनाशनाभ्याम् कङ्कालकल्याणवपुर्धराभ्याम् । कैलासशैलस्थितदेवताभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ७॥
नमः शिवाभ्यामशुभापहाभ्याम् अशेषलोकैकविशेषिताभ्याम् । अकुण्ठिताभ्याम् स्मृतिसंभृताभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ८॥
नमः शिवाभ्यां रथवाहनाभ्याम् रवीन्दुवैश्वानरलोचनाभ्याम् । राकाशशाङ्काभमुखाम्बुजाभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ९॥
नमः शिवाभ्यां जटिलन्धरभ्याम् जरामृतिभ्यां च विवर्जिताभ्याम् । जनार्दनाब्जोद्भवपूजिताभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ १०॥
नमः शिवाभ्यां विषमेक्षणाभ्याम् बिल्वच्छदामल्लिकदामभृद्भ्याम् । शोभावती शान्तवतीश्वराभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ ११॥
नमः शिवाभ्यां पशुपालकाभ्याम् जगत्रयीरक्षण बद्धहृद्भ्याम् । समस्त देवासुरपूजिताभ्याम् नमो नमः शङ्करपार्वतीभ्याम् ॥ १२॥
स्तोत्रं त्रिसन्ध्यं शिवपार्वतीभ्याम् भक्त्या पठेद्द्वादशकं नरो यः । स सर्वसौभाग्य फलानि भुङ्क्ते शतायुरान्ते शिवलोकमेति ॥ १३॥
इति उमामहेश्वरस्तोत्रं सम्पूर्णम् ॥
 
*********************
 
शिवाष्टकम्
श्री गणेशाय नम: ॥
प्रभुं प्राणनाथं विभुं विश्‍वनाथं जगन्नाथनाथं सदानंदभाजाम् ।
भवद्बव्यभुतेश्वरं भूतनाथं शिवं शंकरं शंभूमीशानमीडे ॥ १ ॥
गले रुंडमालं तनौ सर्पजालं महाकालकालं गणेशाधिपालम् ।
जटाजूटगंगोत्तरंगैर्विशालं शिवं० ॥ २ ॥
मुदामाकरं मंडनं मंडयन्तं महामंडलं भस्मभूषाधरं तम् ।
अनादिं ह्यपारं महामोहमारं शिवं० ॥ ३ ॥
तटाधोनिवासं महाट्टाट्टहासं महापापनाशं सदा सुप्रकाशम् ।
गिरिशं गणेशं सुरेशं महेशं शिवं० ॥ ४ ॥
गिरिन्द्रात्मजासंगृहीतार्धदेहं गिरौ संस्थितं सर्वदासन्नगेहम् ॥
परब्रह्मब्रह्मादिभिर्वंद्यमानं शिवं० ॥ ५ ॥
कपालं त्रिशूलं कराभ्यां दधानं पदांभोजनम्राय कामं ददानम् ।
बलीवर्दयानं सुराणां प्रधानं शिवं० ॥ ६ ॥
शरच्चंद्रगात्रं गुणानंदपात्रं त्रिनेत्रं पवित्रं धनेशस्य मित्रम् ।
अपर्णाकलत्रं चरित्रं विचित्रं शिवं० ॥ ७ ॥
हरं सर्पहारं चिताभूविहारं भवं वेदसारं सदा निर्विकारम् ।
श्मशाने वसंतं मनोजं दहंतं शिवं० ॥ ८ ॥
स्तवं य: प्रभाते नर: शूलपाणे: पठेत्सर्वदा भर्गभावानुरक्त: ।
सपुत्र धनं धान्यमित्रं कलत्रं विचित्र: समासाद्य मोक्षं प्रयाति ॥ ९ ॥
इति श्रीशिवाष्टकं सम्पूर्णम्
 
*********************
 
हिमालयकृतस्तोत्रम्
श्रीगणेशाय नम: ॥ हिमालय उवाच ॥
त्वं ब्रह्मा सृष्टिकर्ता च त्वं विष्णु: परिपालक: ।
त्वं शिव: शिवदोऽनंत: सर्वसंहारकारक: ॥ १ ॥
त्वमीश्‍वरो गुणातीतो ज्योतिरूप सनातन: ।
प्रकृत: प्रकृतीशश्‍च प्राकृत: प्रकृते पर: ॥ २ ॥
नानारूपविधाता त्वं भक्तानां ध्यानहेतवे ।
येषु रूपेषु यत्प्रीतिस्तत्तद्रूपं बिभर्षि च ॥ ३ ॥
सूर्यस्त्वं सृष्टिजनक आधार: सर्वतेजासाम् ।
सोमस्त्वं सस्यपाता च सततं शीररश्मिना ॥ ४ ॥
वायुस्त्वं वरुणत्वं च विद्वांश्‍च विदुषां गुरु: ।
मृत्युञ्जयो मृत्युमृत्यु: कालकालो यमांतक: ॥ ५ ॥
वेदस्त्वं वेदकर्ता च वेदवेदांगपारग: ।
विदुषां जनकस्त्वं च विद्वांश्‍च विदुषं गुरु ॥ ६ ॥
मंत्रस्त्वं हि जपस्त्वं हि तपस्त्वं तत्फलप्रद: ।
वाक् त्वं वागधिदेवी त्वं तत्कर्ता तत्‍गुरु स्वयम् ॥ ७ ॥
अहो सरस्वतीबीजं कस्त्वां स्तोतुमिहेश्‍वर: ।
इत्येवमुक्त्वा शैलेन्द्रस्तस्थौधृत्वा पदांब्रुजम् ॥ ८ ॥
तत्रोवास तमाबोध्य चावरुह्यवृषाच्छिव: ।
स्तोत्रमेतन्महापुण्यं त्रिसंध्यं य: पठेन्नर: ॥ ९ ॥
मुच्यते सर्वपापेभ्यो भयेभ्यश्‍च भवार्णवे ।
अपुत्रो लभते पुत्रं मासमेकं पठेद्यपि ॥ १० ॥
भार्याहीनो लभेद्भार्या सुशीलां सुमनोहराम्‍ ।
चिरकालगतं वस्तु लभते सहसा ध्रुवम् ॥ ११ ॥
राज्यभ्रष्टो लभेद्राज्यं शंकरस्य प्रसादत: ।
कारागारे श्‍मशाने च शत्रुगस्तेऽतिसंकटे ॥ १२ ॥
नगभीरेऽतिजलाकीर्णे भग्नपोते विषादने ।
रणमध्ये महीभीते हिंस्त्रजन्तुसमन्विते ॥ १३ ॥
सर्वतो मुच्यते स्तुत्वा शंकरस्य प्रसादत: ॥ १४ ॥
इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे हिमालयकृतं शिवस्तोत्रम्
 
*********************
असितकृतशिवस्तोत्रम्
श्रीगणेशाय नम: । असित उवाच ॥
जगद्‌गुरो नमस्तुभ्यम शिवाय शिवदाय च ।
योगींद्राणां च योगींद्र गुरूणां गुरवे नम: ॥ १॥
मृत्योमृत्युस्वरूपेण मृत्युसंसाखण्डन ।
मृत्योरीश मृत्युबीज मृत्युंजय नमोऽस्तु ते ॥ २ ॥
कालरूपं कलयतां कालकालेश कारण ।
कालादतीत कालस्थ कालकाल नमोऽस्तु ते ॥ ३ ॥
गुणातीत गुणाधार गुणबीज गुणात्मक ।
गुणीश गुणिनां बीज गुणिनां गुरवे नम: ॥ ४ ॥
ब्रह्मस्वरूप ब्रह्मज्ञ ब्रह्मभावे च तत्पर ।
ब्रह्मबीजस्वरूपेण ब्रह्मबीज नमोऽस्तु ते ॥ ५ ॥
इति स्तुत्वां शिवं नत्वा पुरस्तस्थौ मुनीश्‍वर: ।
हीनवत्साश्रुनेत्रश्‍च य: पठेत् । वर्षमेकं हविष्याशी शंकरस्य महात्मन: ॥ ७ ॥
स लभेद्वैष्णवं पुत्रं ज्ञानिनं चिरजीविनम् ।
भवेद्धनाढ्यो दु:खी च मूको भवति पण्डित: ॥ ८ ॥
अभार्यो लभते भार्यां सुशीलां च पतिव्रताम् ।
इह लोके सुखं भुक्त्वा यात्यंते शिवसन्निधम् ॥ ९ ॥
इदं स्तोत्रं पुरा दत्तं ब्रह्मणा च प्रचेतसे ।प्रचेतसा स्वपुत्रायासिताया दत्तमुत्तमम् ॥ १० ॥
इतिश्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे असिकृतशिवस्तोत्रम् ।
 
 
*********************
चन्द्रशेखराष्टकम्
श्रीगणेशाय नम: ॥
चंद्रशेखर चंद्रशेखर चंद्रशेखर पाहिमाम् । चंद्रशेखर चंद्रशेखर चंद्रशेखर रक्ष माम् ॥ १ ॥
रत्‍नसानुशरासनं रजताद्रिश्रृंगनिकेतनं सिंजिनीकृतपन्नगेश्‍वरमच्युताननसायकम् । क्षिप्रदग्धपुरत्रयं त्रिदिवालयैरभिवंदितं चंद्रशेखरमाश्रये मम किं करिष्यति वै यम: ॥ २ ॥
पंचपादपपुष्पगंधपदांबुजद्वयशोभितं भाललोचन जातपावकदग्धमन्मथविग्रहम् । भस्मदिग्धकलेवरं भवनाशनं भवमव्ययं चंद्रशेखरमाश्रये० ॥ ३ ॥
मत्तवारणमुख्यचर्मकृतोत्तरीयमनोहरं पंकजासनपद्मलोचनपूजितांघ्रिसरोरुहम् । देवसिंधुतरंगसीकरसिक्‍तशुभ्रजटाधरं चंद्रशेखर० ॥ ४ ॥
यक्षराजसखं भगाक्षहरं भुजंगविभूषणं शैलराजसुता परिपरिष्कृतचारुवामकलेवरम् । क्ष्वेडनीलगलं परश्‍वधारिणं मृगधारिणं चंदशेखर० ॥ ५ ॥
कुण्डलीकृतकुण्डलेश्‍वरकुण्डलं वृषवाहनं नारदादिमुनीश्‍वरस्तुतवैभवं भुवनेश्‍वरम् । अन्धकांतकमाश्रितामरपादपं शामनांतकं चंद्रशेखर० ॥ ६ ॥
भेषजम भवरोगिणामखिलापदामहारिणं दक्षयज्ञविनाशनं त्रिगुणात्मकं त्रिविलोचनम् । मुक्तिभुक्तिफलप्रदं सकलाघसंघनिबर्हणं चंद्र्शेखर० ॥ ७ ॥
भक्तवत्सलमर्चितं निधिमक्षयं हरिदंबरं सर्वभूतपतिं परात्परमप्रमेयमनुत्तमम्‍ । क्रीडयंतमहर्निशं गणनाथयूथसमन्वितं चंद्रशेखर० ॥ ९ ॥
मृत्युभीतमृकंडसूनुकृतस्तवं शिवसंनिधौ यत्र कुत्र च य: पठेन्नहि तस्य मृत्युभयं भवेत् । पूर्णमायुररोगितामखिलार्थसम्पदमादरं चंद्रशेखर एव तस्य ददाति मुक्तिमयत्‍नत: ॥ १० ॥
इति श्रीचन्द्रशेखराष्टकस्तोत्र संपूर्णम् ।

******************************
*********************
निर्वाणदशकम्
श्रीगणेशाय नम: ॥
नभूमिर्न तोयं न तेजो न वायुर्न खं नेन्द्रियं वा न तेषां समूह: । अनैकांतिकत्वात्सुषुप्त्येकसिद्धस्तदेकोऽवशिष्ट: व: केवलोऽहम् ॥ १ ॥
न वर्णा न वर्णाश्रमाचारधर्मा न मे धारणाध्यानयोगादयोऽपि ।
अनात्माश्रयोऽहं ममाध्यासहानात्तदेकोवशिष्ट: शिव: ॥ २ ॥
न मता पिता वा न देवा न लोका न व्देआ न यज्ञा न तीर्थं ब्रुवंति ।
सुषुप्तौ निरस्तातिशून्यात्मकत्वात्तदेको० ॥ ३ ॥
न सांख्यं न शैवं न तत्पांचरात्रं न जैनं न मीमांसकादेर्मतं वा ।
विशिष्टानुभूत्या विशुद्धात्मकत्वात्तदेको० ॥ ४ ॥
न शुक्ललं न कृष्णं रक्‍तं न पीतं न पीनं न कुब्जं न ह्रस्वं न दीर्घम् ।
अरूपं तथा ज्योतिराकारकत्वात्तदेको ० ॥ ५ ॥
न जाग्रन्न मे स्वप्नको वा सुषुप्तिर्न विश्‍वो न वा तैजस: प्राज्ञको वा । अविद्यात्मकत्वात्रयाणां तुरीयं तदेको० ॥ ६ ॥
न शास्ता न शास्त्रं न शिष्यो न शिक्षा न च त्वं न चाहं न चायं प्रपञ्च: । स्वरूपावबोधाद्विकल्पासहिष्णुस्तदेको० ॥ ७ ॥
न चोर्ध्वं न चाधो न चांतर्न बाह्यं न मध्यं न तिर्यङ न पूर्वा परादिक्‍ । वियव्द्यापकत्वादखडैकरूपस्तदेको० ॥ ८ ॥
अपिव्यापकत्वादितत्त्वात्प्रयोगात्स्वत: सिद्धभावादनन्याश्रयत्वात् ।
जगत्तुच्छमेतत्समस्तं तदन्यस्तदेको० ॥ ९ ॥
न चैकंतदन्यद्‍द्वितीयं कुत; स्यान्न चाकेवलत्वं न वा केवलत्वम् ।
न शून्यं न चाशून्यमद्वैतकत्वात् कथं सर्ववेदांतसिद्धं ब्रवीमि ॥ १० ॥
इति श्रीमच्छंकराचार्यविरचितं निर्वाणदशकस्तोत्रं संपूर्णम् ।
 
************************* 
प्रदोषस्तोत्राष्टकम्
श्रीगणेशाय नम: ॥
सत्यं ब्रवीमि परलोकहितं ब्रवीमि सारम ब्रवीम्युपनिषद्ध दयं ब्रवीमि ॥ संसारमुल्बणमसारमवाप्य जंतो: सारोयमीश्‍वरपदांबुरुहस्य सेवा ॥ १ ॥
ये नार्चयंति गिरिशं समये प्रदोषे ये नार्चितं शिवमपि प्रणमंति चान्ये ।
एतत्कथां श्रुति पुटैर्न पिबंति मूढास्ते जन्मजन्मसु भवंति नरा दरिद्रा: ॥ २ ॥
ये वै प्रदोषसमये परमेश्‍वरस्य कुर्वंत्यनन्यमनसोंघ्रिसरोजपूजाम् ।
नित्यं प्रवृद्धधन धान्यकलत्रपुत्रसौभाग्यसंपदधिकास्त इहैव लोके ॥ ३ ॥
कैलास शैलभुवने त्रिजगज्जनित्रीं गौरीं निवेश्य कनकाचितर‍नपीठे ।
नृत्यं विधातुमभिवांछति शूलपाणौ देव: प्रदोषसमये न भजंति सर्वे ॥ ४ ॥
वाग्देवी धृतवल्लकी शतमखो वेणुं दधतपद्मजस्तालोन्निद्रकरो रमा
भगवतीगेयप्रयोगान्विता ।
विष्णु: सांद्रमृदंगवादनपटुर्देवा: समंतास्थिता: सेवन्ते तमनु प्रदोषसमये देवं
मृडानीपतिम् ॥ ५ ॥
गन्धर्वयक्षपतगोरगसिद्धसाध्यविद्याधरामरवराप्सरसां गणाश्‍च येऽन्ये ।
त्रिलोकनिलया: सहभूतवर्गा: प्राप्ते प्रदोषसमये हरपार्श्वसंस्था ॥ ६ ॥
अत: प्रदोषे शिव एक एव पूज्योऽथ नान्ये हरिपद्मजाद्या: ।
तस्मिन्महेशेन विधिनेज्यमाने सर्वे प्रसीदंति सुराधिनाथा: ॥ ७ ॥
एष ते तनय: पूर्वजन्मनि ब्राह्मणोत्तम: । प्रतिग्रहैर्वयो निन्ये न दानाद्यै: सुकर्मभि: ॥ ८ ॥
अतो दारिद्र्यमापन्नपुत्रस्ते द्विजभामिनि । तद्दोष परिहारार्थं शरणं यातु शंकरम् ॥ ९ ॥
इति श्रीस्कंदपुराणे प्रदोषस्तोत्राष्टकं सम्पूर्णम् ।
 
************************* 
 
शिवनामावल्यष्टकम्
श्रीगणेशाय नम: ॥
हे चन्द्रचूड मदनांतक शूलपाणे स्थाणो गिरीश गिरिजेश महेश शंभो । भूतेश भक्तभयसूदन मामनाथं संसारदु:खहगहनाज्जगदीश रक्ष ॥ १ ॥
हे पार्वतीह्रदयवल्लभ चंद्रमौले भूताधिप प्रमथनाथ गिरीशनाथ ।
हे वामदेव भव रुद्र पिनाकपाणे संसार० ॥ २ ॥
हे नीलकण्ठ वृषभध्वज पञ्चवक्र लोकेश शेषवलय प्रमथेश शर्व ।
हे धूर्जटे पशुपते गिरिजापते मां संसार० ॥ ३ ॥
हे विश्‍वनाथ शिवशंकर देवदेव गङाधर प्रमथनायक नंदिकेश ।
बाणेश्‍वरांधकरिपोहर लोकनाथ संसार० ॥ ४ ॥
वाराणसीपुरपते मणिकर्णिकेश वीरेश दक्षमखकाल विभो गणेश ।
सर्वज्ञ सर्वह्रदयैकनिवास नाथ संसार० ॥ ५ ॥
श्रीमन्महेश्‍वर कृपामय हे दयालो हे व्योकमेश शितिकंठ गणाधिनाथ ।
भस्मांगराग नृकपालकलपमाल संसार० ॥ ६ ॥
कैलासशैलविनिवास वृषाकपे हे मृत्यञ्जय त्रिनयन त्रिजगन्निवास ।
नारायणप्रिय मदापह शक्तिनाथ संसार० ॥ ७ ॥
विश्वेश विश्वभवनाशित विश्वरूप विश्वात्मकत्रिभुवनैकगुणाभिवेश ।
हे विश्ववंद्य करुणामय दीनबंधो संसार० ॥ ८ ॥
गौरीविलासभुवनाय महेश्‍वराय पंचाननाय शरणागतकल्पकाय ।
शर्वाय सर्वजगतामधिपाय तस्मै दारिद्र्य दु:खदहनाय नम: शिवाय ॥ ९ ॥
इति श्रीमच्छंकराचार्य विरचितं शिवनामावल्यष्टकं संपूर्णम्
 
 
************************* 
विश्‍वनाथाष्टकम्
श्रीगणेशाय नम: ॥
गङ्गातरङ्गरमणीयजटाकलापं गौरीनिरंतरविभूषितवामभागम् ।
नारायणप्रियमजंगमदापहारं वाराणसीपुरपतिं भज विश्‍वनाथम् ॥ १ ॥
वाचामगोचरमनेकगुणस्वरूपं वागीशविष्णुसुरसेवितपादपीठम् ।
वामेनविग्रहवरेण कलत्रवंतं वाराणसी० ॥ २ ॥
भूताधिपं भुजगभूषणभूषितांगं व्याघ्राजिनांबरधरंजटिलं त्रिनेत्रम् । पाशांकुशाभयवरप्रद्शूलपाणिं वाराणसी० ॥ ३ ॥
शीतांशुशोभितकिरीटविराजमानं भालेक्षणानलविशोषितपंचबाणम् ।
नागाधिपारचित भासुरकर्णपूरं वाराणसी० ॥ ४ ॥
पञ्चाननं दुरितमत्तमतङ्गजानां नागान्तकं दनुजपुंगवपन्नगानाम् ।
दावानलं मरणशोकजराटवीनां वाराणसी० ॥ ५ ॥
तेजोमयं सगुणनिर्गुणमदितीयमानंदकंदमपराजितमप्रमेयम् ॥
नागात्मकं सकल निष्कलमात्मरूपं वाराणसी० ॥ ६ ॥
आशां विहाय परिह्रत्य परस्य निंदां पापे रतिं च सुनिर्वाय मन: समाधौ ।
आदाय ह्रत्कमलमध्यगतं परेशं वाराणसी० ॥ ७ ॥
रागादिषोषरहितं स्वजनानुरागवैराग्यशांतिनिलयंगिरिजासहायम् । माधुर्यधैर्यसुभगंगरलाभिरामं वाराणसी० ॥ ८ ॥
वाराणसीपुरपते: स्तवनं शिवस्य व्याख्यातमष्टकमिदं पठते मनष्य: ॥
विद्यां श्रियं विपुलसौख्यमनंतकीर्ति संप्राप्य देहविलये लभते च मोक्षम् ॥ ९ ॥
विश्‍वनाथाष्टकमिदं य: पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥ १० ॥
इति श्रीव्यासकृतं विश्‍वनाथाष्टकं संपूर्णम् ।
 
 
************************* 
 
वेदसारशिवस्तव:
श्रीगणेशाय नम: ॥
पशूनां पतिं पापनाशं परेशं गजेन्द्रस्यकृत्तिं वसानं वरेण्यम् । जटाजूटमध्ये स्फुरद्‍गांगवारि महादेवमेकं स्मरामि स्मरामि ॥ १ ॥
महेशं सुरेशं सुरारातिनाशं विभुं विश्वनाथं विभूत्यङ्गभूषम् ।
विरूपाक्षमिंद्वर्कवह्नित्रिनेत्रं सदानंद मीडे प्रभुं पञ्चवक्रम् ॥ २ ॥
गिरीशं गणेशं गले नीलकर्णं गवेंद्राधिरूढं गुणातीतरूपम् ।
भवं भास्वरं भस्मना भूषितांगं भवानीकलत्रं भजे पञ्चवक्रम ॥ ३ ॥
शिवाकांत शम्भो शशांकार्धमौले महेशान शूलिन् जटाजूटधारिन ।
त्वमेको जगव्द्यापको विश्‍वरूप प्रसीद प्रसीद प्रभो पूर्णरूप ॥ ४ ॥
परात्मानमेकं जगद्वीजमाद्यं निरीहंनिराकारमोंकारवेद्यम् ।
यतो जायते पाल्यते येन विश्‍वं तमीशं भजे लीयते यत्र विश्‍वम् ॥ ५ ॥
न भूमिर्न चापोन वह्निर्न वायुर्न चाकाशमास्ते न तन्द्रा न निन्द्रा ।
न ग्रीष्मो न शीतं न देशो न वेषो न यस्यास्ति मूर्तिस्त्रिमूर्ति तमीडे ॥ ६ ॥
अजं शाश्‍वतं कारणं कारणानां शिवं केवलं भासकं भासकानाम् ।
तुरीय तम: पारमाद्यंतहीनं प्रपद्ये परं पावन द्वैतहीनम् ॥ ७ ॥
नमस्ते नमस्ते प्रभो विश्‍वमूर्ते नमस्ते नमस्ते चिदानंदमूर्ते ।
नमस्ते नमस्ते तपो योगगम्य नमस्ते नमस्ते श्रुतिज्ञानगम्य ॥ ८ ॥
प्रभो शूलपाणे विभो विश्‍वनाथ महादेव शंभो महेशत्रिनेत्र ।
शिवाकांत शांत स्मरारे पुरारे त्वदन्यो वरेण्यो न मान्यो न गण्य: ॥ ९ ॥
शंभो महेश करुणामय शूलपाणे गौरीपते पशुपते पशुपाशनाशिन् ।
काशीपते करुणया जगदेतदेकस्त्वं हंसिपासि विदधासि महेश्‍वरोऽपि ॥ १० ॥
त्वत्तो जगद्भवति देव भव स्मरारे त्वय्येव तिष्ठति जगन्मृड विश्वनाथ ।
त्वय्येव गच्छति लयं जगदेतदीश लिङ्गात्मकं हर चराचरविश्वरूपिन् ॥ ११ ॥
इति मच्छंकराचार्य विरचितं वेदसारशिवस्तोत्रं संपूर्णम् ।

************************* 

लिंगाष्टकम्
श्रीगणेशाय नम: ॥
ब्रह्ममुरारिसुरार्चितलिंगं निर्मलभाषितशोभितलिंगम् ॥
जन्मजदु:खविनाशकलिंगं तत्प्रणमामि सदाशिवलिंगम् ॥ १ ॥
देवमुनिप्रवरार्चितलिंगं कामदहं करुणाकरलिंगम् ।
रावणदर्प विनाशनलिंगं तत्प्र० ॥ २ ॥
सर्वसुगंधिसुलेपितलिंगं बुद्धिविवर्धनकारणलिंगम् ।
सिद्धसुरासुरवंदितलिंगं तत्प्र० ॥ ३ ॥
कनकमहामणिभूषितलिंगं फणिपतिवेष्टितशोभितलिंगम् ।
दक्षसुयज्ञविनाशलिंगं तत्प्र० ॥ ४ ॥
कुंकुमचन्दनलेपितलिंगं पंकजहारसुशोभितलिंगम् ।
संचितपापविनाशनलिंगं तत्प्र० ॥ ५ ॥
देवगणार्चितसेवितलिंगं भावैर्भक्तिभिरेव च लिंगम् ।
दिनकरकोटिप्रभाकरलिंग तत्प्र० ॥ ६ ॥
अष्टदलोपरि वेष्टितलिंग सर्वसमुद्भवकारणलिंगम् ।
अष्टदरिद्रविनाशितलिंगं तत्प्र० ॥ ७ ॥
सुरगुरुसुरवरपूजितलिंगं सुरवनपुष्पसदार्चितलिंगम् ।
परात्परं परमात्मकलिंगं तत्प्र० ॥ ८ ॥
लिंगाष्टकमिदं पुण्यं य: पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥ ९ ॥
इति श्रीलिंगाष्टकस्तोत्रं संपूर्णम्
 
******************
 
पशुपत्यष्टकम्
श्रीगणेशाय नम: ॥
पशुपतींद्युपतिं धरणीपतिं भुजगलोकपतिं च सतीपतिम् ।
प्रणतभक्तजनार्तिहरं परं भजत रे मनुजा गिरिजापतिम् ॥ १ ॥
न जनको जननी न च सोदरो न तनयो न च भूरिबलं कुलम् ।
अवति कोऽपि न कलवशंगतं भजत रे मनुजा गिरजापतिम् ॥ २ ॥
मुरजडिं डिमवाद्यविलक्षणं मधुरपंचमनादविशारदम् ।
प्रथम भूतगनैरपि सेवितं भजत रे मनुजा० ॥ ३ ॥
शरणदं सुखदं शरणान्वितं शिव शिवेति शिवेति नुतं नृणाम् ॥
अभयदं करुणावरुणालयं भजत रे मनुजा० ॥ ४ ॥
नरसिरोरचित्तं मणिकुंडलं भुजगहारमुदं वृषभध्वजम् ।
चितिरजोधवलीकृतविग्रहं भजत र म० ॥ ५ ॥
मखविनाशकरं शशिशेखरं सततमध्वरभाजिकफलप्रदम् ।
प्रलयदग्धसुरासुरमानवं भजत रे म० ॥ ६ ॥
मदमपास्य चिरंह्रदि संस्थितं मरणजन्मजराभयनीडितम् ।
जगदुदीक्ष्य समीपभयाकुलं भजत रे मनुजा० ॥ ७ ॥
हरिविरंचिसुराधिपपूजितं यमजनेशधनेशनमस्कृतम् ।
त्रिनयनं भुवनत्रितयाधिपं भजत रे म० ॥ ८ ॥
पशुपतेरिदमष्टकमद्‍भुतं विरचितं पृथिवीपति सूरिणा ।
पठति संश्रृणुते मनुज: सदा शिवपुरीं वसते लभते मुदम् ॥ ९ ॥
इति श्रीपशुपत्यष्टकं सम्पूर्णम् ।
 
 
******************
शिवस्तुति:
श्रीगणेशाय नम: ॥
स्फुटं स्फटिकसप्रभंस्फुटितहारकश्रीजटं शशांकदलशेखरं कपिलफुल्लनेत्रत्रयम् । तरक्षुवरकृत्तिमद्‍भुजगभूषणं भूमिमत्कदा नु शितिकंठ ते वपुरवेक्षते वीक्षणम् ॥१॥
त्रिलोचन विलोचने लसति ते ललामायितेस्मरोनियमघस्मरोनियमिनामभूद्भस्मसात्
स्वभक्तिलतया वशीकृतवती सतीयं सती स्वभक्तवशतो भवानपि वशी प्रसीद प्रभो ॥ २ ॥
महेश महितोऽसि तत्पुरुष पूरुषाग्र्योभवानघोर रिपुघोर तेऽनवम
वामदेवाञ्जलि: । नम:सपदि जातवे त्वमिति पंचरूपोचितप्रपञ्चचयपचवृन्मम मनस्तमस्ताडय ॥ ३ ॥
रसाघनरसानलानिलावियद्विवस्वदिधुप्रयष्ट्टषु निविष्ट मित्यज भजामि मूर्त्यष्टकम् । प्रशांतमुत भीषणं भुवनमोहनं चेत्यहो वपूंषि गुणपूंषि तेऽहमहमात्मनोऽहं भिदे ॥ ४ ॥
विमुक्ति परमाध्वनां तव षडध्वनामास्पदं पदं निगमवेदिनो जगति वामदेवादय: । कथञ्चिदुपशिक्षिता भगवतैव संविद्रते वयं तु विरलान्तरा: कथमुमेश तन्मन्महे ॥ ५ ॥
कठोरितकुठारया ललितशूलया वाहया रणड्डमरुणा स्फुरद्धरिणयासखट्वाङ्गया । चलाभिरचलाभिरप्यगणि ताभिरुन्नृत्यतिश्‍चतुर्दश जगंति ते जयजयेत्ययुर्विस्मयम् ॥ ६ ॥
पुरा त्रिपुररंधनं विविधदैत्यविध्वंसनं पराक्रमपरंपराअपि परा नते विस्मय: । अमर्षिबलहर्षितक्षुइतवृत्तनेत्रोज्ज्वलज्ज्वलज्ज्वलनहेलया शलभितं हि लोकत्रयम् ॥ ७ ॥
सह्स्रनयनो गुह: सहसहस्ररश्मिर्विधुर्बुहस्पतिरुतप्पति: ससुरसिद्धविद्याधरा: । भवत्पदपरायणा: श्रियामिमां ययु: प्रार्थितां भवान् सुरतरुर्भृशं शिव शिवां शिवावल्लभ ॥ ८ ॥
तव प्रियतमादितिप्रियतमं सदैवांतरं पयस्युपहितं भृतं स्वयमिव श्रियोवल्लभम् ।
विबुध्य लघुबुद्धय: स्वपरपक्षलक्ष्यायितं पठंति हिलुठंति ते शठह्रद:शुचा शुंठिता ॥ ९ ॥
निवासनिलयोचित्ता तव शिरस्ततिर्मालिका कपालमपि ते करे त्वमशिवोऽस्यनन्तर्धियाम् । तथापि भवत: पदं शिवशिवेत्यदो जल्पतामकिञ्चन न किञ्चन वृजिनमस्ति
भस्मीभवेत् ॥ १० ॥
त्वमेव किल कामधुक्‍ सकल काममापूरयन् सदात्रिनयनो भवान् वहति चार्चिनेत्रोद्भवम् । विषं विषधरान् दधत् पिबसि तेन चानन्दवान्विरुद्धचरितोचिता जगदधीश ते
भिक्षुता ॥ ११ ॥
नम: शिव शिवाशिवशिवशिवार्थकृत्ताशिवं नमो हरहराहराहरहरान्तरीं मे दृशम् । नमोभवभवाभवप्रभवभूतये मे भवान्नमो मृड नमो नमो नम उमेश
तुभ्यं नम: ॥ १२ ॥
सतां श्रवपद्धतिं सरतु सन्नतोक्‍तेत्यसौ शिवस्य करुणांकुरात्प्रतिकृतात्सदा सोचिता । इति प्रथितमानसो व्यधित नाम नारायण: शिवस्तुतिमिमां शिवांलिकुचिसूरिसूनु: सुधी: ॥ १३ ॥
इति श्रीमल्लिकुचिसूरिसूनुनारायणपंडिताचार्यविरचिता शिवस्तुति:संपूर्णा ।
 
******************
द्वादशज्योतिर्लिंङ्गस्तोत्रम्
 
श्रीगणेशाय नम: ॥
सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मय चन्द्रकलावतंसम् ।
भक्तिप्रदानायकृपावतीर्णं ते सोमनाथं शरणं प्रपद्ये ॥ १ ॥
श्रीशैलसंगे विबुधातिसंगे तुलाद्रितुअङेऽपि मुदावसंतम् ।
तमर्जनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम् ॥ २ ॥
अवन्तिकायां विहितावतरंमुक्तिप्रदानाय च सज्जनानाम् ।
अकालमृत्यो:परिरक्षणार्थं वंदे महाकालमहं सुरेशम् ॥ ३ ॥
कावेरिकानर्मदयो:पवित्रे समागमे सज्जनतारणाय ।
सदैव मांधातृपुरे वसंतमोङ्कारमीशं शिवमेकमीडे ॥ ४ ॥
पूर्वोत्तरे प्रज्ज्वलिकानिधाने सदावसन्तं गिरिजासमेतम् ।
सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ॥ ५ ॥
याम्ये सदंके नगरेऽतिरम्ये विभूषिताङ्गं विविधैश्च भोगै: ।
सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ॥ ६ ॥
महाऽद्रिपार्श्वे च तटे रमन्तं संपूज्यमानं सततं मुनींद्रै: ।
सुरासुरैर्यक्षमहोरगाद्यै: केदारमीशं शिवमेकमीडे ॥ ७ ॥
सह्याद्रिशीर्षे विमले वसन्तं गोदावरीतीरपवित्रदेशे ।
यद्दर्शनात्पातकमाशु नाशं प्रयाति तं त्र्यंबकमीशमीडे ॥ ८ ॥
सुताम्रपर्णीजलराशियोगे निबद्ध्य सेतुं विशिखैरसंख्यै: ।
श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यंनियतं नमामि ॥ ९ ॥
यं डाकिनीशाकिनीकासमाजे निषेव्यमाणं पिशिताशनैश्‍च ॥
सदैव भीमादिपदप्रसिद्धं तं शंकरं भक्तहितं नमामि ॥ १० ॥
सानन्दमानन्दवने वसन्तमानन्दकंदं हतपापवृन्दम् ।
वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥ ११ ॥
इलापुरे रम्य विशालकेऽस्मिन्समुल्लसंतं च जगद्वरेण्यम् ॥
वंदे महोदारतरस्वभावं धृष्णेश्वराख्यं शरणं प्रपद्ये ॥ १२ ॥
ज्योतिर्मयद्वादशलिंगकानां शिवात्मनां प्रोक्तमिदं क्रमेण ।
स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं पदालोक्य निजं भजेच्च ॥ १३ ॥
इति श्रीद्वादशज्योतिर्लिङ्गस्तोत्रम्
 
***************** 
 
रावणकृतशिवतांडवस्तोत्रम्
श्रीगणेशाय नम: ॥
जटाकटाहसंभ्रमभ्रमन्निलिंपनिर्झरीविलोल वीचिवल्लरी विराजमानमूर्धनि ।
धगद्धगद्धगज्ज्वलललाटपट्टपावके किशोरचन्द्रशेखरे रति:प्रतिक्षणं मम ॥ १ ॥
धराधरेन्द्रनंदिनी विलासबंधुबंधुर स्फुरद्दिगंतसंततिप्रमोदमानमानसे ।
कृपा कटाक्षधोरणीनिरुद्धदुर्धरापदि क्वचिच्चिदंबरे मनो विनोदमेतु वस्तुनि ॥ २ ॥
जटाभुजंगपिंगलस्फुरत्फणामणिप्रभा कदंबकुंकुमद्रवप्रलिप्तदिग्वधूमुखे ।
मदांधसिंधुरस्फुरत्त्वगुत्तरीयमेदुरे मनो विनोदमद्‍भुतं बिभर्तु भूतभर्तरि ॥ ३ ॥
सहस्रलोचनप्रभृत्यशेषलेखशेखर प्रसूनधूलिधोरणी विधूसरांघ्रिपीठभू: ।
भुजंगराजमालया निबद्धजाटजूटक श्रियै चिराय जायतां चकोरबन्धुशेखर: ॥ ४ ॥
ललाटचत्वरज्वलद्धनंजयस्फुलिंगभानिपीतपंचसायकं नमन्निलिंपनायकम् ॥
सुधामयूखलेखया विराजमानशेखरं महाकपालिसंपदेशिरोजटालमस्तु न: ॥ ५ ॥
करालभालपट्टिकाधगद्धगद्धगज्ज्वलद्धनंजयाधरीकृतप्रचंडपंचसायके ।
धराधरेंद्रनंदिनीकुचाग्रचित्रपत्रकप्रकल्पनैकशिल्पिनि त्रिलोचने मतिर्मम ॥ ६ ॥
नवीनमेघमंडली निरुधदुर्धरस्फुरत्कुहूनिशीथीनीतम: प्रबंधबंधुकंधर; ।
निलिंपनिर्झरीधरस्तनोतु कृत्तिसिंधुर: कलनिधानबंधुर: श्रियं जगद्‍धुरंधर: ॥ ७ ॥
प्रफुल्लनीलपंकजप्रपंचकालिमच्छाटाविडंबिकंठकंधरारुचिप्रबंधकंधरम् ।
स्मरच्छिदं पुरच्छिदं भवच्छिदं मखच्छिदं गजच्छिदांधकच्छिदं तमंतकच्छिदं भजे ॥ ८ ॥
अगर्वस सर्वमंगलाकलाकदंबमंजरी रसप्रवाहमाधुरी विजृंभणामधुव्रतम् ।
स्मरांतकं पुरांतकं भवांतक मखांतकं गजाम्तकांधकांतकं तमंतकांतकं भजे ॥ ९ ॥
जयत्वदभ्रविभ्रमभ्रमद्‍भुजंगमस्फुरद्धगद्धगद्विनिर्गमत्करा लभालहव्यवाट् ।
धिमद्धिमिद्धिमिध्वनन्मृदंगतुंगमंगल ध्वनिक्रमप्रवर्तित प्रचंडतांडव: शिव: ॥ १० ॥
दृषद्विचित्रतल्पयोर्भुजंगमौक्तिकस्त्रजोर्गरिष्ठरत्‍नलोष्ठयो: सुह्रद्विपक्षपक्षयो: ।
तृष्णारविंदचक्षुषो: प्रजामहीमहेन्द्रयो: समं प्रवर्तयन्मन: कदा सदाशिवं भजे ॥ ११ ॥
कदा निलिंपैर्झरीनिकुंजकोटरे वसन् विमुक्तदुर्मति: सदा शिर: स्थमंजलिं वहन् ।
विमुक्तलोललोचनोललामभाललग्नक: शिवेति मंत्रमुच्चरन्‍ कदा सुखी भवाम्यहम् ॥ १२ ॥
इदं हि नित्यमेवमुक्‍तमुत्तमोत्तमं स्तवं पठन्स्मरन्ब्रुवन्नरोविशुद्धिमेतिसंततम् ।
हरे गुरौ सुभक्तिमाशु याति नान्यथा गतिं विमोहनं हि देहिनां सुशंकरस्य चिंतनम् ॥ १३ ॥
पूजावसानसमये दशवक्रगीतं य: शंभुपूजनमिदं पठति प्रदोषे ।
तस्य स्थिरांरथगजेन्द्रतुरंगयुक्तां लक्ष्मींसदैव सुमुखीं प्रददाति शंभु: ॥ १४ ॥
इति श्रीरावणविरचितं शिवतांडवस्तोत्रं संपूर्णम्

***************** 

शिवापराधक्षमापनस्तोत्रम्
श्रीगणेशाय नम: ॥
आदौ कर्म प्रसंगात् कलयति कलुषं मातृकुक्षौस्थितंमांविण्मूत्रामेध्यमध्येक्वथयतिनितरांजाठरोजातवदा: ।
यद्यद्वै तत्र दु:खं व्यथयति नितरां शक्यते केन वक्‍तुं क्षंतव्यो मेऽपराध: शिवशिव शिवभो:श्रीमहादेवशम्भो ॥ १ ॥
बाल्ये दु:खा तिरेकान्मललुलितवपु: स्तन्यपान पिपासा नो शक्‍तिश्‍चेंद्रियेभ्यो भवगुनजनिता जंतवो मां तुदम्ति । 
नानारोगादिदु:खाद्रुदनपरवश: शंकरं न स्मरामि क्षंतव्यो मेऽपराध: शिव शिव० ॥ २ ॥
प्रौढोऽहं यौवनस्थो विषयविषधरै: पञ्चभिर्मर्मसंधौ दष्टो नष्टो विवेक: सुतधनयुवतिस्वादसौख्ये निषष्ण: ।
शैवीचिंताविहीनं मम ह्रदयमहोमानगर्वाधिरूढं क्षंतव्यो मेऽपराध: शिव शिव० ॥ ३ ॥
वार्धक्ये चेंद्रियाणां विगत गतिमतिश्‍चाधिदैवाधितापे: रोगैर्वियोगैस्त्वनवसितवपु: प्रौढिहीनं च दीनम् ।
मिथ्यामोहाभिलाषैर्भ्रमतिमम मनो धुर्जटेर्ध्यानशून्यं क्षंतव्यो मेऽपराध: शिव शिव० ॥ ४ ॥
नो शक्यं स्मार्तकर्म प्रतिपदगहनप्रत्यवायाकुलाख्यं श्रौत वार्ता कथं मे द्विजकुलविहिते ब्रह्ममार्गे सुसारे ।
ज्ञातो धर्मो विचारै: श्रवणमननयो: किं निदिध्यासितव्यं क्षंतव्यो मेऽपराध: शिव० ॥ ५ ॥
स्नात्वा प्रत्यूषकाले स्नपनविधि विधौ नाह्रतं गांगतोयं पूजार्थं वा कदाचिद्बहुतरगहनात्खंडबिल्वीदलानि ।
नानीता पद्ममाला सर्सि विकसिता गन्धपुष्पैस्त्वदर्थं क्षंतव्यो मेऽपराध: शिव शिव० ॥ ६ ॥
दुग्धैर्मध्वाज्ययुक्‍तैर्दधिसितसहितै:स्नापितं नैव लिंगं नो लिप्तं चंदनाद्यै: कनक विरचितं पूजितं न प्रसूनै: । 
धूपै:कर्पूरदीपैर्विविधरसयुतैर्नैव भक्ष्योपहारै: क्षंतव्यो मेऽपराध: शिव शिव० ॥ ७ ॥
ध्यात्वा चित्ते शिवाख्यं प्रचुरतरधनं नैव दत्तं द्विजेभ्यो हव्यं ते लक्षसंख्यैर्हुतवहवदने नार्पितं बीजमंत्रै: ।
तो तप्तं गांगतीरे व्रत जपनियमैरुद्रजाप्यैर्न वेदै: क्षंतव्यो मेऽपराध: शिव शिव० ॥ ८ ॥
स्थित्वा स्थाने सरोजे प्रशवमयमरूत्कुंडले सूक्ष्ममार्गे शांतेस्वांते प्रलीने प्रकटितविभवे ज्योतिरूपे पराख्ये ।
लिंगज्ञे ब्रह्मवाक्ये सकलतनुगत शंकरं न स्मरामि क्षंतव्योमेऽपराध: शिव शिव० ॥ ९ ॥
नग्नो नि:संगशुद्धस्त्रिगुणविरहितो ध्वस्तमोहांधकारो नासाग्रे न्यस्तदृष्टिर्विदितभवगुणो नैव दृष्ट: कदाचित् ।
उन्मन्याऽवस्थया त्वां विगतकलिमलं शंकरं न स्मरामि क्षंतव्यो मेऽपराध: शिव शिव० ॥ १० ॥
चन्द्रोद्भासिशेखरे स्मरहरे गंगाधरे शंकरे सर्पैर्भूषितकंठकर्णविवरे नेत्रोत्थवैश्‍वानरे ।
दंतित्व क्कृतसुंदरांबरधरे त्रैलोक्यसारे हरे मोक्षार्थं कुरु चित्तवृत्तिमखिलामन्यैस्तु किं कर्मभि; ॥ ११ ॥
किंवाऽनेन धनेन वाजिकरिभि: प्राप्तेन राज्येन किं किंवा पुत्रकलत्रमित्रपशुभिर्देहेन गेहेन किम् ।
ज्ञात्वैतत्क्षण भंगुरं सपदि रे त्याजं मनो दूरत: स्वात्मार्थं गुरुवाक्यतो भज भज श्रीपार्वतीवल्लभम् ॥ १२ ॥
आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनं प्रत्यायांतिगता: पुनर्न दिवसा: कालोजगद्भक्षक: ।
लक्ष्मीस्तोयतरंगभंगचपला विद्युच्चलं जीवितं तस्मान्मांशरणागतं शरणद त्वं रक्ष रक्षाधुना ॥ १३ ॥
करचरणकृतं वाक्कायजं कर्मजं वा श्रवणनयनजं वा मानसं वाऽपराधम् ।
विहितमविहितं वा सर्वमेतत्क्षमस्व जय जय करुणाब्धे श्रीमहादेव शंभो ॥ १४ ॥
इति श्रीमच्छंकराचार्य विरचितं शिवापराधक्षमापनस्तोत्रं सम्पूर्णम् ।
 
***************** 
शिवषडाक्षरस्तोत्रम्
श्रीगणेशाय नम: ॥
ॐ कारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिन: । कामदं मोक्षदं चैव ॐकाराय नमो नम: ॥ १ ॥
नमंतिऋषयो दवा नमंत्यप्सरसां गणा: । नरा नमंतिदेवेशं नकाराय नमो नम: ॥ २ ॥
महादेवं महात्मानं महाध्यानपरायणम् । महापापहरं देव मकाराय नमो नम: ॥ ३ ॥
शिवंशांतं जगन्नाथं लोकारककनुग्रहम् । शिवमेकपदं नित्यं शिकाराय नमो नम: ॥ ४ ॥
वाहनं वृषभो यस्य वासुकि: कंठभूषणम् । वामे शक्तिधरं देवं वकाराय नमो नम: ॥ ५ ॥
यत्र यत्र स्थितो देव: सर्वव्यापी महेश्वर : । यो गुरु सर्वदेवानां यकाराय नमो नम: ॥ ६ ॥
षडक्षरमिदं स्तोत्रं य: पठेच्छिवसंनिधौ । शिवलोकमवाप्नोति शिवेन सह मोदते ॥ ७ ॥
इति श्रीरुद्रयामले उममहेश्वरसंवादे शिवषडाक्षरस्तोत्रं संपूर्णम्
 
***************** 
शिवभुजंगप्रयातस्तोत्रम्
श्रीगणेशाय नम: ॥
गलद्दानगंडं मिलद्‍भृंगखण्डं चलच्चारुशुण्डं जगत्राणशौण्डम् ।
लसद्दंतकाण्डं विपद्भंगचंडं शिवप्रेमपिंडं भजे वक्रतुंडम् ॥ १ ॥
अनाद्यं तमाद्यं परं तत्त्वमर्थं चिदाकारमेकंतुरीयं त्वमेयम् ।
हरिब्रह्ममृग्यं परब्रह्मरूपं मनोवागतीतं मह: शैवमीडे ॥ ॥ २ ॥
स्वशक्त्यादिशक्त्यंतसिंहासनस्थं मनोहारि सर्वाङ्गरत्‍नादिभूषम् ।
जटाहींदुगङ्गास्थिशश्यर्कमौलिं परं शक्तिमित्रं नम: पंचवक्रम् ॥ ३ ॥
शिवेशानतत्पूरुषाघोरवामादिभिर्ब्रह्माभिर्ह्रन्मुखै: षड्‍भिरंगै: ।
अनौपम्यषट्‍त्रिंशतं तत्त्वविद्यामतीतं परं त्वां कथे वेत्ति को वा ॥ ४ ॥
प्रवालप्रवाहप्रभाशोणमर्धं मरुत्वन्मणिश्रीमह:श्याममर्धम् ।
गणस्यूतमेकं वपुश्‍चेकमंत: स्मरामि स्मरापत्तिसंपत्तिहेतुम् ॥ ५ ॥
स्वसेवासमायातदेवासुरेन्द्रा नमन्मौलिमंदारमालाभिषिक्‍तम् ।
नमस्यामि शम्भो पदांभोरुहं ते भवांभोधिपोतं भवानी विभाव्यम् ॥ ६ ॥
जगन्नाथ मन्नाथ गौरीसनाथ प्रपन्नानुकंपिन्विपन्नार्तिहारिन् ।
मह:स्तोममूर्ते समस्ते कबन्धो नमस्ते नमस्ते पुनस्ते नमोऽस्तु ॥ ७ ॥
महादेव देवेश देवादिदेव स्मरारे पुरारे यमारे हरेति ॥
ब्रुवाण:स्मरिष्यामि भक्त्या भवंतं ततो मे दयाशीलदेव प्रसीद ॥ ८ ॥
विरूपाक्ष विश्‍वेश विद्यादिकेश त्रयीमूल शंभो शिव त्र्यंबकत्वम् ।
प्रसीद स्मर त्राहि पश्यावपुष्य क्षमस्वाप्नुहीति क्षपा हि क्षिपाम: ॥ ९ ॥
त्वदन्य:शरण्य: प्रपन्नस्य नेति प्रसीद स्मरन्नेव हन्यास्तु दैन्यम६ ।
नचेत्ते भवद्भक्‍तंवात्सल्यहानिस्ततो मे दयालो दयां संनिधेहि ॥ १० ॥
अयं दानकालस्त्वहं दानपात्रं भवन्नाथ दातात्वदन्यं न याचे ॥
भवद्भक्तिमेव स्थिरां देहि मह्यं कृपाशील शंभो कृतार्थोऽस्मि तस्मात् ॥ ११ ॥
पशुं वेत्सि चेन्मां त्वमेवाधिरूढ: कलंकीर्ति वा मूर्ध्निधत्सेत्वमेव ।
द्विजिह्व: पुन: सोपि ते कंठभूषा त्वदङ्गीकृता: शर्व सर्वेऽपि धन्या: ॥ १२ ॥
न शक्नोमि कर्तुं परद्रोहलेशं कथं प्रीयसे त्वं न जाने गिरीश ।
तदाहि प्रसन्नोऽसि कस्यापि कांतासुतद्रोहिणो वा पितृद्रोहिणी वा ॥ १३ ॥
स्तुतिं ध्यानमर्चां यथावद्विधातुं भजन्नप्यजानन् महेशावलंबे ।
त्रसंतं सुतं त्रातुमग्र मृकंडोर्यमप्राणनिर्वापणं त्वत्पदाब्जम६ ॥ १४ ॥
अकंठेकलंकदनंगेभुजंगादपाणौकपालादभालेऽनलाक्षात् ।
अमौलौ शशांकादवामेकलत्रादहं देवमन्यं न मन्ये न मन्ये ॥ १५ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छंकराचार्य विरचितं
श्रीशिवभुजंगप्रयातस्तोत्रं संपूर्णम् ।
 
***************** 
शिवमानसपूजा
श्रीगणेशाय नम: ॥ रत्‍नै: कल्पितमासनंहिमजलै: स्नानं च दिव्यांबर नानारत्‍नविभूषितं मृगमदामोदाङ्कितं चन्दनम् । 
जातीचंपकबिल्वपत्ररचितं पुष्पं च धूपं तथा दीपं देव दयानिधे पशुपते ह्रत्कल्पितं गृह्यताम् ॥ १ ॥
सौवर्णे मणिखण्डरत्‍नरचिते पात्रं घृतं पायसं भक्ष्यं पञ्चविधं पयोदधियुतं रंभाफलं पायसम् ।
शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलं तांबूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥ २ ॥
छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलं वीणाभेरिमृदंग काहलकलागीतं च नृत्यं तथा ।
साष्टांग प्रणति: स्तुतिर्बहुविधा ह्येतत्समस्तं मया संकल्पेन समर्पितं तव विभो पूजां गृहाण प्रभो ॥ ३ ॥
आत्मा त्वं गिरिजा मति: सहचरा: प्राणा: शरीरं गृहं पूजा ते विषयोपभोगरचना निद्रा समाधिस्थित: ।
संचार: पदयो: प्रदक्षिणविधि: स्तोत्राणि सर्वा गिरो यद्यत्कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् ॥ ४ ॥
करचरणकृतं वाक्कायजं कर्मजं वा श्रवणनयनजं वा मानसं वाऽपराधम् ।
विहितमविहितं वा सर्वमेतत्क्षमस्व जयजय करुणाब्धे श्रीमहादेव शम्भो ॥ ५ ॥
इति श्रीशिवमानसपूजा समाप्त ।
 
***************** 
अथ शिवस्तोत्राणि
वेदांतेषु यमाहुरेकपुरुषं व्याप्य स्थितं रोदसी
यस्मिन्नीश्‍वर इत्यनन्यविषय: शब्दो यथार्थाक्षर: ।
अंतर्यश्‍च मुमुक्षुभिर्नियमितप्राणादिभिर्मृग्यते
स स्थाणु: स्थिरभक्‍तियोगसुलभो नि:श्रेयसायास्तु व: ॥
 
***************** 
 
शिवस्तोत्रम् 
निखिलभुवनजन्मस्थेमभङ्गप्ररोहाः
अकलितमहिमानः कल्पिता यत्र तस्मिन् ।
सुविमलगगनाभे ईशसंज्ञेऽप्यनीशे
मम भवतु भवेऽस्मिन् भासुरो भावबन्धः ॥१॥
 
निहतनिखिलमोहेऽधीशता यत्र रूढा
प्रकटितपरप्रेम्णा यो महादेवसंज्ञः ।
अशिथिलपरिरम्भः प्रेमरूपस्य यस्य
हृदि प्रणयति विश्वं व्याजमात्रं विभुत्वम् ॥२॥
 
वहति विपुलवातः पूर्वसंस्काररूपः
विदलति बलवृन्दं घूर्णितेवोर्मिमाला ।
प्रचलति खलु युग्मं युष्मदस्मत्प्रतीतं
अतिविकलितरूपं नौमि चित्तं शिवस्थम् ॥३॥
 
जनकजनितभावो वृत्तयः संस्कृताश्च
अगणनबहुरूपो यत्र चैको यथार्थः ।
शमितविकृतिवाते यत्र नान्तर्बहिश्च
तमहह हरमीडे चित्तवृत्तेर्निरोधम् ॥४॥
 
गलिततिमिरमालः शुभ्रतेजःप्रकाशः
धवलकमलशोभः ज्ञानपुञ्जाट्टहासः ।
यमिजनहृदिगम्यो निष्कलो ध्यायमानः
प्रणतमवतु मां सः मानसो राजहंसः ॥५॥
 
दुरितदलनदक्षं दक्षजादत्तदोषं
कलितकलिकलङ्कं कम्रकह्लारकान्तम् ।
परहितकरणाय प्राणप्रच्छेदप्रीतम्
नतनयननियुक्तं नीलकण्ठंनमामः ॥६॥
 
***************** 
 
श्री पर्वतीपरमेश्वरध्यानम्
ध्यायेन्निरामयं वस्तु सर्गस्थितिलयाधिकं ।
निर्गुणं निष्कलं नित्यं मनोवाचामगोचरम् ॥१॥
 
गंगाधरं शशिधरं जटामकुटशोभितं ।
श्वेतभूतित्रिपुण्ड्रेण विराजितललाटकम् ॥२॥
 
लोचनत्रयसंपन्नं स्वर्णकुण्डलशोभितं ।
स्मेराननं चतुर्बाहुं मुक्ताहारोपशोभितम् ॥३॥
 
अक्षमालां सुधाकुम्भं चिन्मयीं मुद्रिकामपि । पुस्तकं च
भुजैर्द्दिव्यैः दधानं पार्वतीपतिम् ॥४॥
 
श्वेताम्बरधरं श्वेतं रत्नसिंहासनस्थितं ।
सर्वाभीष्टप्रदातारं वटमूलनिवासिनम् ॥५॥
 
वामाङ्क्व् संस्थितां गौरीं बालार्कायुतसन्निभां ।
जपाकुसुमसाहस्रसमानश्रियमीश्वरीम् ॥६॥
 
सुवर्णरत्नखचितमकुटेन विराजितां ।
ललाटपट्टसंराजत्संलग्नतिलकाञ्चिताम् ॥७॥
 
राजीवायतनेत्रान्तां नीलोत्पलदलेक्षणां ।
संतप्तहेमरचित ताटङ्काभरणान्विताम् ॥८॥
 
ताम्बूलचर्वणरतरक्तजिह्वाविराजिताम् ।
पताकाभरणोपेतां मुक्ताहारोपशोभिताम् ॥९॥
 
स्वर्णकङ्कणसंयुक्तैः चतुर्भिर्बाहुभिर्युतां ।
सुवर्णरत्नखचित काञ्चीदामविराजिताम् ॥१०॥
 
कदलीललितस्तम्भसन्निभोरुयुगान्वितां ।
श्रिया विराजितपदां भक्तत्राणपरायणाम् ॥११॥
अन्योन्याश्लिष्टहृद्बाहू गौरीशंकरसंज्ञकं ।
सनातनं परंब्रह्म परमात्मानमव्ययम् ॥१२॥
 
सदा ध्यायामि जगतामीश्वरं परमेश्वरम् ।
 
***************** 

शिवजयजयकारध्यानस्तोत्रम्
स्फटिकप्रतिभटकान्त विरचितकलिमलशान्त ।
शिव शंकर शिव शंकर जय कैलासपते ॥१॥
 
गंगाधरपिंगलजट हृतशरणागतसङ्कट ।
शिव शंकर शिव शंकर जय कैलासपते ॥२॥
 
बालसुधाकरशेखर भाललसद्वैश्वानर ।
शिव शंकर शिव शंकर जय कैलासपते ॥३॥
 
पद्मदलायतलोचन दृढभवबन्धनमोचन ।
शिव शंकर शिव शंकर जय कैलासपते ॥४॥
 
मन्दमधुरहासवदन निर्जितदुर्लसितमदन ।
शिव शंकर शिव शंकर जय कैलासपते ॥५॥
 
सनकादिकवन्द्यचरण दुस्तरभवसिन्धुतरण ।
शिव शंकर शिव शंकर जय कैलासपते ॥६॥
 
लालितबालगजानन कलितमहापितृकानन ।
शिव शंकर शिव शंकर जय कैलासपते ॥७॥
 
सच्चिद्घनसुखसार लीलापीतमहागर ।
शिव शंकर शिव शंकर जय कैलासपते ॥८॥
 
गिरिजाश्लिष्टार्धतनो कल्पितगिरिराजधनो ।
शिव शंकर शिव शंकर जय कैलासपते ॥९॥
 
********************* 
 
शिवरक्षास्तोत्रम् 
चरितं देवदेवस्य महादेवस्य पावनम् ।
अपारं परमोदारं चतुर्वर्गस्यसाधनम् ॥१॥
 
गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् ।
शिवं ध्यात्वा दशभुजं शिवरक्षांपठेन्नरः ॥२॥
 
गंगाधरः शिरः पातु फालमर्धेन्दुशेखरः ।
नयने मदनध्वंसी कर्णौ सर्पविभूषणः ॥३॥
 
घ्राणं पातु पुरारातिः मुखं पातु जगत्पतिः ।
जिह्वां वागीश्वरः पातु कन्धरं शितिकन्धरः ॥४॥
 
श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः ।
भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक् ॥५॥
 
हृदयं शंकरः पातु जठरं गिरिजापतिः ।
नाभिं मृत्युंजयः पातु कटिं व्याघ्राजिनाम्बरः ॥६॥
 
सक्थिनी पातु दीनार्तशरणागतवत्सलः ।
ऊरू महेश्वरः पातु जानुनी जगदीश्वरः ॥७॥
 
जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः  ।
चरणौ करुणासिन्धुः सर्वांगानि सदाशिवः ॥८॥
 
एतां शिवबलोपेतां रक्षां यः सुकृती पठेत् ।
स भुक्त्वा सकलान् कामान् शिवसायूज्यमाप्नुयात् ॥९॥
 
ग्रहभूतपिशाचाद्याः त्रैलोक्ये विचरन्ति ये ।
दूरादाशु पलायन्ते शिवनामाभिरक्षणात् ॥१०॥
 
अभयङ्करनामेदं कवचं पार्वतीपतेः ।
भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत्त्रयम् ॥११ ॥
 
********************* 
शिवस्तोत्रम् (अगस्त्यकृतम्)
 
अद्य मे सफलं जन्म चाद्य मे सफलं तपः ।
अद्य मे सफलं ज्ञानं शंभो त्वत्पाददर्शनात् ॥१॥
 
कृतार्थोऽहं कृतार्थोऽहं कृतार्थोऽहं महेश्वर ।
अद्य ते पादपद्मस्य दर्शनात् भक्तवत्सल ॥२॥
 
शिवः शंभुः शिवः शंभुः शिवः शंभुः शिवः शिवः ।
इति व्याहरतो नित्यं दिनान्यायान्तु यान्तु मे ॥३॥
 
शिवे भक्तिः शिवे भक्तिः शिवे भक्तिर्भिवे भवे ।
सदा भूयात् सदा भूयात् सदा भूयात् सुनिश्चला ॥४॥
 
वयं धन्या वयं धन्या वयं धन्या जगत्त्रये ।
आदिदेवो महादेवो यदस्मत् कुलदैवतम् ॥५॥
 
हर शंभो महादेव विश्वेशामरवत्सल ।
शिवशंकर सर्वात्मन् नीलकण्ठ नमोऽस्तु ते ॥६॥
 
********************* 
नटराजध्यानम् 
सप्तार्णवपरिक्षिप्तां द्वीपैः सप्तभिरन्विताम् ।
पञ्चाशत्कॊटि विस्तीर्णां ध्यायेत्सर्वां सभां महीम् ॥१॥
 
तस्याश्च हृदयाम्भोजे मातृकाक्षरकेसरम् ।
ध्यायेदष्टदलं धीमान् महाहृदयमत्र च ॥२॥
 
तस्य मध्ये त्रिकोणे तु तरुणेन्दुशिखामणिम् ।
चारुचूडजटापाशं चलद्भोगीन्द्रकुण्डलम् ॥३॥
 
त्रिपुण्ड्रविलसत्फालं चन्द्रार्कानललोचनम् ।
वामभागस्थितां देवीं वीक्षयन्तमपांगतः ॥४॥
 
अधरोल्लङ्घनाकारसंजिहानस्मितांकुरम् ।
कस्तूरिकासितोद्दामकालकूटलसद्गलम् ॥५॥
 
महाडमरुवाद्यूद्‌र्ध्वदक्षपाणिसरोरुहम् ।
तदन्यकरपद्मान्तचलदुत्थितपावकम् ॥६॥
 
दक्षाधःकरपद्मेन हरन्तं प्राणिनां भयम् ।
विक्षिप्तान्यकरं तिर्यक् कुञ्चितेनाङ्घ्रिणाऽधमम् ॥७॥
 
वामेतरप्रकोष्ठान्तर्नृत्यत् फणधरेश्वरम् ।
कल्पब्रह्मकपालानां मालया लम्बमानया ॥८॥
 
स्वतन्त्रमात्मनो रूपं आचक्षाणं स्वभावतः
व्याघ्रचर्माम्बरधरं कटिसूत्रितपन्नगम् ।
दक्षपादाब्जविन्यासात् अधःकृततमोगुणम् ॥९॥
 
भस्मोद्धूलितसर्वांगं परमानन्दताण्डवम् ।
एवं ध्यायेत् पुरेशानं पुण्डरीकपुरेश्वरम् ॥१०॥
 
********************* 
शिवापराधक्षमापणस्तोत्रम् 
आदौ कर्मप्रसन्ङ्गात् कलयति कलुषं मातृकुक्षौ स्थितं माम्
विण्मूत्रामेध्यमध्ये क्वथयति नितरां जाठरो जातवेदाः ।
यद्यद्वै तत्र दुःखं व्यथयति नितरां शक्यते केन वक्तुम्
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शंभो ॥१॥
 
बाल्ये दुःखातिरेको मललुलितवपुः स्तन्यपाने पिपासा
नो शक्तश्चेन्द्रियेभ्यो भवगुणजनिताः जन्तवो मां तुदन्ति ।
नानारोगादिदुःखात् रुदनपरवशः शंकरं न स्मरामि
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शंभो ॥२॥
 
प्रौढोहं यौवनस्थो विषयविषधरैः पञ्चभिर्मर्मसन्धौ
दष्टो नष्टो विवेकः सुतधनयुवतिस्वादसौख्ये निषण्णः ।
शैवीचिन्ताविहीनं मम हृदयमहो मानगर्वाधिरूढं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शंभो ॥३॥
 
वार्धक्ये चेन्द्रियाणां विगतगतिमतिश्चाधिदैवादितापैः
पापैः रोगैर्वियोगैस्त्वनवसितवपुः प्रौढिहीनं च दीनम् ।
मिथ्यामोहाभिलाषैर्भ्रमति मम मनो धूर्जटेर्ध्यानशून्यं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शंभो ॥४॥
 
नो शक्यं स्मार्त कर्म प्रतिपदगहनप्रत्यवायाकुलाख्यं
श्रौते वार्ता कथं मे द्विजकुलविहिते ब्रह्ममार्गे सुसारे ।
नास्था धर्मे विचारः श्रवणमननयोः किं निदिध्यासितव्यं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शंभो ॥५॥
 
स्नात्वा प्रत्यूषकाले स्नपनविधिविधौ नाहृतं गाङ्गतोयं
पूजार्थं वा कदाचित् बहुतरगहनात् खण्डबिल्वीदलानि ।
नानीता पद्ममाला सरसिविकसिता गन्धपुष्पे त्वदर्थं
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शंभो ॥६॥
 
दुग्धैः मध्वाज्ययुक्तैर्दधिसितसहितैः स्नापितं नैव लिङ्गं
नो लिप्तं चन्दनाद्यैः कनकविरचितैः पूजितं न प्रसूनैः ।
धूपैः कर्पूरदीपैः विविधरसयुतैः नैव भक्ष्योपहारैः
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शंभो ॥७॥
 
ध्यात्वा चित्ते शिवाख्यम् प्रचुरतरधनं नैव दत्तं द्विजेभ्यो
हव्यं ते लक्षसंख्यैर्हुतवहवदने नार्पितं बीजमन्त्रैः ।
नो तप्तं गाङ्गतीरे व्रतजपनियमैः रुद्रजाप्यैर्न वेदैः
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शंभो ॥८॥
 
स्थित्वा स्थाने सरोजे प्रणवमयमरुत्कुण्डले सूक्ष्ममार्गे
शान्ते स्वान्ते प्रलीने प्रकटितविभवे ज्योतिरूपे पराख्ये ।
लिङ्गज्ञे ब्रह्मवाक्ये सकलतनुगतं शंकरं न स्मरामि
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शंभो ॥९॥
 
नग्नो निःसङ्गशुद्धस्त्रिगुणविरहितो ध्वस्तमोहान्धकारो
नासाग्रे न्यस्तदृष्टिर्विदितभवगुणो नैव दृष्टः कदाचित् ।
उन्मन्यावस्थया त्वां विगतकलिमलं शंकरं न स्मरामि
क्षन्तव्यो मेऽपराधः शिव शिव शिव भो श्री महादेव शंभो ॥१०॥
 
चन्द्रोद्भासितशेखरे स्मरहरे गङ्गाधरे शंकरे
सर्पैर्भूषितकण्ठकर्णविवरे नेत्रोत्थ वैश्वानरे
दन्तित्वक्कृतसुन्दराम्बरधरे त्रैलोक्यसारे हरे
मोक्षार्थं कुरु चित्तवृत्तिमखिलामन्यैस्तु किं कर्मभिः ॥११॥
 
किं वाऽनेन धनेन वाजिकरिभिः प्राप्तेन राज्येन किं
किंवा पुत्र-कलत्र-मित्र-पशुभिः देहेन गेहेन किम् ।
ज्ञात्वैतत् क्षणभङ्गुरं सपदि रे त्याज्यं मनो दूरतः
स्वात्मार्थं गुरुवाक्यतो भज भज श्रीपार्वतीवल्लभम् ॥१२॥
 
आयुर्नश्यति पश्यतां प्रतिदिनं याति क्षयं यौवनम्
प्रत्यायान्ति गताः पुनर्न दिवसाः कालो जगद्भक्षकः ।
लक्ष्मीस्तोयतरङ्गभङ्गचपला विद्युच्चलं जीवितम्
तस्मान्मां शरणागतं शरणद त्वं रक्ष रक्षाधुना ॥१३॥
 
करचरणकृतं वा कायजं कर्मजं वा
श्रवणनयनजं वा मानसं वाऽपराधम् ।
विहितमविहितं वा सर्वमेतत् क्षमस्व
जय जय करुणाब्धे श्रीमहादेव शंभो ॥१४॥
 
********************* 

शिवषडक्षरीस्तोत्रम् 
ओङ्कारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः ।
कामदं मोक्षदं तस्मात् ओङ्काराय नमो नमः ॥१॥
 
नमन्ति मुनयः सर्वे नमन्त्यप्सरसां गणाः ।
नरा नमन्ति देवेशं नकाराय नमो नमः ॥२॥
 
महत्तत्वं महादेवं महाज्ञानप्रदं परम् ।
महापापहरं देवं मकाराय नमो नमः ॥३॥
 
शिवं शान्तं जगन्नाथं लोकानुग्रहकारकम् ।
शिवमेकपदं नित्यं शिकाराय नमो नमः ॥४॥
 
वाहनं वृषभो यस्य वासुकिः कण्ठभूषणम् ।
वामे शक्तिधरो देवः वकाराय नमो नमः ॥५॥
 
यत्र यत्र स्थितो देवः सर्वव्यापी महेश्वरः ।
यो गुरुः सर्वदेवानां यकाराय नमो नमः ॥६॥
षडक्षरमिदं स्तोत्रं यः पठेच्छिवसन्निधौ ।
 
**************** 
दारिद्‌र्यदहनशिवस्तोत्रम् 
विश्वेश्वराय नरकार्णवतारणाय
कर्णामृताय शशिशेखरधारणाय ।
कर्पूरकान्तिधवलाय जटाधराय
दारिद्‌र्यदुःखदहनाय नमः शिवाय ॥१॥
 
गौरीप्रियाय रजनीशकलाधराय
कालान्तकाय भुजगाधिपकङ्कणाय ।
गङ्गाधराय गजराजविमर्दनाय
दारिद्‌र्यदुःखदहनाय नमः शिवाय ॥२॥
 
भक्तप्रियाय भवरोगभयापहाय
उग्राय दुर्गभवसागरतारणाय ।
ज्योतिर्मयाय गुणनामसुकृत्यकाय
दारिद्‌र्यदुःखदहनाय नमः शिवाय ॥३॥
 
चर्मांबराय शवभस्मविलेपनाय
भालेक्षणाय मणिकुण्डलमण्डिताय ।
मंजीरपादयुगलाय जटाधराय
दारिद्‌र्यदुःखदहनाय नमः शिवाय ॥४॥
 
पञ्चाननाय फणिराजविभूषणाय
हेमांशुकाय भुवनत्रय मण्डिताय ।
आनन्दभूमिवरदाय तमोमयाय
दारिद्‌र्यदुःखदहनाय नमः शिवाय ॥५॥
 
गौरीविलासभवनाय महेश्वराय
पञ्चाननाय शरणागतकल्पकाय ।
शर्वाय सर्वजगतामधिपाय तस्मै
दारिद्‌र्यदुःखदहनाय नमः शिवाय ॥६॥
 
भानुप्रियाय भवसागरतारणाय
कालान्तकाय कमलासनपूजिताय ।
नेत्रत्रयाय शुभलक्षणलक्षिताय
दारिद्‌र्यदुःखदहनाय नमः शिवाय ॥७॥
 
रामप्रियाय राघुनाथवरप्रदाय
नागप्रियाय नरकार्णवतारणाय ।
पुण्येषु पुण्यभरिताय सुरार्चिताय
दारिद्‌र्यदुःखदहनाय नमः शिवाय ॥८॥
 
मुक्तेश्वराय फलदाय गणेश्वराय
गीतप्रियाय वृषभेश्वरवाहनाय ।
मातङ्गचर्मवसनाय महेश्वराय
दारिद्‌र्यदुःखदहनाय नमः शिवाय ॥९॥
 
वसिष्ठेनकृतं स्तोत्रं सर्व दारिद्‌र्यनाशनम् ।
सर्वसंपत्करं शीघ्रं पुत्रपौत्रादिवर्धनम् ॥१०॥
 
**************** 
शिवस्तोत्रम् (असितकृतम्)
जगत्गुरो नमस्तुभ्यं शिवाय शिवदाय च ।
योगीन्द्राणां च योगीन्द्र गुरूणां गुरवे नमः ॥१॥
 
मृत्योर्मृत्युस्वरूपेण मृत्युसंसारखण्डन ।
मृत्योरीश मृत्युबीज मृत्युंजय नमोऽस्तु ते ॥२॥
 
कालरूपं कलयतां कालकालेश कारण ।
कालादतीत कालस्थ कालकाल नमोऽस्तु ते ॥३॥
 
गुणातीत गुणाधार गुणबीज गुणात्मक ।
गुणीश गुणिनां बीज गुणिनां गुरवे नमः ॥४॥
 
ब्रह्मस्वरूप ब्रह्मज्ञ ब्रह्मभावे च तत्पर ।
ब्रह्मबीजस्वरूपेण ब्रह्मबीज नमोऽस्तु ते ॥५॥
 
असितेन कृतं स्तोत्रं भक्तियुक्तश्च यः पठेत् ।
वर्षमेकं हविष्याशी शंकरस्य महात्मनः ॥६॥
 
स लभेत् वैष्णवं पुत्रं ज्ञानिनं चिरजीविनम् ।
दरिद्रो धनमाप्नोति मूको भवति पण्डितः ॥७॥
 
अभार्यो लभते भार्यां सुशीलां च पतिव्रताम् ।
इहलोके सुखं भुक्त्वा यात्यन्ते शिवसन्निधौ ॥८॥
 
इदं स्तोत्रं पुरा दत्तं ब्रह्मणा च प्रचेतसे ।
प्रचेतसोत्तमं दत्तं स्वपुत्रायासिताय हि ॥९॥
 
**************** 
शिवभुजङ्गम् (श्री शंकराचार्यकृतं)
गलद्दानगण्डं मिलद्भृङ्गषण्डं
चलच्चारुशुण्डं जगत्त्राणशौण्डम् ।
कनद्दन्तकाण्डंविपद्भङ्गचण्डं
शिवप्रेमपिण्डं भजे वक्रतुण्डम् ॥१॥
 
अनाद्यन्तमाद्यं परं तत्वमर्थं
चिदाकारमेकं तुरीयं त्वमेयं ।
हरिब्रह्ममृग्यं परब्रह्मरूपं
मनोवागतीतं महःशैवमीडे ॥२॥
 
स्वशक्त्यादिशक्त्यन्तसिंहासनस्थं
मनोहारिसर्वाङ्गरत्नोरुभूषं ।
जटाहीन्दुगंगास्थिशम्याकमौलिं
पराशक्तिमित्रं नुमः पञ्चवक्त्रम् ॥३॥
 
शिवेशानतत्पूरुषाघोरवामादिभिः
पञ्चभिर्हृन्मुखैः षड्भिरंगैः ।
अनौपम्यषड्त्रिंशतं तत्वविद्यामतीतं
परं त्वां कथं वेत्ति को वा महेश ॥४॥
 
प्रवालप्रवाहप्रभाशोणमर्धं
मरुत्वन्मणिश्रीमहःश्याममर्धम् ।
गुणस्यूतमेतद्वपुः शैवमन्तः
स्मरामि स्मरापत्तिसंपत्तिहेतोः ॥५॥
 
स्वसेवासमायात-देवासुरेन्द्रा-
नमन्मौलि-मन्दारमालाभिषक्तं ।
नमस्यामि शंभो पदांभोरुहं ते
भवांभोधिपोतं भवानीविभाव्यम् ॥६॥
 
जगन्नाथ मन्नाथ गौरीसनाथ
प्रपन्नानुकम्पिन्विपन्नार्तिहारिन् ।
महःस्तोममूर्ते समस्तैकबन्धो
नमस्ते नमस्ते पुनस्ते नमोस्तु ॥७॥
 
विरूपाक्ष विश्वेश विश्वादिदेव
त्रयीमूल शंभो शिव त्रयंबक त्वं ।
प्रसीद स्मर त्राहि पश्यावमुक्त्यै
क्षमां प्राप्नुहि त्र्यक्ष मां रक्ष मोदात् ॥८॥
 
महादेव देवेश देवादिदेव
स्मरारे पुरारे यमारे हरेति ।
ब्रुवाणः स्मरिष्यामि भक्त्या भवन्तं
ततो मे दयाशील देव प्रसीद ॥९॥
 
त्वदन्यः शरण्यः प्रपन्नस्य नेति
प्रसीद स्मरन्नेव हन्यास्तु दैन्यं ।
न चेत्ते भवद्भक्तवात्सल्यहानि-
स्ततो मे दयालो सदा सन्निधेहि ॥१०॥
 
अयं दानकालस्त्वहं दानपात्रं
भवानेव दाता त्वदन्यं न याचे ।
भवद्भक्तिमेव स्थिरां देहि मह्यं
कृपाशील शंभॊ कृतार्थॊऽस्मि तस्मात् ॥११॥
 
पशुं वेत्सि चेन्मां तमेवाधिरूढः
कलंकीति वा मूर्ध्नि धत्से तमेव ।
द्विजिह्वः पुनः सोऽपि ते कण्ठभूषा
त्वदङ्गीकृताः शर्व सर्वेऽपि धन्याः ॥१२॥
 
न शक्नोमि कर्तुं परद्रोहलेशं
कथं प्रीयसे त्वं न जाने गिरीश ।
तथा हि प्रसन्नोऽसि कस्यापि कान्ता-
सुतद्रोहिणो वा पितृद्रोहिणो वा ॥१३॥
 
स्तुतिं ध्यानमर्चां यथावद्विधातुं
भजन्नप्यजानन्महेशावलंबे ।
त्रसन्तं सुतं त्रातुमग्रे मृकण्डो-
र्यमप्राणनिर्वापणं त्वत्पदाब्जम् ॥१४॥
 
शिरोदृष्टिहृद्रोगशूलप्रमेह-
ज्वरार्शोजरायक्ष्महिक्काविषार्तान् ।
त्वमाद्यो भिषग्भेषजं भस्म शंभो
त्वमुल्लाघयास्मान्वपुर्लाघवाय ॥१५॥
 
दरिद्रोऽस्म्यभद्रोऽस्मि भग्नोऽस्मि दूये
विषण्णोऽस्मि सन्नोऽस्मि खिन्नोऽस्मि चाहं ।
भवान्प्राणिनामन्तरात्माऽसि शंभो
ममाधिं न वेत्सि प्रभो रक्ष मां त्वं ॥१६॥
 
त्वदक्ष्णोः कटाक्षः पतेत् त्र्यक्ष यत्र
क्षणं क्ष्मा च लक्ष्मीः स्वयं तं वृणाते ।
किरीटस्फुरच्चामरच्छत्रमाला
कलापीगजक्षौमभूषाविशेषैः ॥१७॥
 
भवान्यै भवायापि मात्रे च पित्रे
मृडान्यै मृडायाप्यघघ्न्यै मखघ्ने ।
शिवाङ्ग्यै शिवाङ्गाय कुर्मः शिवायै
शिवायांबिकायै नमस्त्र्यंबकाय ॥१८॥
 
भवद्गौरवं मल्लघुत्वं विदित्वा
प्रभो रक्ष कारुण्यदृष्ट्यानुगं माम् ।
शिवात्मानुभावस्तुतावक्षमोऽहं
स्वशक्त्या कृतं मेऽपराधं क्षमस्व ॥१९॥
 
यदा कर्णरन्ध्रं व्रजेत्कालवाह-
द्विषत्कण्ठघण्टाघणत्कारनादः ।
वृषाधीशमारुह्य देवौपवाह्यं
तदा वत्स मा भीरिति प्रीणय त्वं ॥२०॥
 
यदा दारुणाभाषणा भीषणा मे
भविष्यन्त्युपान्ते कृतान्तस्य दूताः ।
तदा मन्मनस्त्वत्पदांभोरुहस्थं
कथं निश्चलं स्यान्नमस्तेऽस्तु शंभो ॥२१॥
 
यदा दुर्निवारव्यथोऽहं शयानो
लुठन्निःश्वसन्निःसृताव्यक्तवाणिः ।
तदा जह्नुकन्याजलालंकृतं ते
जटामण्डलं मन्मनोमन्दिरं स्यात् ॥२२॥
 
यदा पुत्रमित्रादयो मत्सकाशे
रुदन्त्यस्य हा कीदृशीयं दशेति ।
तदा देवदेवेश गौरीश शंभो
नमस्ते शिवायेत्यजस्रं ब्रवाणि ॥२३॥
 
यदा पश्यतां मामसौ वेत्ति नास्मा-
नयं श्वास एवेति वाचो भवेयुः ।
तदा भूतिभूषं भुजङ्गावनद्धं
पुरारे भवन्तं स्फुटं भावयेयम् ॥२४॥
 
यदा यातनादेहसंदेहवाही
भवेदात्मदेहे न मोहो महान् मे ।
तदाऽऽकाशशीतांशुसंकाशमीश
स्मरारे वपुस्ते नमस्ते स्मराणि ॥२५॥
 
यदापारमच्छायमस्थानमद्भि-
र्जनैर्वा विहीनं गमिष्यामि मार्गं ।
तदा तं निरुन्धन् कृतान्तस्य मार्गं
महादेव मह्यं मनोज्ञं प्रयच्छ ॥२६॥
 
यदा रौरवादि स्मरन्नेव भीत्या
व्रजाम्यत्र मोहं महादेव घोरं ।
तदा मामहो नाथ कस्तारयिष्य-
त्यनाथं पराधीनमर्धेन्दुमौले ॥२७॥
 
यदा श्वेतपत्रायतालङ्घ्यशक्तेः
कृतान्ताद्भयं भक्तवात्सल्यभावात् ।
तदा पाहि मां पार्वतीवल्लभान्यं
न पश्यामि पातारमेतादृशं मे ॥२८॥
 
इदानीमिदानीं मृतिर्मे भवित्री-
त्यहो संततं चिन्तया पीडितोऽस्मि ।
कथं नाम माभून्मृतौ भीतिरेषा
नमस्ते गतीनां गते नीलकण्ठ ॥२९॥
 
अमर्यादमेवाहमाबालवृद्धं
हरन्तं कृतान्तं समीक्ष्यास्मि भीतः ।
मृतौ तावकाङ्घ्र्‌यब्ज-दिव्यप्रसादाद्-
भवानीपते निर्भयोऽहं भवानि ॥३०॥
 
जराजन्मगर्भाधिवासादि दुःखा-
न्यसह्यानि जह्यां जगन्नाथ देव ।
भवन्तं विना मे गतिर्नैव शंभो
दयालो न जागर्ति किं वा दया ते ॥३१॥
 
शिवायेति शब्दो नमः पूर्व एष
स्मरन्मुक्तिकृन्मृत्युहा तत्ववाची ।
महेशान मा गान्मनस्तो वचस्तः
सदा मह्यमेतत् प्रदानं प्रयच्छ ॥३२॥
 
त्वमप्यंब मां पश्य शीतांशुमौलि-
प्रियेभेषजं त्वं भवव्याधिशान्तौ ।
बहुक्लेशभाजं पदांभोजपोते
भवाब्धौ निमग्नं नयस्वाद्य पारं ॥३३॥
 
अनुद्यल्ललाटाक्षि-वह्निप्ररोहै-
रवामस्फुरच्चारु-वामोरुशोभैः ।
अनंगभ्रमद्भोगिभूषाविशेषै-
रचन्द्रार्धचूडैरलं दैवतैर्नः ॥३४॥
 
अकण्ठेकलङ्कादनङ्गे भुजङ्गा-
दपाणौ कपालादफालेनलाक्षात् ।
अमौलौशशाङ्कादवामेकलत्रा-
दहं देवमन्यं न मन्ये न मन्ये ॥३५॥
 
महादेव शंभो गिरीश त्रिशूलिं-
स्त्वयीदं समस्तं विभातीति यस्मात् ।
शिवादन्यथा दैवतं नाभिजाने
शिवोऽहं शिवोऽहं शिवोऽहं शिवोऽहम् ॥३६॥
 
यतोऽजायतेदं प्रपञ्चं विचित्रं
स्थितिं याति यस्मिन् यदेकान्तमन्ते ।
स कर्मादिहीनः स्वयंज्योतिरात्मा
शिवोऽहं शिवोऽहं शिवोऽहं शिवोऽहम् ॥३७॥
 
किरीटेनिशेशो ललाटे हुताशो
भुजे भोगिराजो गले कालिमा च ।
तनौ कामिनी यस्य तत्तुल्यदेवं
न जाने न जाने न जाने न जाने ॥३८॥
 
अनेन स्तवेनादरादंबिकेशं
परां भक्तिमासाद्य यं ये नमन्ति ।
मृतौ निर्भयास्ते जनास्तं भजन्ते
हृदंभोजमध्ये सदासीनमीशम् ॥३९॥
 
भुजङ्गप्रियाकल्प शंभो मयैवं
भुजङ्गप्रयातेन वृत्तेन क्लिप्तं ।
नरः स्तोत्रमेतत् पठित्वोरुभक्त्या
सुपुत्रायुरारोग्यमैश्वर्यमेति ॥४०॥
 
**************** 
 
चरणशृङ्गरहितनटराजस्तोत्रम् (श्री पतंजलिकृतम्)
सदञ्चितमुदञ्चित निकुञ्चितपदम् झलझलच्चलितमञ्जुकटकम्
पतञ्जलिदृगञ्जनमनञ्जनमचञ्चलपदम् जननभञ्जनकरम् ।
कदम्बरुचिमम्बरवसम् परममम्बुदकदम्बकविडम्बकगलम्
चिदम्बुधिमणिम् बुधहृदम्बुजरविम् परचिदम्बरनटम् हृदि भज ॥१॥
 
हरम् त्रिपुरभञ्जनमनन्तकृतकङ्कणमखण्डदयमन्तरहितम्
विरिञ्चिसुरसम्हतिपुरन्दरविचिन्तितपदम् तरुणचन्द्रमकुटम् ।
परम्पदविखण्डितयमम् भसितमण्डिततनुम् मदनवञ्चनपरम्
चिरन्तनममुम् प्रणवसञ्चितनिधिम् परचिदम्बरनटम् हृदि भज ॥२॥
 
अवन्तमखिलम् जगदभङ्गगुणतुङ्गममतम् धृतविधुम् सुरसरि-
त्तरङ्गनिकुरम्बधृतिलम्पटजटम् शमनडम्भसुहरम् भवहरम् ।
शिवम् दशदिगन्तरविजृम्भितकरम् करलसन्मृगशिशुम् पशुपतिम्
हरम् शशिधनञ्जयपतङ्गनयनम् परचिदम्बरनटम् हृदि भज ॥३॥
 
अनन्तनवरत्नविलसत् कटककिङ्किणी झलम् झलझलम् झलरवम्
मुकुन्दविधिहस्तगतमद्दललयध्वनि धिमिद्धिमित नर्तनपदम् ।
शकुन्तरथ बर्हिरथ नन्दिमुख भृङ्गिरिटि सङ्घनिकटम्
सनन्दसनकप्रमुखवन्दितपदम् परचिदम्बरनटम् हृदि भज ॥४॥
 
अनन्तमहसं त्रिदशवन्द्यचरणम् मुनिहृदन्तरवसन्तममलम्
कबन्धवियदिन्द्ववनिगन्धवहवह्निमखबन्धुरविमञ्जुवपुषम् ।
अनन्तविभवं त्रिजगदन्तरमणिम् त्रिणयनम् त्रिपुरखण्डनपरम्
सनन्दमुनिवन्दितपदम् सकरुणम् परचिदम्बरनटम् हृदि भज ॥५॥
 
अचिन्त्यमणिबृन्दरुचिबन्धुरगलम् कुरितकुन्दनिकुरुम्बधवलम्
मुकुन्दसुरबृन्दबलहन्तृकृतवन्दनलसन्तमहिकुण्डलधरम् ।
अकम्पमनुकम्पितरतिम् सुजनमङ्गलनिधिम् गजहरम् पशुपतिम्
धनञ्जयनुतम् प्रणतरञ्जनपरम् परचिदम्बरनटम् हृदि भज ॥६॥
 
परम् सुरवरम् पुरहरम् पशुपतिम् जनितदन्तिमुखषण्मुखममुम्
मृडम् कनकपिङ्गलजटम् सनकपङ्कजरविम् सुमनसम् हिमरुचिम् ।
असंगमनसम् जलधिजन्मगरलम्कबलयन्तमतुलम्गुणनिधिम्
सनन्दवरदम् शमितमिन्दुवदनं प परचिदम्बरनटम् हृदि भज ॥७॥
 
अजं क्षितिरथम् भुजङ्गपुङ्गवगुणम् कनकशृङ्गिधनुषम्
करलसत्कुरङ्गपृथुटङ्कपरशुम् रुचिरकुङ्कुमरुचिम् डमरुकम् च दधतम् ।
मुकुन्दविशिखम् नमदवन्ध्यफलदम् निगमवृन्दतुरगम् निरुपमम्
सचण्डिकममुम् झटिति सम्हृतपुरम् परचिदम्बरनटम् हृदि भज ॥८॥
 
अनङ्गपरिपन्थिनमजं क्षितिधुरन्धरमलम्करुणयन्तमखिलम्
ज्वलन्तमनलम् दधतमन्तकरिपुम् सततमिन्द्रसुरवन्दितपदम् ।
उदञ्चदरविन्दकुलबन्धुशतबिम्बरुचिसम्हति सुगन्धि वपुषम्
पतञ्जलिनुतम् प्रणवपञ्जरशुकम् परचिदम्बरनटम् हृदि भज ॥९॥
 
इति स्तवममुं भुजगपुङ्गवकृतम् प्रतिदिनम् पठति यः कृतमुखः
सदः प्रभु पदद्वितय दर्शनपदम् सुललितम् चरणशृङ्गरहितम् ।
सरः प्रभवसंभव हरित्पति हरिप्रमुख दिव्यनुत शङ्करपदम्
स गच्छति परम् न तु जनुर्जलनिधिम् परमदुःखजनकम् दुरितदम् ॥१०॥
 
****************
वेदसारशिवस्तोत्रम् (श्री शंकराचार्यकृतम्)
 
पशूनांपतिं पापनाशं परेशं
गजेन्द्रस्यकृत्तिं वसानं वरेण्यम् ।
जटाजूटमध्ये स्फुरद्गाङ्गवारिं
महादेवमेकं स्मरामि स्मरारिम् ॥१॥
 
महेशं सुरेशं सुरारातिनाशं
विभुं विश्वनाथं विभूत्यङ्गभूषम् ।
विरूपाक्षमिन्द्वर्कवह्नित्रिनेत्रं
सदानन्दमीडे प्रभुं पञ्चवक्त्रम् ॥२॥
 
गिरीशं गणेशं गले नीलवर्णं
गवेन्द्राधिरूढं गुणातीतरूपम् ।
भवं भास्वरं भस्मना भूषितांगं
भवानीकलत्रं भजे पञ्चवक्त्रम् ॥३॥
 
शिवाकान्त शंभो शशाङ्कार्धमौले
महेशान शूलिन् जटाजूटधारिन् ।
त्वमेको जगद्व्यापको विश्वरूपः
प्रसीद प्रसीद प्रभो पूर्णरूप ॥४॥
 
परात्मानमेकं जगद्बीजमाद्यं
निरीहं निराकारमोङ्कारवेद्यम् ।
यतो जायते पाल्यते येन विश्वं
तमीशं भजे लीयते यत्र विश्वम् ॥५॥
 
न भूमिर्न चापो न वह्निर्न वायु:
न चाकाशमास्ते न तन्द्रा न निद्रा ।
न चोष्णं न शीतं न देशो न वेषो
न यस्यास्तिमूर्तिः त्रिमूर्तिं तमीडे ॥६॥
 
अजं शाश्वतं कारणं कारणानां
शिवं केवलं भासकं भासकानाम् ।
तुरीयं तमःपारमाद्यन्तहीनं
प्रपद्ये परं पावनं द्वैतहीनम् ॥७॥
 
नमस्ते नमस्ते विभो विश्वमूर्ते
नमस्ते नमस्ते चिदानन्दमूर्ते ।
नमस्ते नमस्ते तपोयोगगम्य
नमस्ते नमस्ते श्रुतिज्ञानगम्य ॥८॥
 
प्रभो शूलपाणे विभो विश्वनाथ
महादेव शंभो महेश त्रिनेत्र ।
शिवाकान्त शान्त स्मरारे पुरारे
त्वदन्यो वरेण्यो न मान्यो न गण्यः ॥९॥
 
शम्भो महेश करुणामय शूलपाणे
गौरीपते पशुपते पशुपाशनाशिन् ।
काशीपते करुणया जगदेतदेक-
स्त्वं हंसि पासि विदधासि महेश्वरोऽसि ॥१०॥
 
त्वत्तो जगत् भवति देव भव स्मरारे
त्वय्येव तिष्ठति जगन्मृड विश्वनाथ ।
त्वय्येव गच्छति लयं जगदेतदीश
लिङ्गात्मके हर चराचरविश्वरूपिन् ॥११॥
 
**************** 

उमामहेश्वरस्तोत्रम् (श्री शंकराचार्यकृतम्)
नमः शिवाभ्यां नवयौवनाभ्यां
परस्पराश्लिष्टवपुर्धराभ्याम् ।
नगेन्द्रकन्यावृषकेतनाभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥१॥
 
नमः शिवाभ्यां सरसोत्सवाभ्यां
नमस्कृताभीष्टवरप्रदाभ्याम् ।
नारायणेनार्चितपादुकाभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥२॥
 
नमः शिवाभ्यां वृषवाहनाभ्यां
विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम् ।
विभूतिपाटीरविलेपनाभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥३॥
 
नमः शिवाभ्यां जगदीश्वराभ्यां
जगत्पतिभ्यां जयविग्रहाभ्याम् ।
जंभारिमुख्यैरभिवन्दिताभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥४॥
 
नमः शिवाभ्यां परमौषधाभ्यां
पन्ञ्चाक्षरीपञ्जररञ्जिताभ्याम् ।
प्रपञ्चसृष्टिस्थितिसंहृताभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥५॥
 
नमः शिवाभ्यामतिसुन्दराभ्यां
अत्यन्तमासक्तहृदंबुजाभ्याम् ।
अशेषलोकैकहितंकराभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥६॥
 
नमः शिवाभ्यां कलिनाशनाभ्यां
कङ्कालकल्याणवपुर्धराभ्याम् ।
कैलासशैलस्थित देवताभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥७॥
 
नमः शिवाभ्यामशुभापहाभ्यां
अशेषलोकैकविशेषिताभ्याम् ।
अकुण्ठिताभ्यां स्मृतिसंभृताभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥८॥
 
नमः शिवाभ्यां रथवाहनाभ्यां
रवीन्दुवैश्वानरलोचनाभ्याम् ।
राकाशशाङ्काभमुखांबुजाभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥९॥
 
नमः शिवाभ्यां जटिलं धराभ्यां
जरामृतिभ्यां च विवर्जिताभ्याम् ।
जनार्दनाब्जोद्भवपूजिताभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥१०॥
 
नमः शिवाभ्यां विषमेक्षणाभ्यां
बिल्वच्छदामल्लिकदामभृद्भ्याम् ।
शोभावतीशान्तवतीश्वराभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥११॥
 
नमः शिवाभ्यां पशुपालकाभ्यां
जगत्त्रयीरक्षणबद्धहृद्भ्याम् ।
समस्तदेवासुरपूजिताभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥१२॥
 
स्तोत्रं त्रिसंध्यं शिवपार्वतीभ्यां
भक्त्या पठेत् द्वादशकं नरो यः ।
स सर्व सौभाग्यफलानि भुङ्क्ते
शतायुरन्ते शिवस्लोकमेति ॥१३॥
 
******************
शिवमहिम्नःस्तोत्रम् 
महिम्नः पारं ते परमविदुषो यद्यसदृशी
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः ।
अथावाच्यः सर्वः स्वमतिपरिणामावधि गृणन्
ममाप्येष स्तोत्रे हर निरपवादः परिकरः ॥१॥
 
अतीतः पन्थानं तव च महिमा वाङ्मनसयो-
रतद्व्यावृत्त्या यं चकितमभिधत्ते श्रुतिरपि ।
स कस्य स्तोतव्यः कतिविधगुणः कस्य विषयः
पदे त्वर्वाचीने पतति न मनः कस्य न वचः ॥२॥
 
मधुस्फीतावाचः परमममृतं निर्मितवत-
स्तव ब्रह्मन् किं वागपि सुरगुरोर्विस्मयपदम् ।
मम त्वेतां वाणीं गुणकथनपुण्येन भवतः
पुनामीत्यर्थेऽस्मिन् पुरमथन बुद्धिर्व्यवसिता ॥३॥
 
तवैश्वर्यं यत्तज्जगदुदयरक्षाप्रलयकृत्
त्रयी वस्तु व्यस्तं तिसृषु गुणभिन्नासु तनुषु ।
अभव्यानामस्मिन् वरद रमणीयामरमणीं
विहन्तुं व्याक्रोशीं विदधत इहैके जडधियः ॥४॥
 
किमीहः किंकायः स खलु किमुपायस्त्रिभुवनं
किमाधारो धाता सृजति किमुपादान इति च ।
अतर्क्यैश्वर्ये त्वय्यनवसरदुःस्थो हतधियः
कुतर्कोऽयं कांश्चिन्मुखरयति मोहाय जगतः ॥५॥
 
अजन्मानो लोकाः किमवयववन्तोऽपि जगता-
मधिष्ठातारं किं भवविधिरनादृत्य भवति ।
अनीशो वा कुर्याद् भुवनजनने कः परिकरं
यतो मन्दास्त्वां प्रत्यमरवर संशेरत इमे ॥६॥
 
त्रयी सांख्यं योगः पशुपतिमतं वैष्णवमिति
प्रभिन्ने प्रस्थाने परमिदमदः पथ्यमिति च ।
रुचीनां वैचित्र्यादृजुकुटिलनानापथजुषां
नृणामेको गम्यस्त्वमसि पयसामर्णव इव ॥७॥
 
महोक्षः खट्वाङ्गं परशुरजिनं भस्म फणिनः
कपालं चेतीयत्तव वरद तन्त्रोपकरणम् ।
सुरास्तां तामृद्धिं दधति तु भवद्भ्रूप्रणिहितां
न हि स्वात्मारामं विषयमृगतृष्णा भ्रमयति ॥८॥
 
ध्रुवं कश्चित्सर्वं सकलमपरस्त्वध्रुवमिदं
परो ध्रौव्याध्रौव्ये जगति गदति व्यस्तविषये ।
समस्तेऽप्येतस्मिन् पुरमथन तैर्विस्मित इव
स्तुवन् जिह्रेमि त्वां न खलु ननु धृष्टा मुखरता ॥९॥
 
तवैश्वर्यं यत्नाद् यदुपरि विरिंचिर्हरिरधः
परिच्छेत्तुं यातावनलमनलस्कन्धवपुषः ।
ततो भक्तिश्रद्धाभरगुरुगृणद्भ्यां गिरिश यत्
स्वयं तस्थे ताभ्यां तव किमनुवृत्तिर्न फलति ॥१०॥
 
अयत्नादासाद्य त्रिभुवनमवैरव्यतिकरं
दशास्यो यद्बाहूनभृत रणकण्डूपरवशान् ।
शिरः पद्मश्रेणीरचितचरणांभोरुहबलेः
स्थिरायास्त्वद्भक्तेस्त्रिपुरहर विस्फूर्जितमिदम् ॥११॥
 
अमुष्य त्वत्सेवासमधिगतसारं भुजवनं
बलात् कैलासेऽपि त्वदधिवसतौ विक्रमयतः ।
अलभ्या पातालेऽप्यलसचलिताङ्गुष्ठशिरसि
प्रतिष्ठा त्वय्यासीद् ध्रुवमुपचितो मुह्यति खलः ॥१२॥
 
यद्वृद्धिं सुत्राम्णो वरद परमोच्चैरपि सती-
मधश्चक्रे बाणः परिजनविधेयत्रिभुवनः ।
न तच्चित्रं तस्मिन् वरिवसितरि त्वच्चरणयो-
र्न कस्या उन्नत्यै भवति शिरसस्त्वय्यवनतिः ॥१३॥
 
अकाण्डब्रह्माण्डक्षयचकितदेवासुरकृपा-
विधेयस्यासीद् यस्त्रिनयन विषं संहृतवतः ।
स कल्माषः कण्ठे तव न कुरुते न श्रियमहो
विकारोऽपि श्लाघ्यो भुवनभयभङ्गव्यसनिनः ॥१४॥
 
असिद्धार्था नैव क्वचिदपि सदेवासुरनरे
निवर्तन्ते नित्यं जगति जयिनो यस्य विशिखाः ।
स पश्यन्नीश त्वामितरसुरसाधारणमभूत्
स्मरः स्मर्तव्यात्मा न हि वशिषु पथ्यः परिभवः ॥१५॥
 
मही पदाघाताद्व्रजति सहसा संशयपदं
पदं विष्णोर्भ्राम्यद्भुजपरिघरुग्णग्रहगणम् ।
मुहुर्द्यौर्द्यौस्थ्यं यात्यनिभृतजटाताडिततटा
जगद्रक्षार्थं त्वं नटसि ननु वामैव विभुता ॥१६॥
 
वियद्व्यापी तारागणगुणितफेनोद्गमरुचिः
प्रवाहो वारां यः पृषतलघुदृष्टः शिरसि ते ।
जगद्द्वीपाकारं जलधिवलयं तेन कृतमि-
त्यनेनैवोन्नेयं धृतमहिम दिव्यं तव वपुः ॥१७॥
 
रथः क्षोणी यन्ता शतधृतिरगेन्द्रो धनुरथो
रथाङ्गे चन्द्रार्कौ रथचरणपाणिः शर इति ।
दिधक्षोस्ते कोऽयं त्रिपुरतृणमाडंबरविधिः
विधेयैः क्रीडन्त्यो न खलु परतन्त्राः प्रभुधियः ॥१८॥
 
क्रतौ सुप्ते जाग्रत् त्वमसि फलयोगे क्रतुमतां
क्व कर्म प्रध्वस्तं फलति पुरुषाराधनमृते ।
अतस्त्वां संप्रेक्ष्य क्रतुषु फलदानप्रतिभुवं
श्रुतौ श्रद्धां बद्ध्वा दृढपरिकरः कर्मसु जनः ॥२०॥
 
क्रियादक्षो दक्षः क्रतुपतिरधीशस्तनुभृता-
मृषीणामार्त्विज्यं शरणद सदस्याः सुरगणाः ।
क्रतुभ्रंशस्त्वत्तः क्रतुफलविधानव्यसनिनो
ध्रुवं कर्तुः श्रद्धाविधुरमभिचाराय हि मखाः ॥२१॥
 
प्रजानाथं नाथ प्रसभमभिकं स्वां दुहितरं
गतं रोहिद्भूतां रिरमयिषुमृष्यस्य वपुषा ।
धनुष्पाणेर्यातं दिवमपि सपत्राकृतममुं
त्रसन्तं तेऽद्यापि त्यजति न मृगव्याधरभसः ॥२२॥
 
स्वलावण्याशंसा धृतधनुषमह्नाय तृणवत्
पुरः प्लुष्टं दृष्ट्वा पुरमथन पुष्पायुधमपि ।
यदि स्त्रैणं देवी यमनिरतदेहार्धघटना-
दवैति त्वामद्धा बत वरद मुग्धा युवतयः ॥२३॥
 
श्मशानेष्वाक्रीडा स्मरहर पिशाचाः सहचरा-
श्चिताभस्मालेपः स्रगपि नृकरोटीपरिकरः ।
अमङ्गल्यं शीलं तव भवतु नामैवमखिलं
तथापि स्मर्तॄणां वरद परमं मंगलमसि ॥२४॥
 
मनः प्रत्यक्चित्ते सविधमवधायात्तमरुतः
प्रहृष्यद्रोमाणः प्रमदसलिलोत्सङ्गितदृशः ।
यदालोक्याह्लादं ह्रद इव निमज्यामृतमये
दधत्यन्तस्तत्त्वं किमपि यमिनस्तत्किल भवान् ॥२५॥
 
त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह-
स्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च ।
परिच्छिन्नामेवं त्वयि परिणता बिभ्रति गिरं
न विद्मस्तत्तत्त्वं वयमिह तु यत् त्वं न भवसि ॥२६॥
 
त्रय़ीं तिस्रो वृत्तीस्त्रिभुवनमथो त्रीनपि सुरा-
नकाराद्यैर्वर्णैस्त्रिभिरभिदधत् तीर्णविकृति ।
तुरीयं ते धाम ध्वनिभिरवरुन्धानमणुभिः
समस्तं व्यस्तं त्वां शरणद गृणात्योमिति पदम् ॥२७॥
 
भवः शर्वो रुद्रः पशुपतिरथोग्रः सहमहां-
स्तथा भीमेशानाविति यदभिधानाष्टकमिदम् ।
अमुष्मिन् प्रत्येकं प्रविचरति देव श्रुतिरपि
प्रियायास्मै धाम्ने प्रणिहितनमस्योऽस्मि भवते ॥२८॥
 
नमो नेदिष्ठाय प्रियदव दविष्ठाय च नमो
नमः क्षोदिष्ठाय स्मरहर महिष्ठाय च नमः ।
नमो वर्षिष्ठाय त्रिनयन यविष्ठाय च नमो
नमः सर्वस्मै ते तदिदमतिसर्वाय च नमः ॥२९॥
 
बहुलरजसे विश्वोत्पत्तौ भवाय नमो नमः
प्रबलतमसे तत्संहारे हराय नमो नम: ।
जनसुखकृते सत्त्वोद्रिक्तो मृडाय नमो नमः
प्रमहसि पदे निस्त्रैगुण्ये शिवाय नमो नमः ॥३०॥
 
कृशपरिणति चेतः क्लेशवश्यं क्व चेदं
क्व च तव गुणसीमोल्लङ्घिनी शश्वदृद्धिः ।
इति चकितममन्दीकृत्य मां भक्तिराधात्
वरद चरणयोस्ते वाक्यपुष्पोपहारम् ॥३१॥
 
असितगिरिसमं स्यात् कज्जलं सिन्धुः पात्रं
सुरतरुवरशाखा लेखनी पत्रमुर्वी ।
लिखति यदि गृहीत्वा सारदा सर्वकालं
तदपि तव गुणानामीश पारं न याति ॥३२॥
 
असुरसुरमुनीन्द्रैरर्चितस्येन्दुमौले-
र्ग्रथितगुणमहिम्नो निर्गुणस्येश्वरस्य ।
सकलगणवरिष्ठः पुष्पदन्ताभिधानो
रुचिरमलघुवृत्तैः स्तोत्रमेतच्चकार ॥३३॥
 
अहरहरनवद्यं धूर्जटेः स्तोत्रमेतत्
पठति परमभक्त्या शुद्धचित्तः पुमान् यः ।
स भवति शिवलोके रुद्रतुल्यस्तथाऽत्र
प्रचुरतरधनायुः पुत्रवान् कीर्तिमांश्च ॥३४॥
 
महेशान्नापरो देवो महिम्नो नापरा स्तुतिः
अघोरान्नापरो मन्त्रो नास्ति तत्त्वं गुरोः परम् ॥३५॥
 
दीक्षा दानं तपस्तीर्थं ज्ञानं यागादिकाः क्रियाः
महिम्नः स्तवपाठस्य कलां नार्हन्ति षोडशीम् ॥३६॥
 
कुसुमदशननामा सर्वगन्धर्वराजः
शिशुशशधरमौलेर्देवदेवस्य दासः ।
स खलु निजमहिम्नो भ्रष्ट एवास्य रोषात्
स्तवनमिदमकार्षीद्दिव्यदिव्यं महिम्न: ॥३७॥
 
सुरगुरुमभिपूज्य स्वर्गमोक्षैकहेतुं
पठति यदि मनुष्यः प्राञ्जलिर्नान्यचेताः ।
व्रजति शिवसमीपं किन्नरैः स्तूयमानः
स्तवनमिदममोघं पुष्पदन्तप्रणीतम् ॥३८॥
 
आसमाप्तमिदं स्तोत्रं पुण्यं गन्धर्वभाषितम्
अनौपम्यं मनोहारि सर्वमीश्वरवर्णनम् ॥३९॥
 
इत्येषा वाङ्मयीपूजा श्रीमच्छंकरपादयोः
अर्पिता तेन देवेशः प्रीयतां मे सदाशिवः ॥४०॥
 
****************** 
 
शिवपादादिकेशान्तवर्णनस्तोत्रम् 
कल्याणं नो विधत्तां कटकतटलसत्कल्पवाटीनिकुञ्ज-
क्रीडासंसक्तविद्याधरनिकरवधूगीतरुद्रापदानः ।
तारैर्हेरंबनादैस्तरलितनिनदत्तारकारातिकेकी
कैलासः शर्वनिर्वृत्यभिजनकपद: सर्वदा पर्वतेन्द्रः ॥१॥
यस्य प्राहुः स्वरूपं सकलदिविषदां सारसर्वस्वयोगं
यस्येषुः शार्ङ्गधन्वा समजनि जगतां रक्षणे जागरूकः ।
मौर्वी दर्वीकराणामपि च परिबृढः पूस्त्रयी सा च लक्ष्यं
सोऽव्यादव्याजमस्मानशिवभिदनिशं नाकिनां श्रीपिनाकः ॥२॥
आतङ्कावेगहारी सकलदिविषदामङ्घ्रिपद्माश्रयाणां
मातङ्गाद्युग्रदैत्यप्रकरतनुगलद्रक्तधाराक्तधारः ।
क्रूरः शूरायुतानामपि च परिभवं स्वीयभासा वितन्वन्
घोराकारः कुठारो दृढतरदुरिताख्याटवीं पाटयेन्नः ॥३॥
कालारातेः कराग्रे कृतवसतिरुरःशाणशातो रिपूणां
काले काले कुलाद्रिप्रवरतनयया कल्पितस्नेहलेपः ।
पायान्नः पावकार्चिःप्रसरसुखमुखः पापहन्ता नितान्तं
शूलः श्रीपादसेवाभजनरसजुषां पालनैकान्तशीलः ॥४॥
देवस्याङ्काश्रयायाः कुलगिरिदुहितुर्नेत्रकोणप्रचार-
प्रस्तारानत्युदारान् पिपठिषुरिव यो नित्यमत्यादरेण ।
आधत्ते भङ्गितुङ्गैरनिशमवयवैरन्तरङ्गं समोदं
सोमापीडस्य सोऽयं प्रदिशतु कुशलं पाणिरङ्गः कुरङ्गः ॥५॥
कण्ठप्रान्तावसज्जत्कनकमयमहाघण्टिकाघोरघोषैः
कण्ठारावैरकुण्ठैरपि भरितजगच्चक्रवालान्तरालः ।
चण्डः प्रोद्दण्डशृङ्गः ककुदकबलितोत्तुङ्गकैलासशृङ्गः
कण्ठेकालस्य वाहः शमयतु शमलं शाश्वतः शाक्करेन्द्रः ॥६॥
निर्यद्दानांबुधारापरिमलतरलीभूतरोलंबपाली
झंकारैः शंकराद्रेः शिखरशतदरीः पूरयन् भूरिघोषैः ।
शार्वः सौवर्णशैलप्रतिमपृथुवपुः सर्वविघ्नापहर्ता
शर्वाण्याः पूर्वसूनुः स भवतु भवतां स्वस्तिदो हस्तिवक्त्रः ॥७॥
यः पुण्यैर्देवतानां समजनि शिवयोः श्लाघ्यवीर्यैकमत्या-
द्यन्नाम्नि श्रूयमाणे दितिजभटघटा भीतिभारं भजन्ते ।
भूयात्सोऽयं विभूत्यै निशितशरशिखापाटितक्रौञ्चशैलः
संसारागाधकूपोदरपतितसमुत्तारकस्तारकारिः ॥८॥
आरूढः प्रौढवेगप्रविजितपवनं तुङ्गतुङ्गं तुरङ्गं
चेलं नीलं वसानः करतलविलसत् काण्डकोदण्डदण्डः ।
रागद्वेषादिनानाविधमृगपटलीभीतिकृद्भूतभर्ता
कुर्वन्नाखेटलीलां परिलसतु मनः कानने मामकीने ॥९॥
अंभोजाभ्यां च रंभारथचरणलताद्वन्द्वकुंभीन्द्रकुंभै-
र्बिम्बेनेन्दोश्च कंबोरुपरिविलसता विद्रुमेणोत्पलाभ्याम् ।
अम्भोदेनापि संभावितमुपजनिताडंबरं शंबरारेः
शंभोः संभोगयोग्यं किमपि धनमिदं संभवेत् संपदे नः ॥१०॥
वेणीसौभाग्यविस्मापिततपनसुताचारुवेणीविलासान्
वाणीनिर्धूतवाणीकरतलविधृतोदारवीणाविरावान् ।
एणीनेत्रान्तभङ्गीनिरसननिपुणापाङ्गकोणानुपासे
शोणान्प्राणानुदूढप्रतिनवसुषमाकन्दलानिन्दुमौलेः ॥११॥
नृत्तारंभेषु हस्ताहतमुरजधिमिद्धिंकृतैरत्युदारै-
श्चित्तानन्दं विधत्ते सदसि भगवतः संततं यः स नन्दी ।
चण्डीशाद्यास्तथान्ये चतुरगुणगणप्रीणितस्वामिसत्का-
रोत्कर्षोद्यत्प्रसादाः प्रमथपरिबृढाः पान्तु सन्तोषिणो नः ॥१२॥
मुक्तामाणिक्यजालैः परिकलितमहासालमालोकनीयं
प्रत्युप्तानर्घरत्नैर्दिशि दिशि भवनैः कल्पितैर्दिक्पतीनां ।
उद्यानैरद्रिकन्यापरिजनवनितामाननीयैः परीतं
हृद्यं हृद्यस्तु नित्यं मम भुवनपतेर्धाम सोमार्धमौलेः ॥१३॥
स्तंभैर्जंभारिरत्नप्रवरविरचितैः संभृतोपांतभागं
शुंभत्सोपानमार्गं शुचिमणिनिचयैर्गुंभितानल्पशिल्पम् ।
कुंभैः संपूर्णशोभं शिरसि सुघटितैः शातकुंभैरपङ्कैः
शंभोः संभावनीयं सकलमुनिजनैः स्वस्तिदं स्यात्सदो नः ॥१४॥
न्यस्तो मध्ये सभायाः परिसरविलसत्पादपीठाभिरामो
हृद्यः पादैश्चतुर्भिः कनकमणिमयैरुच्चकैरुज्ज्वलात्मा ।
वासोरत्नेन केनाप्यधिकमृदुतरेणास्तृतो विस्तृतश्रीः
पीठः पीडाभरं नः शमयतु शिवयोः स्वैरसंवासयोग्यः ॥१५॥
आसीनस्याधिपीठं त्रिजगदधिपतेरंघ्रिपीठानुषक्तौ
पाथोजाभोगभाजौ परिमृदुलतलोल्लासिपद्मादिरेखौ ।
पातां पादावुभौ तौ नमदमरकिरीटोल्लसच्चारुहीर-
श्रेणीशोणायमानोन्नतनखदशकोद्भास्मानौ समानौ ॥१६॥
यन्नादो वेदचाचां निगदति निखिलं लक्षणं पक्षिकेतो-
र्लक्ष्मीसंभोगसौख्यं विरचयति ययोश्चापरे रूपभेदे ।
शंभोः संभावनीये पदकमलसमासङ्गतस्तुंगशोभे
मांगल्यं नः समग्रं सकलसुखकरे नूपुरे पूरयेताम् ॥१७॥
अंगे शृंगारयोनेः सपदि शलभतां नेत्रवह्नौ प्रयाते
शत्रोरुद्धृत्य तस्मादिषुधियुगमधोन्यस्तमग्रे किमेतत् ।
शङ्कामित्थं नतानाममरपरिषदामन्तरङ्कूरयत्त-
त्संघातं चारु जङ्खायुगमखिलपतेरंहसां संहरेन्नः ॥१८॥
जानुद्वन्द्वेन मीनध्वजनृवरसमुद्गोपमानेन साकं
राजन्तौ राजरंभाकरिकरकनकस्तंभसंभावनीयौ ।
ऊरू गौरीकरांभोरुहसरससमामर्दनानन्दभाजौ
चारू दूरीक्रियास्तां दुरितमुपचितं जन्मजन्मान्तरे नः ॥१९॥
आमुक्तानर्घरत्नप्रकरकरपरिष्वक्तकल्य़ाणकाञ्ची-
दाम्नाबद्धेन दुग्धद्युतिनिचयमुषा चीनपट्टांबरेण ।
संवीते शैलकन्यासुचरितपरिपाकायमाणे नितंबे
नित्यं नर्नर्तु चित्तं मम निखिलजगत्स्वामिनः सोममौलेः ॥२०॥
संध्याकालानुरज्यद्दिनकरसरुचा कालधौतेन गाढं
व्यानद्धः स्निग्धमुग्धः सरसमुदरबन्धेन वीतोपमेन ।
उद्दीप्रैः सुप्रकाशैरुपचितमहिमा मन्मथारेरुदारो
मध्यो मिथ्यार्थसध्र्यङ्मम दिशतु सदा संगतिं मंगलानाम् ॥२१॥
नाभीचक्रालवालान्नवनवसुषमादोहदश्रीपरीता-
दुद्गच्छन्ती पुरस्तादुदरपथमतिक्रम्य वक्षः प्रयान्ती ।
श्यामा कामागमार्थप्रकथनलिपिवद्भासते या निकामं
सा मा सोमार्धमौलेः सुखयतु सततं रोमवल्लीमतल्ली ॥२२॥
आश्लेषादद्रिजायाः कठिनकुचतटीलिप्तकाश्मीरपङ्क-
व्यासंगादुद्यदर्कद्युतिभिरुपचितस्पर्धमुद्दामहृद्यं ।
दक्षारातेरुदूढप्रतिनवमणिमालावलीभासमानं
वक्षो विक्षोभिताघं सततनतिजुषां रक्षतादक्षतं नः ॥२३॥
वामाङ्के विस्फुरन्त्याः करतलविलसत्चारुरक्तोत्पलायाः
कान्ताया वामवक्षोरुहभरशिखरोन्मर्दनव्यग्रमेकम् ।
अन्यांस्त्रीनप्युदारान्वरपरशुमृगालंकृतानिन्दुमौले-
र्बाहूनाबद्धहेमाङ्गदमणिकटकानन्तरालोकयामः ॥२४॥
संभ्रान्तायाः शिवायाः पतिविलयभिया सर्वलोकोपतापा-
त्संविग्नस्यापि विष्णोः सरभसमुभयोर्वारणप्रेरणाभ्यां ।
मध्ये त्रैशङ्कवीयामनुभवति दशां यत्र हालाहलोष्मा
सोऽयं सर्वापदां नः शमयतु निचयं नीलकणठस्य कण्ठः ॥२५॥
हृद्यैरद्रीन्द्रकन्यामृदुदशनपदैर्मुद्रितो विद्रुमश्री-
रुद्योतन्त्या नितान्तं धवलधवलया मिश्रितो दन्तकान्त्या ।
मुक्तामाणिक्यजालव्यतिकरसदृशा तेजसा भासमानः
सद्योजातस्य दद्यादधरमणिरसौसंपदां संचयं नः ॥२६॥
कर्णालंकारनानामणिनिकररुचां संचयैरञ्चितायां
वर्ण्यायां स्वर्णपद्मोदरविलसत्कर्णिकासन्निभायां
पद्धत्यां प्राणवायोः प्रणतजनहृदंभोजवासस्य शंभो-
र्नित्यं नश्चित्तमेतद्विरचयतु सुखेनासिकां नासिकायाम् ॥२७॥
अत्यन्तं भासमाने रुचिरतररुचां संगमात्सन्मणीना-
मुद्यच्चण्डांशुधामप्रसरनिरसनस्पष्टदृष्टापदाने ।
भूयास्तां भूतये नः करिवरजयिनः कर्णपाशावलंबे
भक्तालीभालसज्जज्जनिमरणलिपेः कुण्डले कुण्डले ते ॥२८॥
याभ्यां कालव्यवस्था भवति तनुमतां यो मुखं देवतानां
येषामाहुः स्वरूपं जगति मुनिवरा देवतानां त्रयीं तां
रुद्राणीवक्त्रपङ्केरुहसततविहारोत्सुकेन्दन्दिरेभ्य-
स्तेभ्यस्त्रिभ्यः प्रणामाञ्जलिमुपरचये त्रीक्षणस्येक्षणेभ्यः ॥२९॥
वामं वामाङ्कगाया वदनसरसिजे व्यावलद्वल्लभाया
व्यानम्रेष्वन्यदन्यत्पुनरलिकभवं वीतनिःशेषरौक्ष्यम् ।
भुयो भूयोऽपि मोदान्निपतदतिदयाशीतलं चूतबाणे
दक्षारेरीक्षणानां त्रयमपहरतादाशु तापत्रयं नः ॥३०॥
यस्मिन्नर्धेन्दुमुग्धद्युतिनिचयतिरस्कारनिस्तन्द्रकान्तौ
काश्मीरक्षोदसंकल्पितमिव रुचिरं चित्रकं भाति नेत्रं ।
तस्मिन्नुल्लोलचिल्लीनटवरतरुणीलास्यरङ्गायमाणे
कालारेः फालदेशे विहरतु हृदयं वीतचिन्तान्तरं न: ॥३१॥
स्वामिन् गंगामिवाङ्गीकुरु तव शिरसा मामपीत्यर्थयन्तीं
धन्यां कन्यां खरांशोः शिरसि वहति किं न्वेष कारुण्यशाली ।
इत्थं शंकां जनानां जनयदतिघनं कैशिकं कालमेघ-
च्छायं भूयादुदारंत्रिपुरविजयिनः श्रेयसे भूयसे नः ॥३२॥
शृंगाराकल्पयोग्यैः शिखरिवरसुतासत्सखीहस्तलूनैः
सूनैराबद्धमालावलिपरिविलसत्सौरभाकृष्टभृङ्गम् ।
तुंगं माणिक्यकान्त्या परिहसितसुरावासशैलेन्द्रशृंगं
संघं न: संकटानां विघटयतु सदा काङ्कटीकं किरीटम् ॥३३॥
वक्राकारः कलङ्की जडतनुरहमप्यङ्घ्रिसेवानुभावा-
दुत्तंसत्त्वं प्रयातः सुलभतरकृपास्यन्दिनश्चन्द्रमौलेः ।
तत्सेवन्तां जनौघाः शिवमिति निजयावस्थयैव ब्रुवाणं
वन्दे देवस्य शंभोर्मुकुटसुघटितं मुग्धपीयूषभानुम् ॥३४॥
कन्त्या संफुल्लमल्लीकुसुमधवलया व्याप्य विश्वं विराज-
न्वृत्ताकारो वितन्वन्मुहुरपि च परां निर्वृतिं पादभाजां ।
सानन्दं नन्दिदोष्णा मणिकटकवता वाह्यमानः पुरारेः
श्वेतच्छत्राख्यशीतद्युतिरपहरतादापदस्तापदा नः ॥३५॥
दिव्याकल्पोज्ज्वलानां शिवगिरिसुतयोः पार्श्वयोराश्रितानां
रुद्राणीसत्सखीनां मदतरलकटाक्षाञ्चलैरञ्चितानाम् ।
उद्वेलद्बाहुवल्लीविलसनसमये चामरान्दोलनीना-
मुद्भूतः कंकणालीवलयकलकलो वारयेदापदो नः ॥३६॥
स्वर्गौकःसुन्दरीणां सुललितवपुषां स्वामिसेवापराणां
वल्गद्भूषाणि वक्त्रांबुजपरिविगलन्मुग्धगीतामृतानि ।
नित्यं नृत्तान्युपासे भुजविधुतिपदन्यासभावावलोक-
प्रत्युद्यत्प्रीतिमाद्यत् प्रमथनटनटीदत्तसंभावनानि ॥३७॥
स्थानप्राप्त्या स्वराणां किमपि विशदतां व्यञ्जयन्मञ्जुवीणा-
स्वानावच्छिन्नतालक्रमममृतमिवास्वाद्यमानं शिवाभ्याम् ।
नानारागातिहृद्यं नवरसमधुरस्तोत्रजातानुविद्धं
गानम् वीणामहर्षेः कलमतिललितं कर्णपूरायतां नः ॥३८॥
चेतो जातप्रमोदं सपदि विदधती प्राणिनां वाणिनीनां
पाणिद्वन्द्वाग्रजाग्रत्सुललितरणितस्वर्णतालानुकूला
स्वीयारावेण पाथोधररवपटुना नादयन्ती मयूरीं
मायूरी मन्दभावं मणिमुरजभवा मार्ज्जना मार्जयेन्नः ॥३९॥
देवेभ्यो दानवेभ्यः पितृमुनिपरिषत्सिद्धविद्याधरेभ्यः
साध्येभ्यश्चारणेभ्यो मनुज पशुपतज्जातिकीटादिकेभ्यः ।
श्रीकैलासप्ररूढास्तृणविटपिमुखाश्चापि ये सन्ति तेभ्यः
सर्वेभ्यो निर्विचारं नतिमुपरचये शर्वपादाश्रयेभ्यः ॥४०॥
ध्यायन्नित्थं प्रभाते प्रतिदिवसमिदं स्तोत्ररत्नं पठेद्यः
किं वा ब्रूमस्तदीयं सुचरितमथवा कीर्तयामः समासात् ।
संपज्जातं समग्रंसदसि बहुमतिं सर्वलोकप्रियत्वं
संप्राप्यायुःशतान्ते पदमयति परब्रह्मणो मन्मथारेः ॥४१॥
 
********************* 
 
शिवकेशादिपादान्तवर्णनस्तोत्रम् 
देयासुर्मूर्ध्नि राजत्सरससुरसरित्पारपर्यन्तनिर्य-
त्प्रांशुस्तंबाः पिशङ्गास्तुलितपरिणतारक्तशालीलता वः ।
दुर्वारापत्तिगर्तश्रितनिखिलजनोत्तारणे रज्जुभूता
घोराघोर्वीरुहालीदहनशिखिशिखाः शर्म शार्वाः कपर्दाः ॥१॥
कुर्वन्निर्वाणमार्गप्रगमपरिलसद्रूप्यसोपानशङ्कां
शक्रारीणां पुराणां त्रयविजयकृतस्पष्टरेखायमाणम् ।
अव्यादव्याजमुच्चैरलिकहिमधराधित्यकान्तस्त्रिधोद्य-
ज्जाह्नव्याभं मृडानीकमितुरुडुपरुक्पाण्डरं वस्त्रिपुण्ड्रम् ॥२॥
क्रुध्यद्गौरीप्रसादानतिसमयपदांगुष्ठसंक्रान्तलाक्षा-
बिन्दुस्पर्धि स्मरारे: स्फटिकमणिदृषन्मग्नमाणिक्यशोभं ।
मूर्ध्न्युद्यद्दिव्यसिन्धोः पतितशफरिकाकारि वो मास्तकं स्या-
दस्तोकापत्तिकृत्त्यै हुतवहकणिकामोक्षरूक्षं सदाक्षि ॥३॥
भूत्यै दृग्भूतयोः स्याद्यदहिमहिमरुग्बिंबयोः स्निग्धवर्णो
दैत्यौघध्वंसशंसी स्फुट इव परिवेषावशेषो विभाति ।
सर्गस्थित्यन्तवृत्तिर्मयिसमुपगतेतीव निर्वृत्तगर्वम्
शर्वाणीभर्तुरुच्चैर्युगलमथ दधद्विभ्रमं तद्भ्रुवोर्वः ॥४॥
युग्मे रुक्माब्जपिङ्गे ग्रह इव पिहिते द्राग्ययोः प्राग्दुहित्रा
शैलस्य ध्वान्तनीलांबररचितबृहत्कञ्चुकोऽभूत् प्रपञ्चः
ते त्रैनेत्रे पवित्रे त्रिदशवरघटामित्रजैत्रोग्रशस्त्रे
नेत्रे नेत्रे भवेतां द्रुतमिह भवतामिन्द्रियाश्वान्नियन्तुम् ॥५॥
चण्डीवक्त्रार्पणेच्छोस्तदनु भगवतः पाण्डुरुक्पाण्डु गण्ड-
प्रोद्यत्कण्डूं विनेतुं वितनुत इव ये रत्नकोणैर्विघृष्टिम्
चण्डार्चिर्मण्डलाभे सततनतजनध्वान्तखण्डातिशौण्डे
चाण्डीशे ते श्रिये स्तामधिकमवनताखण्डले कुण्डले व: ॥६॥
खट्वाङ्गोदग्रपाणेः स्फुटविकटपुटो वक्त्ररन्ध्रप्रवेश-
प्रेप्सूदञ्चत्फणोरुश्वसदतिधवलाहीन्द्रशंकां दधानः ।
युष्माकं कम्रवक्त्रांबुरुहपरिलसत्कर्णिकाकारशोभः
शश्वत्त्राणाय भूयादलमतिविमलोत्तुङ्गकोणः स घोणः ॥७॥
क्रुद्धत्यधा ययोः स्वां तनुमतिलसतोर्बिंबितां लक्षयन्ती
भर्त्रे स्पर्धातिनिघ्ना मुहुरितरवधूशङ्कया शैलकन्या ।
युष्मांस्तौ शश्वदुच्चैरबहुलदशमीशर्वरीशातिशुभ्रा-
वव्यास्तां दिव्यसिन्धोः कमितुरवनमल्लोकपालौ कपोलौ ॥८॥
यो भासा भात्युपान्तस्थित इव निभृतं कौस्तुभो द्रष्टुमिच्छन्
सोत्थस्नेहान्नितान्तं गलगतगरलं पत्युरुच्चैः पशूनाम्
प्रोद्यत्प्रेम्णायमार्द्रापिबतिगिरिसुता संपदः सातिरेका
लोकाः शोणीकृतान्ता यदधरमहसा सोऽधरो वो विधत्ताम् ॥९॥
अत्यर्थं राजते या वदनशशधरादुद्गलच्चारुवाणी-
पीयूषांभः प्रवाहप्रसरपरिलसत्फेनबिन्द्वावलीव ।
देयात्सा दन्तपङ्क्तिश्चिरमिह दनुदायाददौवारिकस्य
द्युत्या दीप्तेन्दुकुन्दच्छविरमलतरप्रोन्नताग्रा मुदं वः ॥१०॥
न्यक्कुर्वन्नुर्वराभृन्निभघनसमयोद्घुष्टमेघौघघोषं
स्फूर्जद्वार्ध्युत्थितोरुध्वनितमपि परब्रह्मभूतो गभीरः ।
सुव्यक्तो व्यक्तमूर्तेः प्रकटितकरणः प्राणनाथस्य सत्याः
प्रीत्या वः संविदध्यात् फलविकलमलं जन्म नादः सनादः ॥११॥
भासा यस्य त्रिलोकी लसति परिलसत् फेनबिन्द्वर्णवान्त-
र्व्यामग्नेवातिगौरस्तुलितसुरसरिद्वारिपूरप्रसारः ।
पीनात्मा दन्तभाभिर्भृशमहहहकारातिभीमः सदेष्टां
पुष्टां तुष्टिं कृषीष्ट स्फुटमिह भवतामट्टहासोऽष्टमूर्तेः ॥१२॥
सद्योजाताख्यमाप्यं यदुविमलमुदग्वर्ति यद्वामदेवं
नाम्ना हेम्ना सदृक्षं जलदनिभमघोराह्वयं दक्षिणं यत् ।
यद्बालार्कप्रभं तत्पुरुषनिगदितं पूर्वमीशानसंज्ञं
यद्दिव्यं तानि शंभोर्भवदभिलषितं पञ्च दद्युर्मुखानि ॥१३॥
आत्मप्रेम्णा भवान्या स्वयमिव रचिताः सादरं सांवनन्या
मष्या तिस्रःसुनीलाञ्जननिभगररेखाः समाभान्ति यस्यां ।
आकल्पानल्पभासा भृशरुचिरतरा कंबुकल्पांबिकायाः
पत्युः सात्यन्तमन्तर्विलसतु सततं मन्थरा कंधरा वः ॥१४॥
वक्त्रेन्दोर्दन्तलक्ष्म्याश्चिरमधरमहाकौस्तुभस्याप्युपान्ते
सोत्थानां प्रार्थयन्यः स्थितिमचलभुवे वारयन्त्यै निवेशं
प्रायुङ्क्तेवाशिषो यः प्रतिपदममृतत्वे स्थितः कालशत्रोः
कालं कुर्वन् गलं वो हृदयमयमलं क्षालयेत्काळकूटः ॥१५॥
प्रौढप्रेमाकुलाया दृढतरपरिरंभेषु पर्वेन्दुमुख्याः
पार्वत्याश्चारुचामीकरवलयपदैरङ्कितं कान्तिशालि ।
रङ्गन्नागाङ्गदाढ्यं सततमविहितं कर्म निर्मूलयेत्त-
द्दोर्मूलं निर्मलं यद्धृदि दुरितमपास्यार्जितं धूर्जटेर्वः ॥१६॥
कण्ठाश्लेषार्थमाप्ता दिव इव कमितुः स्वर्गसिन्धोः प्रवाहाः
क्रान्त्यै संसारसिन्धोः स्फटिकमणिमहासंक्रमाकारदीर्घाः ।
तिर्यग्विष्कंभभूतास्त्रिभुवनवसतेर्भिन्नदैत्येभदेहा
बाहा वस्ता हरस्य द्र्रतमिह निवहानंहसां संहरन्तु ॥१७॥
वक्षो दक्षद्विषोऽलं स्मरभरविनमद्दक्षजाक्षीणवक्षो-
जान्तर्निक्षिप्तशुंभन्मलयजमिलितोद्भासि भस्मोक्षितं यत् ।
क्षिप्रं तद्रूक्षचक्षुःश्रुतिगणफणरत्नौघभाभीक्ष्णशोभं
युष्माकं शश्वदेनः स्फटिकमणिशिलामण्डलाभं क्षिणोतु ॥१८॥
मुक्तामुक्ते विचित्राकुलवलिलहरीजालशालिन्यवाञ्च-
न्नाभ्यावर्ते विलोलद्भुजगवरयुते कालशत्रोर्विशाले ।
युष्मच्चित्तत्रिधामा प्रतिनवरुचिरे मन्दिरे कान्तिलक्ष्म्याः
शेतां शीतांशुगौरे चिरतरमुदरक्षीरसिन्धौ सलीलम् ॥१९॥
वैयाघ्री यत्र कृत्तिः स्फुरति हिमगिरेर्विस्तृतोपत्यकान्तः
सान्द्रावश्यायमिश्रा परित इव वृता नीलजीमूतमाला ।
आबद्धाहीन्द्रकाञ्चीगुणमति पृथुलं शैलजाक्रीडभूमि
स्तद्वो निःश्रेयसे स्याज्जघनमतिघनं बालशीतांशुमौलेः ॥२०॥
पुष्टावष्ठंभभूतौ पृथुतरजघनस्यापि नित्यं त्रिलोक्याः
सम्यग्वृत्तौ सुरेन्द्रद्विरदवरकरोदारकान्तिं दधानौ ।
सारावूरूपुरारेः प्रसभमरिघटाघस्मरौ भस्मशुभ्रौ
भक्तैरत्यार्द्रचित्तैरधिकमवनतौ वाञ्छितं वो विधत्ताम् ॥२१॥
आनन्दायेन्दुकान्तोपलरचितसमुद्गायिते ये मुनीनां
चित्तादर्शं निधातुं विदधति चरणे ताण्डवाकुञ्चनानि ।
काञ्चीभोगीन्द्रमूर्ध्नां प्रतिमुहुरुपधानायमाने क्षणं ते
शिवपञ्चाक्षरनक्षत्रमाला स्तोत्रम्
श्रीमदात्मने गुणैकसिन्धवे नमः शिवाय
धामलेशधूतकोकबन्धवे नमः शिवाय ।
नामशेषितानमद्भावसिन्धवे नमः शिवाय
पामरेतरप्रधानबन्धवे नमः शिवाय ॥१॥
 
कालभीतविप्रबालपाल ते नमः शिवाय
शूलभिन्नदुष्टदक्षफाल ते नमः शिवाय ।
मूलकारणाय कालकाल ते नमः शिवाय
पालयाधुना दयालवाल ते नमः शिवाय ॥२॥
 
इष्टवस्तुमुख्यदानहेतवे नमः शिवाय
दुष्टदैत्यवंशधूमकेतवे नमः शिवाय ।
वृष्टिरक्षणाय धर्मसेतवे नमः शिवाय
अष्टमूर्तये वृषेन्द्रकेतवे नमः शिवाय ॥३॥
 
आपदद्रिभेदटङ्कहस्त ते नमः शिवाय
पापहारिदिव्यसिन्धुमस्त ते नमः शिवाय ।
पापदारिणे लसन्नमस्तते नमः शिवाय
शापदोषखण्डनप्रशस्त ते नमः शिवाय ॥४॥
 
व्योमकेश दिव्यभव्यरूप ते नमः शिवाय
हेममेदिनीधरेन्द्रचाप ते नमः शिवाय ।
नाममात्रदग्धसर्वपाप ते नमः शिवाय
कामनैकतानहृद्दुराप ते नमः शिवाय ॥५॥
 
ब्रह्ममस्तकावलीनिबद्ध ते नमः शिवाय
जिह्मगेन्द्रकुण्डल प्रसिद्ध ते नमः शिवाय ।
ब्रह्मणे प्रणीतवेदपद्धते नमः शिवाय
जिह्मकालदेहदत्तपद्धते नमः शिवाय ॥६॥
 
कामनाशनाय शुद्धकर्मणे नमः शिवाय
सामगानजायमानशर्मणे नमः शिवाय ।
हेमकान्तिचाकचिक्यकर्मणे नमः शिवाय
सामजासुराङ्गलब्धचर्मणे नमः शिवाय ॥७॥
 
जन्ममृत्युघोरदुःखहारिणे नमः शिवाय
चिन्मयैकरूपदेहधारिणे नमः शिवाय ।
मन्मनोरथावपूर्तिकारिणे नमः शिवाय
सन्मनोगताय कामवैरिणे नमः शिवाय ॥८॥
 
यक्षराजबन्धवे दयालवे नमः शिवाय
दक्षपाणिशोभिकाञ्चनालवे नमः शिवाय ।
पक्षिराजवाहहृच्छयालवे नमः शिवाय
अक्षिफाल वेदपूततालवे नमः शिवाय ॥९॥
 
दक्षहस्तनिष्ठजातवेदसे नमः शिवाय
अक्षरात्मने नमद्बिडौजसे नमः शिवाय ।
दीक्षितप्रकाशितात्मतेजसे नमः शिवाय
उक्षराजवाह ते सतां गते नमः शिवाय ॥१०॥
 
राजताचलेन्द्रसानुवासिने नमः शिवाय
राजमाननित्यमन्दहासिने नमः शिवाय ।
राजकोरकावतंसभासिने नमः शिवाय
राजराजमित्रताप्रकाशिने नमः शिवाय ॥११॥
 
दीनमानवालिकामधेनवे नमः शिवाय
सूनबाणदाहकृत्कृशानवे नमः शिवाय ।
स्वानुरागभक्तरत्नसानवे नमः शिवाय
दानवान्धकारचण्डभानवे नमः शिवाय ॥१२॥
 
सर्वमङ्गलाकुचाग्रशायिने नमः शिवाय
सर्वदेवतागणातिशायिने नमः शिवाय ।
पूर्वदेवनाशसंविधायिने नमः शिवाय
सर्वमन्मनोजभङ्गदायिने नमः शिवाय ॥१३॥
 
स्तोकभक्तितोऽपि भक्तपोषिणे नमः शिवाय
माकरन्दसारवर्षिभाषिणे नमः शिवाय ।
एकबिल्वदानतोऽपि तोषिणे नमः शिवाय
नैकजन्मपापजालशोषिणे नमः शिवाय ॥१४॥
 
सर्वजीवरक्षणैकशीलिने नमः शिवाय
पार्वतीप्रियाय भक्तपालिने नमः शिवाय ।
दुर्विदग्धदैत्यसैन्यदारिणे नमः शिवाय
शर्वरीशधारिणे कपालिने नमः शिवाय ॥१५॥
 
पाहि मामुमामनोज्ञदेह ते नमः शिवाय
देहि मे वरं सिताद्रिगेह ते नमः शिवाय ।
मोहितर्षिकामिनीसमूह ते नमः शिवाय
स्वेहितप्रसन्नकामदोह ते नमः शिवाय ॥१६॥
 
मङ्गलप्रदाय गोतुरंग ते नमः शिवाय
गङ्गया तरङ्गितोत्तमाङ्ग ते नमः शिवाय ।
संगरप्रवृत्तवैरिभङ्ग ते नमः शिवाय
अङ्गजारये करेकुरङ्ग ते नमः शिवाय ॥१७॥
 
ईहितक्षणप्रदानहेतवे नमः शिवाय
आहिताग्निपालकोक्षकेतवे नमः शिवाय ।
देहकान्तिधूतरौप्यधातवे नमः शिवाय
गेहदुःखपुञ्जधूमकेतवे नमः शिवाय ॥१८॥
 
त्र्यक्ष दीनसत्कृपाकटाक्ष ते नमः शिवाय
दक्षसप्ततन्तुनाशदक्ष ते नमः शिवाय ।
ऋक्षराजभानुपावकाक्ष ते नमः शिवाय
रक्ष मां प्रपन्नमात्ररक्ष ते नमः शिवाय ॥१९॥
 
न्यङ्कुपाणये शिवंकराय ते नमः शिवाय
सङ्कटाब्धितीर्णकिङ्कराय ते नमः शिवाय ।
पङ्कभीषिताभयंकराय ते नमः शिवाय
पङ्कजाननाय शंकराय ते नमः शिवाय ॥२०॥
 
कर्मपाशनाश नीलकण्ठ ते नमः शिवाय
शर्मदाय नर्यभस्मकण्ठ ते नमः शिवाय ।
निर्ममर्षिसेवितोपकण्ठ ते नमः शिवाय
कुर्महे नतीर्नमद्विकुण्ठ ते नमः शिवाय ॥२१॥
 
विष्टपाधिपाय नम्रविष्णवे नमः शिवाय
शिष्टविप्रहृद्गुहाचरिष्णवे नमः शिवाय ।
इष्टवस्तुनित्यतुष्टजिष्णवे नमः शिवाय
कष्टनाशनाय लोकजिष्णवे नमः शिवाय ॥२२॥
 
अप्रमेयदिव्यसुप्रभाव ते नमः शिवाय
सत्प्रपन्नरक्षणस्वभाव ते नमः शिवाय ।
स्वप्रकाश निस्तुलानुभाव ते नमः शिवाय
विप्रडिम्भदर्शितार्द्रभाव ते नमः शिवाय ॥२३॥
 
सेवकाय मे मृड प्रसीद ते नमः शिवाय
भावलभ्य तावकप्रसाद ते नमः शिवाय ।
पावकाक्ष देवपूज्यपाद ते नमः शिवाय
तावकाङ्घ्रिभक्तदत्तमोद ते नमः शिवाय ॥२४॥
 
भुक्तिमुक्तिदिव्यभोगदायिने नमः शिवाय
शक्तिकल्पितप्रपञ्चभागिने नमः शिवाय ।
भक्तसंकटापहारयोगिने नमः शिवाय
युक्तसन्मनःसरोजयोगिने नमः शिवाय ॥२५॥
 
अन्तकान्तकाय पापहारिणे नमः शिवाय
शंतमाय दन्तिचर्मधारिणे नमः शिवाय ।
सन्तताश्रितव्यथाविदारिणे नमः शिवाय
जन्तुजातनित्यसौख्यकारिणे नमः शिवाय ॥२६॥
 
शूलिने नमो नमः कपालिने नमः शिवाय
पालिने विरिञ्चितुण्डमालिने नमः शिवाय ।
लीलिने विशेषरुण्डमालिने नमः शिवाय
शीलिने नमः प्रपुण्यशालिने नमः शिवाय ॥२७॥
 
शिवपञ्चाक्षरमुद्रां
चतुष्पदोल्लासपद्यमणिघटिताम् ।
नक्षत्रमालिकामिह
दधदुपकण्ठं नरो भवेत्सोमः ॥२८॥
 
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौशिवपञ्चाक्षरनक्षत्रमालास्तोत्रम् संपूर्णम्॥
 
********************** 
सशक्तिशिवनवकम् 
वेदशास्त्रपुराणेतिहासकाव्यकलादिषु ।
विज्ञानं देहि मे ऐं नमः क्लीं शिवाय सौ ॥१॥
 
चतुर्द्शासु विद्यासु चतुष्षष्टिकलासु च ।
चतुरां धियमाधेहि ऐं नमः क्लीं शिवाय सौ ॥२॥
 
मीमांसायां समस्तायां शब्दशास्त्रे विशेषतः ।
देहि मे देव संप्राज्ञं ऐं नमः क्लीं शिवाय सौ ॥३॥
 
गणितेषु च सर्वज्ञ देहि मे परमेश्वर
सम्यक् ज्ञानं जगन्नाथ ऐं नमः क्लीं शिवाय सौ ॥४॥
 
सकलेष्वपि काव्येषु सकलासु कलासु च
साहित्यं देहि मे वाचं ऐं नमः क्लीं शिवाय सौ ॥५॥
 
हृदयाम्बुरुहेनित्यं वस मे परमेश्वर
हर मे दुरितं शश्वत् ऐं नमः क्लीं शिवाय सौ ॥६॥
 
जन्मान्तरकृतं पापं बुद्धेर्जाड्यकरं शिव ।
जहि जन्तुषु निन्दां च ऐं नमः क्लीं शिवाय सौ ॥७॥
 
विषयेषु विरक्तिं च विविधेषु विधेहि मे ।
विनतेष्टद विश्वेश ऐं नमः क्लीं शिवाय सौ ॥८॥
 
मुक्तिमार्गपरं चित्तं कुरु मे जगदीश्वर
मुग्धचन्द्रकलाचूड ऐं नमः क्लीं शिवाय सौ ॥९॥
 
इत्येतद् नवकं नित्यं भक्तितो यः पठेन्नरः ।
प्रारंभास्तस्य सिध्यन्ति प्रार्थितं चापि सिध्यति ॥१०॥
 
********************** 
शिवपञ्चाननध्यानम्
प्रालेयाचलमिदुकुन्दधवलं गोक्षीरफेनप्रभं
भस्माभ्यंगमनङ्गदेहदहनज्वालावलीलोचनम् ।
विष्णुब्रह्ममरुद्गणार्चितपदं चार्ग्वेदनादोदयं
वन्देऽहं सकलं कलङ्करहितं स्थाणोर्मुखं पश्चिमम् ॥१॥
 
गौरं कुङ्कुमपङ्किलं सुतिलकं व्यापाण्डु कण्ठस्थलं
भ्रूविक्षेपकटाक्षवीक्षणलसद्संसक्तकर्णोत्पलम् ।
स्निग्धं बिम्बफलाधरं प्रहसितं नीलालकालंकृतं
वन्दे याजुषवेदघोषजनकं वक्त्रं हरस्योत्तरम् ॥२॥
 
सांवर्ताग्नितटित्प्रतप्तकनकप्रस्पर्धितेजोमयं
गम्भीरध्वनिसामवेदजनकं ताम्राधरं सुन्दरम् ।
अर्धेन्दुद्युति फालपिङ्गलजटाभारप्रबद्धोरगं
वन्दे सिद्धसुरासुरेन्द्रनमितं पूर्वं मुखं शूलिनः ॥३॥
 
कालाभ्रभ्रमराञ्जनद्युतिनिभं व्यावर्तिपिङ्गेक्षणं
कर्णोद्भासितभोगिमस्तकमणिप्रोत्फुल्लदंष्ट्राङ्कुरम् ।
सर्पप्रोतकपालमिन्दुशकलव्याकीर्णसच्छेखरं
वन्दे दक्षिणमीश्वरस्यवदनं चाथर्ववेदोदयम् ॥४॥
 
व्यक्ताव्यक्तनिरूपितं च परमं षट्त्रिंशतत्त्वाधिकम्
तस्मादुत्तरतत्त्वमक्षरमिति ध्येयं सदा योगिभिः ।
ओंकारादि समस्तमन्त्रजनकं सूक्ष्मादिसूक्ष्मं परम्
वन्दे पञ्चममीश्वरस्य वदनं खं व्यापि तेजोमयम् ॥५॥
 
एतानि पञ्चवदनानि महेश्वरस्य
ये कीर्तयन्ति पुरुषाः सततं प्रदोषे ।
गच्छन्ति ते शिवपुरीं रुचिरैर्विमानैः
क्रीडन्ति नन्दनवने सह लोकपालैः ॥६॥
 
********************** 
गौरीपति संकीर्तनम्
गौरीपते जय गौरीपते जय ।
गौरीपते जय गौरीपते ॥
सन्ततशोभन संसारभञ्जन ।
सन्तोषभाषण पालय माम् ॥१॥(गौरी…)
अंगजचारुशरीरविनाशन ।
पुङ्गवकेतन पालय माम् ॥२॥
(गौरी…)
अन्तकनाशनाहन्ताविनाशन ।
सिन्धुरनाशन पालय माम् ॥३॥
(गौरी…)
गङ्गातरङ्गभुजङ्गविभूषण
शृंगारोज्ज्वल
पालय माम् ॥४॥ (गौरी…)
पार्वतिवल्लभ
पापविमोचन
सकलानन्द पालय माम् ॥५॥
(गौरी…)
बालेन्दुमण्डन फालविलोचन
नीलकण्ठेश्वर पालय माम् ॥६॥
(गौरी…)
दक्षाध्वरान्तक दाक्षायणीनाथ
दक्षिणामूर्ते पालय माम् ॥७॥ (गौरी…)
कारुण्यसागर कामदायिन् पर्-
मानन्दरूप नमामि शंभो ॥८॥ (गौरी…)
निष्कल निर्मल नित्य निरञ्जन ।
निष्कलङ्कात्मन् नमामि विभो ॥९॥ (गौरी…)
राजशिखामणे तेजोनिधे त्याग-
राजमहेश नमामि शम्भो ॥१०॥ (गौरी…)
भक्तप्रिय शिव शंकर चिन्मय
ब्रह्मस्वरूप नमामि विभो ॥११॥(गौरी…)
योगिजनाश्रय रोगविनाशन ।
भोगिविभूष नमामि शंभो ॥१२॥ (गौरी…)
संसारभञ्जन कंसारिरञ्जन ।
हंसाद्यगम्य नमामि विभो ॥१३॥ (गौरी…)
आधिविनाशन व्याधिविनाशन ।
स्वाधीनमोक्ष नमामि विभो ॥१४॥ (गौरी…)
पङ्कजबाणभयंकर शङ्कर ।
पङ्कविहीन नमामि विभो ॥१५॥(गौरी…)
अन्ताद्यहीन सदन्तरंगस्थित ।
सन्ततं कान्त नमामि विभो ॥१६॥(गौरी…)
गौरीपते जय गौरीपते जय ।
गौरीपते जय गौरीपते ॥
================
 
शिवषडक्षरस्तोत्रम् – २
ओंकारसंज्ञाय समस्तवेद-
पुराणपुण्यागमपूजिताय
ओंकाररूप प्रियदर्शनाय
ओंकाररूपाय नमः शिवाय ॥१॥
नाना जराव्याधि विनाशनाय
नाथाय लोकस्य जगद्धिताय ।
नाना कलाज्ञान निदर्शनाय
तस्मै नकाराय नमः शिवाय ॥२॥
मात्सर्यदोषान्तक संभवाय
मातुः पितुः दुःखनिवरणाय ।
माहेश्वरी सूक्ष्मवराय नित्यं
तस्मै मकाराय नमः शिवाय ॥३॥
शीलव्रतज्ञानदृढव्रताय
शीलासुवर्णाय समुत्सुकाय ।
शीघ्राय नित्यं सुरसेविताय
तस्मै शिकाराय नमः शिवाय ॥४॥
वामार्धविद्युत्प्रतिमप्रभाय
वचो मनः कर्म विमोचनाय ।
वागीश्वरी सूक्ष्मवराय नित्यं
तस्मै वकाराय नमः शिवाय ॥५॥
यक्षोरगेन्द्रादिसुरावृताय
यक्षाङ्गनाजन्मविमोचनाय
यक्षेषु लोकेषु जगद्धिताय
तस्मै यकाराय नमः शिवाय ॥६॥
उत्फुल्लनीलोत्पललोचनायै
कृशानुचन्द्रार्कविलोचनाय ।
निरीश्वरायै निखिलेश्वराय
नमः शिवायै च नमः शिवाय ॥७॥
 
********************** 
किरातवाराही स्तोत्रम्
अस्य श्री किरातवराही स्तोत्रमन्त्रस्य
किरातवराह ऋषिः
 
अनुष्टुप् छन्दः
 
शत्रुनिवारिणी वाराही देवता
तदनुग्रहेण सर्वोपद्रवशान्त्यर्थे जपे विनियोगः
उग्ररूपां महादेवीं शत्रुमारणतत्पराम् ।
क्रूरां किरातवाराहीं वन्देऽहं कार्यसिद्धये ॥१॥
 
स्वापहीनां मदालस्यां तां मातां मदतामसीं ।
दंष्ट्राकरालवदनां विकृतास्यां महाबलाम् ॥२॥
 
उग्रकेशीं उग्रकरांसोमसूर्याग्निलोचनाम् ।
लोचनाग्निस्फुलिङ्गाभिर्भस्मीकृतजगत्त्रयीम् ॥३॥
 
जगत्त्रयं क्षोभयन्तीं भक्षयन्तीं मुहुर्मुहुः ।
खड्गं च मुसलं चैव हलं शोणितपात्रकम् ॥४॥
 
दधतीं च चतुर्हस्तां सर्वाभरण्भूषिताम् ।
गुंजामालां शंखमालां नानारत्नैर्वराटकैः ॥५॥
 
हारनूपुरकेयूरकटकैरुपशोभिताम् ।
वैरिपत्निकण्ठसूत्रच्छेदिनीं क्रूररूपिणीम् ॥६॥
 
क्रुद्धोद्धतां प्रजाहन्तृक्षुरिकेवस्थिताम् सदा ।
देवतार्धोरुयुगलां रिपुसंहारताण्डवां ॥७॥
 
रुद्रशक्तिं सदोद्युक्तां ईश्वरीं परदेवताम् ।
विभज्य कण्ठनेत्राभ्यां पिबन्तीं असृजं रिपोः ॥८॥
 
गोकण्ठे मदशार्दूलो गजकण्ठे हरिर्यथा ।
कुपितायां च वाराह्यां पतन्तीं नाशयन् रिपून् ॥९॥
 
सर्वे समुद्राः शुष्यन्ति कंपन्ते सर्वदेवताः ।
विधिविष्णुशिवेन्द्राद्या मृत्युभीताः पलायिताः ॥१०॥
 
एवं जगत्त्रयक्षोभकारकक्रोधसंयुताम् ।
साधकस्य पुरः स्थित्वा प्रद्रवन्तीं मुहुर्मुहुः ॥११॥
 
लेलिहानां बृहद्जिह्वां रक्तपानविनोदिनीम् ।
त्वगसृङ्मांसमेदोस्थिमज्जाशुक्राणि सर्वदा ॥१२॥
 
भक्षयन्तीं भक्तशत्रून् रिपूणां प्राणहारिणीम्
एवं विधां महादेवीं ध्यायेऽहं कार्यसिद्धये ॥१३॥
 
शत्रुनाशनरूपाणि कर्माणि कुरु पञ्चमि ।
मम शत्रून् भक्षयाशु घातयाऽसाधकान् रिपून् ॥१४॥
 
सर्वशत्रुविनाशार्थं त्वामेव शरणं गतः ।
तस्मादवश्यं वाराहि शत्रूणां कुरु नाशनम् ॥१५॥
 
यथा नश्यन्ति रिपवस्तथा विद्वेषणं कुरु ।
यस्मिन् काले रिपून् तुभ्यं अहं वक्ष्यामि तत्त्वतः ॥१६॥
 
मां दृष्ट्वा ये जना नित्यं विद्विषन्ति हनन्ति च ।
दुष्यन्ति च निन्दन्ति वाराहि तांश्च मारय ॥१७॥
 
मा हन्तु ते मुसलः शत्रून् अशनेः पतनादिव ।
शत्रुग्रामान् गृहान्देशान् राष्ट्रान् प्रविश सर्वशः ॥१८॥
 
उच्चाटय च वाराहि काकवद्भ्रमयाशु तान् ।
अमुकाऽमुक संज्ञानां शत्रूणां च परस्परम् ॥१९॥
 
दारिद्र्यं मे हन हन शत्रून् संहर संहर ।
उपद्रवेभ्यो मां रक्ष वाराहि भक्तवत्सले ॥२०॥
 
एतत्किरातवाराह्या स्तोत्रमापन्निवारणम् ।
मारकः सर्वशत्रूणां सर्वाभीष्टफलप्रदम् ॥२१॥
 
त्रिसन्ध्यं पठते यस्तु स्तोत्रोक्तफलमश्नुते ।
मुसलेनाऽथ शत्रूंश्च मारयन्तीं स्मरन्तिये ॥२२॥
 
तार्क्ष्यारूढां सुवर्णाभां जपेत्तेषां न संशयः ।
अचिराद्दुस्तरं साध्यं हस्तेनाऽऽकृष्य दीयते ॥२३॥
 
एवं ध्यायेज्जपेद्देवीं जनवश्यमवाप्नुयात् ।
दंष्ट्राधृतभुजां नित्यं प्राणवायुं प्रयच्छति ॥२४॥
 
दूर्वाभां संस्मरेद्देवीं भूलाभं याति बुद्धिमान् ।
सकलेष्टार्थदा देवी साधक स्तोत्र दुर्लभः ॥२५॥
 
********************** 

शिवोपासन-मन्त्राः (महानारायणोपनिषत्)
निधनपतये नमः । निधनपतान्तिकाय नमः ।ऊर्ध्वाय
नमः । ऊर्ध्वलिङ्गाय नमः ।
हिरण्याय नमः । हिरण्यलिङ्गाय नमः ।सुवर्णाय
नमः । सुवर्णलिङ्गाय नमः ।
दिव्याय नमः । दिव्यलिङ्गाय नमः । भवाय नमः॥
भवलिङ्गाय नमः ।शर्वाय नमः । शर्वलिङ्गाय नमः ।
शिवाय नमः । शिवलिङ्गाय नमः ।ज्वलाय नमः । ज्वललिङ्गाय
नमः । आत्माय नमः । आत्मलिङ्गाय नमः ।
परमाय नमः । परमलिङ्गाय नमः । एतथ्सोमस्य सूर्यस्य
सर्वलिङ्गँ स्थापयति पाणिमन्त्रं पवित्रम्॥
पश्चिमवक्त्र-प्रतिपादकमन्त्रः
सद्योजातं प्रपद्यामि सद्योजाताय वै नमो नमः ।
भवेभवेनातिभवे भवस्व माम् । भवोद्भवाय नमः॥
उत्तरवक्त्र-प्रतिपादकमन्त्रः
वामदेवाय
नमो ज्येष्ठाय नम-श्श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकरणाय नमोबलविकरणाय नमो बलाय नमो बलप्रमथनाय नम-स्सर्व- भूतदमनाय
नमो मनोन्मनाय नमः॥
दक्षिणवक्त्र-प्रतिपादकमन्त्रः
अघोरेभ्योऽथ घोरेभ्यो घोरघोरतरेभ्यः । सर्वेभ्य-स्सर्वशर्वेभ्यो
नमस्ते अस्तु रुद्ररूपेभ्यः॥
प्राग्वक्त्र-प्रतिपादकमन्त्रः
तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो
रुद्रः प्रचोदयात्॥
 
ऊर्ध्ववक्त्र-प्रतिपादकमन्त्रः
ईशान-स्सर्व-विद्याना-मीश्वर-स्सर्वभूतानां
ब्रह्माधिपति-र्ब्रह्मणोऽधिपति-र्ब्रह्मा शिवो मे अस्तु सदाशिवोम्॥
नमस्कारार्थ-मन्त्राः
नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय
हिरण्यपतयेऽम्बिकापतय
उमापतये पशुपतये नमो नमः॥
ऋतँ सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ।
ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नमः॥
सर्वो वै रुद्र-स्तस्मै रुद्राय नमो अस्तु ।
पुरुषो वै रुद्रस्सन्महो नमो नमः ।विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं च यत् ।सर्वो-ह्येष
रुद्र-स्तस्मै रुद्राय नमो अस्तु॥
 
कद्रुदाय प्रचेतसे मीढुष्टमाय तव्यसे ।वो चेम
शन्तमँ हृदे । सर्वोह्येष रुद्र-स्तस्मै रुद्राय नमो अस्तु॥
 
 
********************** 
किरातमूर्तिस्तोत्रम् 
नमः शिवाय भर्गाय लीलाशबररूपिणे ।
प्रपन्नार्तपरित्राणकरुणामसृणात्मने ॥१॥
पिञ्छोत्तंसं समानीलश्मश्रुविद्योतिताननम् ।
उदग्रारक्तनयनं गौरकौशेयवाससम् ॥२॥
कैलासशिखरोत्तुङ्गं छुरिकाचापधारिणम् ।
किरातमूर्तिं ध्यायामि परमं कुलदैवतम् ॥३॥
दुर्जनैर्बहुधाऽऽक्रान्तं भयसंभ्रान्तमानसम् ।
त्वदेकशरणं दीनं परिपालय नाथ, माम् ॥४॥
मह्यं द्रुह्यन्ति रिपवो बाह्याश्चाभ्यन्तराश्च ये ।
विद्रावय दयासिन्धो चापज्यानिस्वनेन तान् ॥५॥
कूटकर्मप्रसक्तानां शत्रूणां शातनाय भोः ।
चालय छुरिकां घोरां शतकोटिसमुज्ज्वलाम् ॥६॥
विपद्दावानलज्वालासन्तप्तं रोगपीडितम् ।
कर्तव्यताविमूढं मां त्रायस्व गिरिशात्मज ॥७॥
नमः किरातवपुषे नमः क्षेमङ्कराय च ।
नमः पापविघाताय नमस्ते धर्मसेतवे ॥८॥
 
********************** 
शिवमीडेस्तवरत्नम् 
स्वप्रकाशशिवरूपसद्गुरुं निष्प्रकाशजडचैत्यभासकम् ।
अप्रमेयसुगुणामृतालयं संस्मरामि हृदि नित्यमद्भुतम् ॥१॥
 
यः क्रीडार्थं विश्वमशेषं निजशक्त्या सृष्ट्वा स्वस्मिन्
क्रीडति देवोऽप्यनवद्यः ।
निस्त्रैगुण्यो मायिकभूमिव्यतिरिक्तः
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥२॥
 
एको देवो भाति तरङ्गेष्विव भानुः
नानाभूतेष्वात्मसु सर्वेष्वपि नित्यम् ।
शुद्धो बुद्धो निर्मलरूपो निरवद्यः
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥३॥
 
देवाधीशं सर्ववरेण्यं हृदयाब्जे
नित्यं ध्यात्वा योगिवरा यं दृढभक्त्या ।
शुद्धा भूत्वा यान्ति भवाब्धिं न पुनस्ते
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥४॥
 
श्रौतैः स्मार्तैः कर्मशतैश्चापि य ईशो
दुर्विज्ञेयः कल्पशतं तैर्जडरूपैः ।
संविद्रूपस्त्वैकविचारादधिगम्यः
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥५॥
 
कर्माध्यक्षः कामिजनानां फलदाता
कर्तृत्वाहंकारविमुक्तो निरपेक्षः ।
देहातीतो दृश्यविविक्तो जगदीशः
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥६॥
 
नान्तर्बाह्यो नोभयतो वा प्रविभक्तं
यं सर्वज्ञं नापि समर्थो निगमादिः
तत्त्वातीतं तत्पदलक्ष्यं गुरुगम्यं
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥७॥
 
यद्भासार्को भाति हिमांशुर्दहनो वा
दृश्यैर्भास्यैर्यो न च भाति प्रियरूपः ।
यस्माद् भाति व्यष्टिसमष्ट्यात्मकमेतत्
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥८॥
 
आशादेशाद्यव्यवधानो विभुरेकः
सर्वाधारः सर्वनियन्ता परमात्मा ।
पूर्णानन्दः सत्त्ववतां यो हृदि देवः
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥९॥
 
कोऽहं देवः किं जगदेतत् प्रविचाराद्
दृश्यं सर्वं नश्वररूपं गुरुवाक्यात् ।
सिद्धे चैवं यः खलु शेषः प्रतिपन्नः
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥१०॥
 
सत्यं ज्ञानं ब्रह्म सुखं यं प्रणवान्तं
सर्वस्फूर्तिः शाश्वतरूपस्त्विति वेदः ।
जल्पन्त्येवं स्वच्छधियोऽपि प्रभुमेकं
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥११॥
 
यस्माद्भीतो वाति च वायुस्त्रिपुरेषु
ब्रह्मेन्द्राद्यास्तेनिजकर्मस्वनुबद्धाः ।
चन्द्रादित्यौ लोकसमूहे प्रचरन्तौ
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥१२॥
 
मायाकार्यं जन्म च नाशः पुरजेतुः
नास्ति द्वन्द्वं नाम च रूपं श्रुतिवाक्यात् ।
निर्णीतार्थो नित्यविमुक्तो निरपायः
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥१३॥
 
नायं देहो नेन्द्रियवर्गो न च वायुः
नेदं दृश्यं जात्यभिमानो न च बुद्धिः ।
इत्थं श्रुत्या गुरुवाक्यात् प्रतिलब्धः
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥१४॥
 
स्थूलं सूक्ष्मं क्षाममनेकं न च दीर्घंह्रस्वं शुक्लं
कृष्णमखण्डोऽव्ययरूपः ।
प्रत्यक्साक्षी यः परतेजाः प्रणवान्तः
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥१५॥
 
यत्सौख्याब्धेर्लेशकणांशोः सुरमर्त्या-
स्तिर्यञ्चोऽपि स्थावरभेदाः प्रभवन्ति ।
तत्तत्कार्यप्राभववन्तः सुखिनस्ते
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥१६॥
 
यस्मिन् ज्ञाते ज्ञातमशेषं भुवनं स्याद्
यस्मिन् दृष्टे भेदसमूहो लयमेति ।
यस्मिन्मृत्युर्नास्ति च शोको भवपाशाः
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥१७॥
 
द्यां मूर्धानं यस्य वदन्ति श्रुतयस्ताः
चन्द्रादित्यौ नेत्रयुगं ज्यां पदयुग्मम् ।
आशां श्रोत्रं लोमसमूहं तरुवल्लीः
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥१८॥
 
प्राणायामैः पूतधियो यं प्रणवान्तं
संधायात्मन्यव्यपदेश्यं निजबोधम् ।
जीवन्मुक्ताः सन्ति दिशासु प्रचरन्तः
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥१९॥
 
यच्छ्रोतव्यं श्रौतगिरा श्रीगुरुवाक्याद्
यन्मन्तव्यं स्वात्मसुखार्थं पुरुषाणाम् ।
यद् ध्यातव्यं सत्यमखण्डं निरवद्यं
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥२०॥
 
यं जिज्ञासुः सद्गुरुमूर्तिं द्विजवर्यं
नित्यानन्दं तं फलपाणिः समुपैति ।
भक्तिश्रद्धादान्तिविशिष्टो धृतियुक्तः
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥२१॥
 
पृथ्व्यम्ब्वग्निस्पर्शनखानि प्रविलाप्य
स्वस्मिन् मत्या धारणया वा प्रणवेन ।
यच्छिष्टं तद् ब्रह्म भवामीत्यनुभूतं
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥२२॥
 
लीने चित्ते भाति च एको निखिलेषु
प्रत्यग्दृष्ट्या स्थावरजन्तुष्वपि नित्यम् ।
सत्यासत्ये सत्यमभूच्च व्यतिरेकात्
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥२३॥
 
चेतः साक्षी प्रत्यगभिन्नो विभुरेकः
प्रज्ञानात्मा विश्वभुगादिव्यतिरिक्तः ।
सत्यज्ञानानन्दसुधाब्धिः परिपूर्णः
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥२४॥
 
सर्वे कामा यस्य विलीनाः हृदि संस्थाः
तस्योदेति ब्रह्मरविर्यो हृदि तत्र ।
विद्याविद्या नास्ति परे च श्रुतिवाक्यात्
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥२५॥
 
सत्यागेशः सर्वगुहान्तः
परिपूर्णो वक्ता श्रोता वेदपुराणप्रतिपाद्य: ।
इत्थं बुद्धौ ज्ञानमखण्डं स्फुरदास्ते
तं सर्वाघध्वंसकमाद्यं शिवमीडे ॥२६॥
 
नित्यं भक्त्या यः पठतीदं स्तवरत्नं
तस्याविद्या जन्म च नाशो लयमेतु ।s
किं चात्मानं पश्यतु सत्यं निजबोधं
सर्वान् कामान् स्वं लभतां स प्रियरूपम् ॥२७॥
 
॥इत्यानन्दनाथपादपद्मोपजीविना काश्यपगोत्रोत्पन्नेनान्ध्रेण
 
त्यागराजनाम्ना विरचितं शिवेमीडेस्तवरत्नं संपूर्णम्॥
 
********************** 
शिवस्तोत्रम् 
अद्य मे सफलं जन्म चाद्य मे सफलं तपः ।
अद्य मे सफलं ज्ञानं शंभोत्वत्पाददर्शनात् ॥१॥
कृतार्थोऽहं कृतार्थोऽहं कृतार्थोऽहं महेश्वर ।
अद्य ते पादपद्मस्य दर्शनात् भक्तवत्सल ॥२॥
शिवः शंभुः शिवः शंभुः शिवः शंभुः शिवः शिवः ।
इति व्याहरतो नित्यं दिनान्यायान्तु यान्तु मे ॥३॥
शिवे भक्तिः शिवे भक्तिः शिवे भक्तिर्भिवे भवे ।
सदा भूयात् सदा भूयात् सदा भूयात् सुनिश्चला ॥४॥
वयं धन्या वयं धन्या वयं धन्या जगत्त्रये ।
आदिदेवो महादेवो यदस्मत् कुलदैवतम् ॥५॥
हर शंभो महादेव विश्वेशामरवत्सल ।
शिवशंकर सर्वात्मन् नीलकण्ठ नमोऽस्तु ते ॥६॥
 
********************** 
शिवजयजयकारध्यानस्तोत्रम्
स्फटिकप्रतिभटकान्त विरचितकलिमलशान्त ।
शिव शंकर शिव शंकर जय कैलासपते ॥१॥
गंगाधरपिंगलजट हृतशरणागतसङ्कट ।
शिव शंकर शिव शंकर जय कैलासपते ॥२॥
बालसुधाकरशेखर भाललसद्वैश्वानर ।
शिव शंकर शिव शंकर जय कैलासपते ॥३॥
पद्मदलायतलोचन दृढभवबन्धनमोचन ।
शिव शंकर शिव शंकर जय कैलासपते ॥४॥
मन्दमधुरहासवदन निर्जितदुर्लसितमदन ।
शिव शंकर शिव शंकर जय कैलासपते ॥५॥
सनकादिकवन्द्यचरण दुस्तरभवसिन्धुतरण ।
शिव शंकर शिव शंकर जय कैलासपते ॥६॥
लालितबालगजानन कलितमहापितृकानन ।
शिव शंकर शिव शंकर जय कैलासपते ॥७॥
सच्चिद्घनसुखसार लीलापीतमहागर ।
शिव शंकर शिव शंकर जय कैलासपते ॥८॥
गिरिजाश्लिष्टार्धतनो कल्पितगिरिराजधनो ।
शिव शंकर शिव शंकर जय कैलासपते ॥९॥
 
********************** 
श्रीचिदम्बरेश्वरस्तोत्रम् 
कृपासमुद्रं सुमुखं त्रिनेत्रं
जटाधरं पार्वतीवामभागम् ।
सदाशिवं रुद्रमनन्तरूपं
चिदम्बरेशं हृदि भावयामि ॥१॥
 
वाचामतीतं फणिभूषणाङ्गं
गणेशतातं धनदस्य मित्रम् ।
कन्दर्पनाशं कमलोत्पलाक्षं
चिदम्बरेशं हृदि भावयामि ॥२॥
 
रमेशवन्द्यं रजताद्रिनाथं
श्रीवामदेवं भवदुःखनाशम् ।
रक्षाकरं राक्षसपीडितानां
चिदम्बरेशं हृदि भावयामि ॥३॥
 
देवादि(/धि)देवं जगदेकनाथं
देवेशवन्द्यं शशिखण्डचूडम् ।
गौरीसमेतं कृतविघ्नदक्षं
चिदम्बरेशं हृदि भावयामि ॥४॥
 
वेदान्तवेद्यं सुरवैरिविघ्नं
शुभप्रदं भक्तिमदन्तराणाम् ।
कालान्तकं श्रीकरुणाकटाक्षं
चिदम्बरेशं हृदि भावयामि ॥५॥
 
हेमाद्रिचापं त्रिगुणात्मभावं
गुहात्मजं व्याघ्रपुरीशमाद्यम् ।
श्मशानवासं वृषवाहनस्थं
चिदम्बरेशं हृदि भावयामि ॥६॥
 
आद्यन्तशून्यं त्रिपुरारिमीशं
नन्दीशमुख्यस्तुतवैभवाढ्यम् ।
समस्तदेवैः परिपूजिताङ्घ्रिं
चिदम्बरेशं हृदि भावयामि ॥७॥
 
तमेव भान्तं ह्यनुभाति सर्वम्
अनेकरूपं परमार्थमेकम् ।
पिनाकपाणिं भवनाशहेतुं
चिदम्बरेशं हृदि भावयामि ॥८॥
 
विश्वेश्वरं नित्यमनन्तमाद्यं
त्रिलोचनं चन्द्रकलावतंसम् ।
पतिं पशूनां हृदि सन्निविष्टं
चिदम्बरेशं हृदि भावयामि ॥९॥
 
विश्वाधिकं विष्णुमुखैरुपास्यं
त्रिलोचनं पञ्चमुखं प्रसन्नम् ।
उमापतिं पापहरं प्रशान्तं
चिदम्बरेशं हृदि भावयामि ॥१०॥
 
कर्पूरगात्रं कमनीयनेत्रं
कंसारिमित्रं कमलेन्दुवक्त्रम् ।
कन्दर्पगात्रं कमलेशमित्रं
चिदम्बरेशं हृदि भावयामि ॥११॥
 
विशालनेत्रं परिपूर्णगात्रं
गौरीकलत्रं हरिदम्बरेशम् ।
कुबेरमित्रं जगतः पवित्रं
चिदम्बरेशं हृदि भावयामि ॥१२॥
 
कल्याणमूर्तिं कनकाद्रिचापं
कान्तासमाक्रान्तनिजार्द्धदेहम् ।
कपर्दिनं कामरिपुं पुरारिं
चिदम्बरेशं हृदि भावयामि ॥१३॥
 
कल्पान्तकालाहितचण्डनृत्तं
समस्तवेदान्तवचोनिगूढम् ।
अयुग्मनेत्रं गिरिजासहायं
चिदम्बरेशं हृदि भावयामि ॥१४॥
 
दिगम्बरं शङ्खसिताल्पहासं
कपालिनं शूलिनमप्रमेयम् ।
नगात्मजावक्त्रपयोजसूर्यं
चिदम्बरेशं हृदि भावयामि ॥१५॥
 
सदाशिवं सत्पुरुषैरनेकैः
सदार्चितं सामशिरस्सु गीतम् ।
वैय्याघ्रचर्माम्बरमुग्रमीशं
चिदम्बरेशं हृदि भावयामि ॥१६॥
 
चिदम्बरस्य स्तवनं पठेद्यः
प्रदोषकालेषु पुमान् स धन्यः ।
भोगानशेषाननुभूय भूयः
सायुज्यमप्येति चिदम्बरस्य ॥१७॥
 
 
********************** 
शिवशंकरस्तोत्रम्
अतिभीषणकटुभाषणयमकिंकरपटली-
कृतताडनपरिपीडनमरणागतसमये ।
उमया सह मम चेतसि यमशासन निवसन्
हर शंकर शिव शंकर हर मे हर दुरितम् ॥१॥
 
असदिन्द्रियविषयोदयसुखसात्कृतसुकृतेः
परदूषणपरिमोक्षण कृतपातकविकृतेः ।
शमनाननभवकानननिरतेर्भव (?) शरणं
हर शंकर शिव शंकर हर मे हर दुरितम् ॥२॥
 
विषयाभिधबडिशायुधपिशितायितसुखतो
मकरायितगतिसंसृतिकृतसाहसविपदम् (?) ।
परमालय परिपालय परितापितमनिशं
हर शंकर शिव शंकर हर मे हर दुरितम् ॥३॥
 
दयिता मम दुहिता मम जननी मम जनको
मम कल्पितमतिसन्ततिमरुभूमिषु निरतम् ।
गिरिजासख जनितासुखवसतिं कुरु सुखिनं
हर शंकर शिव शंकर हर मे हर दुरितम् ॥४॥
 
जनिनाशन मृतिमोचन शिवपूजननिरतेः
अभितोऽदृशमिदमीदृशमहमावह (?) इति हा ।
गजकच्छपजनितश्रम (?) विमलीकुरु सुमतिं
हर शंकर शिव शंकर हर मे हर दुरितम् ॥५॥
 
त्वयि तिष्ठति सकलस्थितिकरुणात्मनि हृदये
वसुमार्गणकृपणेक्षणमनसा शिवविमुखम् ।
अकृताह्निकमसुपोषकमवताद् गिरिसुतया
हर शंकर शिव शंकर हर मे हर दुरितम् ॥६॥
 
पितरावतिसुखदाविति शिशुना कृतहृदयौ
शिवया हृतभयके हृदि जनितं तव सुकृतम् ।
इति मे शिव हृदयं भव भवतात् तव दयया
हर शंकर शिव शंकर हर मे हर दुरितम् ॥७॥
 
शरणागतभरणाश्रितकरुणामृतजलधे
शरणं तव चरणौ शिव मम संसृतिवसतेः ।
परिचिन्मय (?) जगदामयभिषजे नतिरवतात्
हर शंकर शिव शंकर हर मे हर दुरितम् ॥८॥
 
विविधाधिभिरतिभीतिभिरकृताधिकसुकृतं
शतकोटिषु नरकादिषु हतपातकविवशम् ।
मृड मामव सुकृती भव शिवया सह कृपया
हर शंकर शिव शंकर हर मे हर दुरितम् ॥९॥
 
कलिनाशन गरलाशन कमलासनविनुत
कमलापतिनयनार्चित करुणाकृतिचरण ।
करुणाकर मुनिसेवित भवसागरहरण
हर शंकर शिव शंकर हर मे हर दुरितम् ॥१०॥
 
विजितेन्द्रियविबुधार्चितविमलाम्बुजचरण
भवनाशन भयनाशन भजिताङ्गितहृदय ।
फणिभूषण मुनिवेषण मदनान्तक शरणं
शिव शङ्कर शिव शङ्कर हर मे हर दुरितम् ॥११॥
 
त्रिपुरान्तक त्रिदशेश्वर त्रिगुणात्मक शम्भो
वृषवाहन विषदूषण पतितोद्धर शरणम् ।
कनकासन कनकाम्बर कलिनाशन शरणं
शिव शङ्कर शिव शङ्कर हर मे हर दुरितम् ॥१२॥
 
 
********************** 

वेदसारशिवस्तोत्रम् 
पशूनांपतिं पापनाशं परेशं
गजेन्द्रस्यकृत्तिं वसानं वरेण्यम् ।
जटाजूटमध्ये स्फुरद्गाङ्गवारिं
महादेवमेकं स्मरामि स्मरारिम् ॥१॥
महेशं सुरेशं सुरारातिनाशं
विभुं विश्वनाथं विभूत्यङ्गभूषम् ।
विरूपाक्षमिन्द्वर्कवह्नित्रिनेत्रं
सदानन्दमीडे प्रभुं पञ्चवक्त्रम् ॥२॥
गिरीशं गणेशं गले नीलवर्णं
गवेन्द्राधिरूढं गुणातीतरूपम् ।
भवं भास्वरं भस्मना भूषितांगं
भवानीकलत्रं भजे पञ्चवक्त्रम् ॥३॥
शिवाकान्त शंभो शशाङ्कार्धमौले
महेशान शूलिन् जटाजूटधारिन् ।
त्वमेको जगद्व्यापको विश्वरूपः
प्रसीद प्रसीद प्रभो पूर्णरूप ॥४॥
परात्मानमेकं जगद्बीजमाद्यं
निरीहं निराकारमोङ्कारवेद्यम् ।
यतो जायते पाल्यते येन विश्वं
तमीशं भजे लीयते यत्र विश्वम् ॥५॥
न भूमिर्न चापो न वह्निर्न वायु:
न चाकाशमास्ते न तन्द्रा न निद्रा ।
न चोष्णं न शीतं न देशो न वेषो
न यस्यास्तिमूर्तिः त्रिमूर्तिं तमीडे ॥६॥
अजं शाश्वतं कारणं कारणानां
शिवं केवलं भासकं भासकानाम् ।
तुरीयं तमःपारमाद्यन्तहीनं
प्रपद्ये परं पावनं द्वैतहीनम् ॥७॥
नमस्ते नमस्ते विभो विश्वमूर्ते
नमस्ते नमस्ते चिदानन्दमूर्ते ।
नमस्ते नमस्ते तपोयोगगम्य
नमस्ते नमस्ते श्रुतिज्ञानगम्य ॥८॥
प्रभो शूलपाणे विभो विश्वनाथ
महादेव शंभो महेश त्रिनेत्र ।
शिवाकान्त शान्त स्मरारे पुरारे
त्वदन्यो वरेण्यो न मान्यो न गण्यः ॥९॥
शम्भो महेश करुणामय शूलपाणे
गौरीपते पशुपते पशुपाशनाशिन् ।
काशीपते करुणया जगदेतदेक-
स्त्वं हंसि पासि विदधासि महेश्वरोऽसि ॥१०॥
त्वत्तो जगत् भवति देव भव स्मरारे
त्वय्येव तिष्ठति जगन्मृड विश्वनाथ ।
त्वय्येव गच्छति लयं जगदेतदीश
लिङ्गात्मके हर चराचरविश्वरूपिन् ॥११॥
चरणशृङ्गरहितनटराजस्तोत्रम्
(श्री पतंजलिकृतम्)
सदञ्चितमुदञ्चित निकुञ्चितपदम् झलझलच्चलितमञ्जुकटकम्
पतञ्जलिदृगञ्जनमनञ्जनमचञ्चलपदम् जननभञ्जनकरम् ।
कदम्बरुचिमम्बरवसम् परममम्बुदकदम्बकविडम्बकगलम्
चिदम्बुधिमणिम् बुधहृदम्बुजरविम् परचिदम्बरनटम् हृदि भज ॥१॥
हरम् त्रिपुरभञ्जनमनन्तकृतकङ्कणमखण्डदयमन्तरहितम्
विरिञ्चिसुरसम्हतिपुरन्दरविचिन्तितपदम् तरुणचन्द्रमकुटम् ।
परम्पदविखण्डितयमम् भसितमण्डिततनुम् मदनवञ्चनपरम्
चिरन्तनममुम् प्रणवसञ्चितनिधिम् परचिदम्बरनटम् हृदि भज ॥२॥
अवन्तमखिलम् जगदभङ्गगुणतुङ्गममतम् धृतविधुम् सुरसरि-
त्तरङ्गनिकुरम्बधृतिलम्पटजटम् शमनडम्भसुहरम् भवहरम् ।
शिवम् दशदिगन्तरविजृम्भितकरम् करलसन्मृगशिशुम् पशुपतिम्
हरम् शशिधनञ्जयपतङ्गनयनम् परचिदम्बरनटम् हृदि भज ॥३॥
अनन्तनवरत्नविलसत् कटककिङ्किणी झलम् झलझलम् झलरवम्
मुकुन्दविधिहस्तगतमद्दललयध्वनि धिमिद्धिमित नर्तनपदम् ।
शकुन्तरथ बर्हिरथ नन्दिमुख भृङ्गिरिटि सङ्घनिकटम्
सनन्दसनकप्रमुखवन्दितपदम् परचिदम्बरनटम् हृदि भज ॥४॥
अनन्तमहसं त्रिदशवन्द्यचरणम् मुनिहृदन्तरवसन्तममलम्
कबन्धवियदिन्द्ववनिगन्धवहवह्निमखबन्धुरविमञ्जुवपुषम् ।
अनन्तविभवं त्रिजगदन्तरमणिम् त्रिणयनम् त्रिपुरखण्डनपरम्
सनन्दमुनिवन्दितपदम् सकरुणम् परचिदम्बरनटम् हृदि भज ॥५॥
अचिन्त्यमणिबृन्दरुचिबन्धुरगलम् कुरितकुन्दनिकुरुम्बधवलम्
मुकुन्दसुरबृन्दबलहन्तृकृतवन्दनलसन्तमहिकुण्डलधरम् ।
अकम्पमनुकम्पितरतिम् सुजनमङ्गलनिधिम् गजहरम् पशुपतिम्
धनञ्जयनुतम् प्रणतरञ्जनपरम् परचिदम्बरनटम् हृदि भज ॥६॥
परम् सुरवरम् पुरहरम् पशुपतिम् जनितदन्तिमुखषण्मुखममुम्
मृडम् कनकपिङ्गलजटम् सनकपङ्कजरविम् सुमनसम् हिमरुचिम् ।
असंगमनसम् जलधिजन्मगरलम्कबलयन्तमतुलम्गुणनिधिम्
सनन्दवरदम् शमितमिन्दुवदनं प परचिदम्बरनटम् हृदि भज ॥७॥
अजं क्षितिरथम् भुजङ्गपुङ्गवगुणम् कनकशृङ्गिधनुषम्
करलसत्कुरङ्गपृथुटङ्कपरशुम् रुचिरकुङ्कुमरुचिम् डमरुकम् च दधतम् ।
मुकुन्दविशिखम् नमदवन्ध्यफलदम् निगमवृन्दतुरगम् निरुपमम्
सचण्डिकममुम् झटिति सम्हृतपुरम् परचिदम्बरनटम् हृदि भज ॥८॥
अनङ्गपरिपन्थिनमजं क्षितिधुरन्धरमलम्करुणयन्तमखिलम्
ज्वलन्तमनलम् दधतमन्तकरिपुम् सततमिन्द्रसुरवन्दितपदम् ।
उदञ्चदरविन्दकुलबन्धुशतबिम्बरुचिसम्हति सुगन्धि वपुषम्
पतञ्जलिनुतम् प्रणवपञ्जरशुकम् परचिदम्बरनटम् हृदि भज ॥९॥
इति स्तवममुं भुजगपुङ्गवकृतम् प्रतिदिनम् पठति यः कृतमुखः
सदः प्रभु पदद्वितय दर्शनपदम् सुललितम् चरणशृङ्गरहितम् ।
सरः प्रभवसंभव हरित्पति हरिप्रमुख दिव्यनुत शङ्करपदम्
स गच्छति परम् न तु जनुर्जलनिधिम् परमदुःखजनकम् दुरितदम् ॥१०॥
 
 
********************** 
उमामहेश्वरस्तोत्रम् 
नमः शिवाभ्यां नवयौवनाभ्यां
परस्पराश्लिष्टवपुर्धराभ्याम् ।
नगेन्द्रकन्यावृषकेतनाभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥१॥
नमः शिवाभ्यां सरसोत्सवाभ्यां
नमस्कृताभीष्टवरप्रदाभ्याम् ।
नारायणेनार्चितपादुकाभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥२॥
नमः शिवाभ्यां वृषवाहनाभ्यां
विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम् ।
विभूतिपाटीरविलेपनाभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥३॥
नमः शिवाभ्यां जगदीश्वराभ्यां
जगत्पतिभ्यां जयविग्रहाभ्याम् ।
जंभारिमुख्यैरभिवन्दिताभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥४॥
नमः शिवाभ्यां परमौषधाभ्यां
पन्ञ्चाक्षरीपञ्जररञ्जिताभ्याम् ।
प्रपञ्चसृष्टिस्थितिसंहृताभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥५॥
नमः शिवाभ्यामतिसुन्दराभ्यां
अत्यन्तमासक्तहृदंबुजाभ्याम् ।
अशेषलोकैकहितंकराभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥६॥
नमः शिवाभ्यां कलिनाशनाभ्यां
कङ्कालकल्याणवपुर्धराभ्याम् ।
कैलासशैलस्थित देवताभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥७॥
नमः शिवाभ्यामशुभापहाभ्यां
अशेषलोकैकविशेषिताभ्याम् ।
अकुण्ठिताभ्यां स्मृतिसंभृताभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥८॥
नमः शिवाभ्यां रथवाहनाभ्यां
रवीन्दुवैश्वानरलोचनाभ्याम् ।
राकाशशाङ्काभमुखांबुजाभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥९॥
नमः शिवाभ्यां जटिलं धराभ्यां
जरामृतिभ्यां च विवर्जिताभ्याम् ।
जनार्दनाब्जोद्भवपूजिताभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥१०॥
नमः शिवाभ्यां विषमेक्षणाभ्यां
बिल्वच्छदामल्लिकदामभृद्भ्याम् ।
शोभावतीशान्तवतीश्वराभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥११॥
नमः शिवाभ्यां पशुपालकाभ्यां
जगत्त्रयीरक्षणबद्धहृद्भ्याम् ।
समस्तदेवासुरपूजिताभ्यां
नमोनमः शंकरपार्वतीभ्याम् ॥१२॥
स्तोत्रं त्रिसंध्यं शिवपार्वतीभ्यां
भक्त्या पठेत् द्वादशकं नरो यः ।
स सर्व सौभाग्यफलानि भुङ्क्ते
शतायुरन्ते शिवस्लोकमेति ॥१३॥
 
********************** 
शिवपादादिकेशान्तवर्णनस्तोत्रम् 
कल्याणं नो विधत्तां कटकतटलसत्कल्पवाटीनिकुञ्ज-
क्रीडासंसक्तविद्याधरनिकरवधूगीतरुद्रापदानः ।
तारैर्हेरंबनादैस्तरलितनिनदत्तारकारातिकेकी
कैलासः शर्वनिर्वृत्यभिजनकपद: सर्वदा पर्वतेन्द्रः ॥१॥
यस्य प्राहुः स्वरूपं सकलदिविषदां सारसर्वस्वयोगं
यस्येषुः शार्ङ्गधन्वा समजनि जगतां रक्षणे जागरूकः ।
मौर्वी दर्वीकराणामपि च परिबृढः पूस्त्रयी सा च लक्ष्यं
सोऽव्यादव्याजमस्मानशिवभिदनिशं नाकिनां श्रीपिनाकः ॥२॥
आतङ्कावेगहारी सकलदिविषदामङ्घ्रिपद्माश्रयाणां
मातङ्गाद्युग्रदैत्यप्रकरतनुगलद्रक्तधाराक्तधारः ।
क्रूरः शूरायुतानामपि च परिभवं स्वीयभासा वितन्वन्
घोराकारः कुठारो दृढतरदुरिताख्याटवीं पाटयेन्नः ॥३॥
कालारातेः कराग्रे कृतवसतिरुरःशाणशातो रिपूणां
काले काले कुलाद्रिप्रवरतनयया कल्पितस्नेहलेपः ।
पायान्नः पावकार्चिःप्रसरसुखमुखः पापहन्ता नितान्तं
शूलः श्रीपादसेवाभजनरसजुषां पालनैकान्तशीलः ॥४॥
देवस्याङ्काश्रयायाः कुलगिरिदुहितुर्नेत्रकोणप्रचार-
प्रस्तारानत्युदारान् पिपठिषुरिव यो नित्यमत्यादरेण ।
आधत्ते भङ्गितुङ्गैरनिशमवयवैरन्तरङ्गं समोदं
सोमापीडस्य सोऽयं प्रदिशतु कुशलं पाणिरङ्गः कुरङ्गः ॥५॥
कण्ठप्रान्तावसज्जत्कनकमयमहाघण्टिकाघोरघोषैः
कण्ठारावैरकुण्ठैरपि भरितजगच्चक्रवालान्तरालः ।
चण्डः प्रोद्दण्डशृङ्गः ककुदकबलितोत्तुङ्गकैलासशृङ्गः
कण्ठेकालस्य वाहः शमयतु शमलं शाश्वतः शाक्करेन्द्रः ॥६॥
निर्यद्दानांबुधारापरिमलतरलीभूतरोलंबपाली
झंकारैः शंकराद्रेः शिखरशतदरीः पूरयन् भूरिघोषैः ।
शार्वः सौवर्णशैलप्रतिमपृथुवपुः सर्वविघ्नापहर्ता
शर्वाण्याः पूर्वसूनुः स भवतु भवतां स्वस्तिदो हस्तिवक्त्रः ॥७॥
यः पुण्यैर्देवतानां समजनि शिवयोः श्लाघ्यवीर्यैकमत्या-
द्यन्नाम्नि श्रूयमाणे दितिजभटघटा भीतिभारं भजन्ते ।
भूयात्सोऽयं विभूत्यै निशितशरशिखापाटितक्रौञ्चशैलः
संसारागाधकूपोदरपतितसमुत्तारकस्तारकारिः ॥८॥
आरूढः प्रौढवेगप्रविजितपवनं तुङ्गतुङ्गं तुरङ्गं
चेलं नीलं वसानः करतलविलसत् काण्डकोदण्डदण्डः ।
रागद्वेषादिनानाविधमृगपटलीभीतिकृद्भूतभर्ता
कुर्वन्नाखेटलीलां परिलसतु मनः कानने मामकीने ॥९॥
अंभोजाभ्यां च रंभारथचरणलताद्वन्द्वकुंभीन्द्रकुंभै-
र्बिम्बेनेन्दोश्च कंबोरुपरिविलसता विद्रुमेणोत्पलाभ्याम् ।
अम्भोदेनापि संभावितमुपजनिताडंबरं शंबरारेः
शंभोः संभोगयोग्यं किमपि धनमिदं संभवेत् संपदे नः ॥१०॥
वेणीसौभाग्यविस्मापिततपनसुताचारुवेणीविलासान्
वाणीनिर्धूतवाणीकरतलविधृतोदारवीणाविरावान् ।
एणीनेत्रान्तभङ्गीनिरसननिपुणापाङ्गकोणानुपासे
शोणान्प्राणानुदूढप्रतिनवसुषमाकन्दलानिन्दुमौलेः ॥११॥
नृत्तारंभेषु हस्ताहतमुरजधिमिद्धिंकृतैरत्युदारै-
श्चित्तानन्दं विधत्ते सदसि भगवतः संततं यः स नन्दी ।
चण्डीशाद्यास्तथान्ये चतुरगुणगणप्रीणितस्वामिसत्का-
रोत्कर्षोद्यत्प्रसादाः प्रमथपरिबृढाः पान्तु सन्तोषिणो नः ॥१२॥
मुक्तामाणिक्यजालैः परिकलितमहासालमालोकनीयं
प्रत्युप्तानर्घरत्नैर्दिशि दिशि भवनैः कल्पितैर्दिक्पतीनां ।
उद्यानैरद्रिकन्यापरिजनवनितामाननीयैः परीतं
हृद्यं हृद्यस्तु नित्यं मम भुवनपतेर्धाम सोमार्धमौलेः ॥१३॥
स्तंभैर्जंभारिरत्नप्रवरविरचितैः संभृतोपांतभागं
शुंभत्सोपानमार्गं शुचिमणिनिचयैर्गुंभितानल्पशिल्पम् ।
कुंभैः संपूर्णशोभं शिरसि सुघटितैः शातकुंभैरपङ्कैः
शंभोः संभावनीयं सकलमुनिजनैः स्वस्तिदं स्यात्सदो नः ॥१४॥
न्यस्तो मध्ये सभायाः परिसरविलसत्पादपीठाभिरामो
हृद्यः पादैश्चतुर्भिः कनकमणिमयैरुच्चकैरुज्ज्वलात्मा ।
वासोरत्नेन केनाप्यधिकमृदुतरेणास्तृतो विस्तृतश्रीः
पीठः पीडाभरं नः शमयतु शिवयोः स्वैरसंवासयोग्यः ॥१५॥
आसीनस्याधिपीठं त्रिजगदधिपतेरंघ्रिपीठानुषक्तौ
पाथोजाभोगभाजौ परिमृदुलतलोल्लासिपद्मादिरेखौ ।
पातां पादावुभौ तौ नमदमरकिरीटोल्लसच्चारुहीर-
श्रेणीशोणायमानोन्नतनखदशकोद्भास्मानौ समानौ ॥१६॥
यन्नादो वेदचाचां निगदति निखिलं लक्षणं पक्षिकेतो-
र्लक्ष्मीसंभोगसौख्यं विरचयति ययोश्चापरे रूपभेदे ।
शंभोः संभावनीये पदकमलसमासङ्गतस्तुंगशोभे
मांगल्यं नः समग्रं सकलसुखकरे नूपुरे पूरयेताम् ॥१७॥
अंगे शृंगारयोनेः सपदि शलभतां नेत्रवह्नौ प्रयाते
शत्रोरुद्धृत्य तस्मादिषुधियुगमधोन्यस्तमग्रे किमेतत् ।
शङ्कामित्थं नतानाममरपरिषदामन्तरङ्कूरयत्त-
त्संघातं चारु जङ्खायुगमखिलपतेरंहसां संहरेन्नः ॥१८॥
जानुद्वन्द्वेन मीनध्वजनृवरसमुद्गोपमानेन साकं
राजन्तौ राजरंभाकरिकरकनकस्तंभसंभावनीयौ ।
ऊरू गौरीकरांभोरुहसरससमामर्दनानन्दभाजौ
चारू दूरीक्रियास्तां दुरितमुपचितं जन्मजन्मान्तरे नः ॥१९॥
आमुक्तानर्घरत्नप्रकरकरपरिष्वक्तकल्य़ाणकाञ्ची-
दाम्नाबद्धेन दुग्धद्युतिनिचयमुषा चीनपट्टांबरेण ।
संवीते शैलकन्यासुचरितपरिपाकायमाणे नितंबे
नित्यं नर्नर्तु चित्तं मम निखिलजगत्स्वामिनः सोममौलेः ॥२०॥
संध्याकालानुरज्यद्दिनकरसरुचा कालधौतेन गाढं
व्यानद्धः स्निग्धमुग्धः सरसमुदरबन्धेन वीतोपमेन ।
उद्दीप्रैः सुप्रकाशैरुपचितमहिमा मन्मथारेरुदारो
मध्यो मिथ्यार्थसध्र्यङ्मम दिशतु सदा संगतिं मंगलानाम् ॥२१॥
नाभीचक्रालवालान्नवनवसुषमादोहदश्रीपरीता-
दुद्गच्छन्ती पुरस्तादुदरपथमतिक्रम्य वक्षः प्रयान्ती ।
श्यामा कामागमार्थप्रकथनलिपिवद्भासते या निकामं
सा मा सोमार्धमौलेः सुखयतु सततं रोमवल्लीमतल्ली ॥२२॥
आश्लेषादद्रिजायाः कठिनकुचतटीलिप्तकाश्मीरपङ्क-
व्यासंगादुद्यदर्कद्युतिभिरुपचितस्पर्धमुद्दामहृद्यं ।
दक्षारातेरुदूढप्रतिनवमणिमालावलीभासमानं
वक्षो विक्षोभिताघं सततनतिजुषां रक्षतादक्षतं नः ॥२३॥
वामाङ्के विस्फुरन्त्याः करतलविलसत्चारुरक्तोत्पलायाः
कान्ताया वामवक्षोरुहभरशिखरोन्मर्दनव्यग्रमेकम् ।
अन्यांस्त्रीनप्युदारान्वरपरशुमृगालंकृतानिन्दुमौले-
र्बाहूनाबद्धहेमाङ्गदमणिकटकानन्तरालोकयामः ॥२४॥
संभ्रान्तायाः शिवायाः पतिविलयभिया सर्वलोकोपतापा-
त्संविग्नस्यापि विष्णोः सरभसमुभयोर्वारणप्रेरणाभ्यां ।
मध्ये त्रैशङ्कवीयामनुभवति दशां यत्र हालाहलोष्मा
सोऽयं सर्वापदां नः शमयतु निचयं नीलकणठस्य कण्ठः ॥२५॥
हृद्यैरद्रीन्द्रकन्यामृदुदशनपदैर्मुद्रितो विद्रुमश्री-
रुद्योतन्त्या नितान्तं धवलधवलया मिश्रितो दन्तकान्त्या ।
मुक्तामाणिक्यजालव्यतिकरसदृशा तेजसा भासमानः
सद्योजातस्य दद्यादधरमणिरसौसंपदां संचयं नः ॥२६॥
कर्णालंकारनानामणिनिकररुचां संचयैरञ्चितायां
वर्ण्यायां स्वर्णपद्मोदरविलसत्कर्णिकासन्निभायां
पद्धत्यां प्राणवायोः प्रणतजनहृदंभोजवासस्य शंभो-
र्नित्यं नश्चित्तमेतद्विरचयतु सुखेनासिकां नासिकायाम् ॥२७॥
अत्यन्तं भासमाने रुचिरतररुचां संगमात्सन्मणीना-
मुद्यच्चण्डांशुधामप्रसरनिरसनस्पष्टदृष्टापदाने ।
भूयास्तां भूतये नः करिवरजयिनः कर्णपाशावलंबे
भक्तालीभालसज्जज्जनिमरणलिपेः कुण्डले कुण्डले ते ॥२८॥
याभ्यां कालव्यवस्था भवति तनुमतां यो मुखं देवतानां
येषामाहुः स्वरूपं जगति मुनिवरा देवतानां त्रयीं तां
रुद्राणीवक्त्रपङ्केरुहसततविहारोत्सुकेन्दन्दिरेभ्य-
स्तेभ्यस्त्रिभ्यः प्रणामाञ्जलिमुपरचये त्रीक्षणस्येक्षणेभ्यः ॥२९॥
वामं वामाङ्कगाया वदनसरसिजे व्यावलद्वल्लभाया
व्यानम्रेष्वन्यदन्यत्पुनरलिकभवं वीतनिःशेषरौक्ष्यम् ।
भुयो भूयोऽपि मोदान्निपतदतिदयाशीतलं चूतबाणे
दक्षारेरीक्षणानां त्रयमपहरतादाशु तापत्रयं नः ॥३०॥
यस्मिन्नर्धेन्दुमुग्धद्युतिनिचयतिरस्कारनिस्तन्द्रकान्तौ
काश्मीरक्षोदसंकल्पितमिव रुचिरं चित्रकं भाति नेत्रं ।
तस्मिन्नुल्लोलचिल्लीनटवरतरुणीलास्यरङ्गायमाणे
कालारेः फालदेशे विहरतु हृदयं वीतचिन्तान्तरं न: ॥३१॥
स्वामिन् गंगामिवाङ्गीकुरु तव शिरसा मामपीत्यर्थयन्तीं
धन्यां कन्यां खरांशोः शिरसि वहति किं न्वेष कारुण्यशाली ।
इत्थं शंकां जनानां जनयदतिघनं कैशिकं कालमेघ-
च्छायं भूयादुदारंत्रिपुरविजयिनः श्रेयसे भूयसे नः ॥३२॥
शृंगाराकल्पयोग्यैः शिखरिवरसुतासत्सखीहस्तलूनैः
सूनैराबद्धमालावलिपरिविलसत्सौरभाकृष्टभृङ्गम् ।
तुंगं माणिक्यकान्त्या परिहसितसुरावासशैलेन्द्रशृंगं
संघं न: संकटानां विघटयतु सदा काङ्कटीकं किरीटम् ॥३३॥
वक्राकारः कलङ्की जडतनुरहमप्यङ्घ्रिसेवानुभावा-
दुत्तंसत्त्वं प्रयातः सुलभतरकृपास्यन्दिनश्चन्द्रमौलेः ।
तत्सेवन्तां जनौघाः शिवमिति निजयावस्थयैव ब्रुवाणं
वन्दे देवस्य शंभोर्मुकुटसुघटितं मुग्धपीयूषभानुम् ॥३४॥
कन्त्या संफुल्लमल्लीकुसुमधवलया व्याप्य विश्वं विराज-
न्वृत्ताकारो वितन्वन्मुहुरपि च परां निर्वृतिं पादभाजां ।
सानन्दं नन्दिदोष्णा मणिकटकवता वाह्यमानः पुरारेः
श्वेतच्छत्राख्यशीतद्युतिरपहरतादापदस्तापदा नः ॥३५॥
दिव्याकल्पोज्ज्वलानां शिवगिरिसुतयोः पार्श्वयोराश्रितानां
रुद्राणीसत्सखीनां मदतरलकटाक्षाञ्चलैरञ्चितानाम् ।
उद्वेलद्बाहुवल्लीविलसनसमये चामरान्दोलनीना-
मुद्भूतः कंकणालीवलयकलकलो वारयेदापदो नः ॥३६॥
स्वर्गौकःसुन्दरीणां सुललितवपुषां स्वामिसेवापराणां
वल्गद्भूषाणि वक्त्रांबुजपरिविगलन्मुग्धगीतामृतानि ।
नित्यं नृत्तान्युपासे भुजविधुतिपदन्यासभावावलोक-
प्रत्युद्यत्प्रीतिमाद्यत् प्रमथनटनटीदत्तसंभावनानि ॥३७॥
स्थानप्राप्त्या स्वराणां किमपि विशदतां व्यञ्जयन्मञ्जुवीणा-
स्वानावच्छिन्नतालक्रमममृतमिवास्वाद्यमानं शिवाभ्याम् ।
नानारागातिहृद्यं नवरसमधुरस्तोत्रजातानुविद्धं
गानम् वीणामहर्षेः कलमतिललितं कर्णपूरायतां नः ॥३८॥
चेतो जातप्रमोदं सपदि विदधती प्राणिनां वाणिनीनां
पाणिद्वन्द्वाग्रजाग्रत्सुललितरणितस्वर्णतालानुकूला
स्वीयारावेण पाथोधररवपटुना नादयन्ती मयूरीं
मायूरी मन्दभावं मणिमुरजभवा मार्ज्जना मार्जयेन्नः ॥३९॥
देवेभ्यो दानवेभ्यः पितृमुनिपरिषत्सिद्धविद्याधरेभ्यः
साध्येभ्यश्चारणेभ्यो मनुज पशुपतज्जातिकीटादिकेभ्यः ।
श्रीकैलासप्ररूढास्तृणविटपिमुखाश्चापि ये सन्ति तेभ्यः
सर्वेभ्यो निर्विचारं नतिमुपरचये शर्वपादाश्रयेभ्यः ॥४०॥
ध्यायन्नित्थं प्रभाते प्रतिदिवसमिदं स्तोत्ररत्नं पठेद्यः
किं वा ब्रूमस्तदीयं सुचरितमथवा कीर्तयामः समासात् ।
संपज्जातं समग्रंसदसि बहुमतिं सर्वलोकप्रियत्वं
संप्राप्यायुःशतान्ते पदमयति परब्रह्मणो मन्मथारेः ॥४१॥
 
 
********************** 
शिवकेशादिपादान्तवर्णनस्तोत्रम् 
देयासुर्मूर्ध्नि राजत्सरससुरसरित्पारपर्यन्तनिर्य-
त्प्रांशुस्तंबाः पिशङ्गास्तुलितपरिणतारक्तशालीलता वः ।
दुर्वारापत्तिगर्तश्रितनिखिलजनोत्तारणे रज्जुभूता
घोराघोर्वीरुहालीदहनशिखिशिखाः शर्म शार्वाः कपर्दाः ॥१॥
कुर्वन्निर्वाणमार्गप्रगमपरिलसद्रूप्यसोपानशङ्कां
शक्रारीणां पुराणां त्रयविजयकृतस्पष्टरेखायमाणम् ।
अव्यादव्याजमुच्चैरलिकहिमधराधित्यकान्तस्त्रिधोद्य-
ज्जाह्नव्याभं मृडानीकमितुरुडुपरुक्पाण्डरं वस्त्रिपुण्ड्रम् ॥२॥
क्रुध्यद्गौरीप्रसादानतिसमयपदांगुष्ठसंक्रान्तलाक्षा-
बिन्दुस्पर्धि स्मरारे: स्फटिकमणिदृषन्मग्नमाणिक्यशोभं ।
मूर्ध्न्युद्यद्दिव्यसिन्धोः पतितशफरिकाकारि वो मास्तकं स्या-
दस्तोकापत्तिकृत्त्यै हुतवहकणिकामोक्षरूक्षं सदाक्षि ॥३॥
भूत्यै दृग्भूतयोः स्याद्यदहिमहिमरुग्बिंबयोः स्निग्धवर्णो
दैत्यौघध्वंसशंसी स्फुट इव परिवेषावशेषो विभाति ।
सर्गस्थित्यन्तवृत्तिर्मयिसमुपगतेतीव निर्वृत्तगर्वम्
शर्वाणीभर्तुरुच्चैर्युगलमथ दधद्विभ्रमं तद्भ्रुवोर्वः ॥४॥
युग्मे रुक्माब्जपिङ्गे ग्रह इव पिहिते द्राग्ययोः प्राग्दुहित्रा
शैलस्य ध्वान्तनीलांबररचितबृहत्कञ्चुकोऽभूत् प्रपञ्चः
ते त्रैनेत्रे पवित्रे त्रिदशवरघटामित्रजैत्रोग्रशस्त्रे
नेत्रे नेत्रे भवेतां द्रुतमिह भवतामिन्द्रियाश्वान्नियन्तुम् ॥५॥
चण्डीवक्त्रार्पणेच्छोस्तदनु भगवतः पाण्डुरुक्पाण्डु गण्ड-
प्रोद्यत्कण्डूं विनेतुं वितनुत इव ये रत्नकोणैर्विघृष्टिम्
चण्डार्चिर्मण्डलाभे सततनतजनध्वान्तखण्डातिशौण्डे
चाण्डीशे ते श्रिये स्तामधिकमवनताखण्डले कुण्डले व: ॥६॥
खट्वाङ्गोदग्रपाणेः स्फुटविकटपुटो वक्त्ररन्ध्रप्रवेश-
प्रेप्सूदञ्चत्फणोरुश्वसदतिधवलाहीन्द्रशंकां दधानः ।
युष्माकं कम्रवक्त्रांबुरुहपरिलसत्कर्णिकाकारशोभः
शश्वत्त्राणाय भूयादलमतिविमलोत्तुङ्गकोणः स घोणः ॥७॥
क्रुद्धत्यधा ययोः स्वां तनुमतिलसतोर्बिंबितां लक्षयन्ती
भर्त्रे स्पर्धातिनिघ्ना मुहुरितरवधूशङ्कया शैलकन्या ।
युष्मांस्तौ शश्वदुच्चैरबहुलदशमीशर्वरीशातिशुभ्रा-
वव्यास्तां दिव्यसिन्धोः कमितुरवनमल्लोकपालौ कपोलौ ॥८॥
यो भासा भात्युपान्तस्थित इव निभृतं कौस्तुभो द्रष्टुमिच्छन्
सोत्थस्नेहान्नितान्तं गलगतगरलं पत्युरुच्चैः पशूनाम्
प्रोद्यत्प्रेम्णायमार्द्रापिबतिगिरिसुता संपदः सातिरेका
लोकाः शोणीकृतान्ता यदधरमहसा सोऽधरो वो विधत्ताम् ॥९॥
अत्यर्थं राजते या वदनशशधरादुद्गलच्चारुवाणी-
पीयूषांभः प्रवाहप्रसरपरिलसत्फेनबिन्द्वावलीव ।
देयात्सा दन्तपङ्क्तिश्चिरमिह दनुदायाददौवारिकस्य
द्युत्या दीप्तेन्दुकुन्दच्छविरमलतरप्रोन्नताग्रा मुदं वः ॥१०॥
न्यक्कुर्वन्नुर्वराभृन्निभघनसमयोद्घुष्टमेघौघघोषं
स्फूर्जद्वार्ध्युत्थितोरुध्वनितमपि परब्रह्मभूतो गभीरः ।
सुव्यक्तो व्यक्तमूर्तेः प्रकटितकरणः प्राणनाथस्य सत्याः
प्रीत्या वः संविदध्यात् फलविकलमलं जन्म नादः सनादः ॥११॥
भासा यस्य त्रिलोकी लसति परिलसत् फेनबिन्द्वर्णवान्त-
र्व्यामग्नेवातिगौरस्तुलितसुरसरिद्वारिपूरप्रसारः ।
पीनात्मा दन्तभाभिर्भृशमहहहकारातिभीमः सदेष्टां
पुष्टां तुष्टिं कृषीष्ट स्फुटमिह भवतामट्टहासोऽष्टमूर्तेः ॥१२॥
सद्योजाताख्यमाप्यं यदुविमलमुदग्वर्ति यद्वामदेवं
नाम्ना हेम्ना सदृक्षं जलदनिभमघोराह्वयं दक्षिणं यत् ।
यद्बालार्कप्रभं तत्पुरुषनिगदितं पूर्वमीशानसंज्ञं
यद्दिव्यं तानि शंभोर्भवदभिलषितं पञ्च दद्युर्मुखानि ॥१३॥
आत्मप्रेम्णा भवान्या स्वयमिव रचिताः सादरं सांवनन्या
मष्या तिस्रःसुनीलाञ्जननिभगररेखाः समाभान्ति यस्यां ।
आकल्पानल्पभासा भृशरुचिरतरा कंबुकल्पांबिकायाः
पत्युः सात्यन्तमन्तर्विलसतु सततं मन्थरा कंधरा वः ॥१४॥
वक्त्रेन्दोर्दन्तलक्ष्म्याश्चिरमधरमहाकौस्तुभस्याप्युपान्ते
सोत्थानां प्रार्थयन्यः स्थितिमचलभुवे वारयन्त्यै निवेशं
प्रायुङ्क्तेवाशिषो यः प्रतिपदममृतत्वे स्थितः कालशत्रोः
कालं कुर्वन् गलं वो हृदयमयमलं क्षालयेत्काळकूटः ॥१५॥
प्रौढप्रेमाकुलाया दृढतरपरिरंभेषु पर्वेन्दुमुख्याः
पार्वत्याश्चारुचामीकरवलयपदैरङ्कितं कान्तिशालि ।
रङ्गन्नागाङ्गदाढ्यं सततमविहितं कर्म निर्मूलयेत्त-
द्दोर्मूलं निर्मलं यद्धृदि दुरितमपास्यार्जितं धूर्जटेर्वः ॥१६॥
कण्ठाश्लेषार्थमाप्ता दिव इव कमितुः स्वर्गसिन्धोः प्रवाहाः
क्रान्त्यै संसारसिन्धोः स्फटिकमणिमहासंक्रमाकारदीर्घाः ।
तिर्यग्विष्कंभभूतास्त्रिभुवनवसतेर्भिन्नदैत्येभदेहा
बाहा वस्ता हरस्य द्र्रतमिह निवहानंहसां संहरन्तु ॥१७॥
वक्षो दक्षद्विषोऽलं स्मरभरविनमद्दक्षजाक्षीणवक्षो-
जान्तर्निक्षिप्तशुंभन्मलयजमिलितोद्भासि भस्मोक्षितं यत् ।
क्षिप्रं तद्रूक्षचक्षुःश्रुतिगणफणरत्नौघभाभीक्ष्णशोभं
युष्माकं शश्वदेनः स्फटिकमणिशिलामण्डलाभं क्षिणोतु ॥१८॥
मुक्तामुक्ते विचित्राकुलवलिलहरीजालशालिन्यवाञ्च-
न्नाभ्यावर्ते विलोलद्भुजगवरयुते कालशत्रोर्विशाले ।
युष्मच्चित्तत्रिधामा प्रतिनवरुचिरे मन्दिरे कान्तिलक्ष्म्याः
शेतां शीतांशुगौरे चिरतरमुदरक्षीरसिन्धौ सलीलम् ॥१९॥
वैयाघ्री यत्र कृत्तिः स्फुरति हिमगिरेर्विस्तृतोपत्यकान्तः
सान्द्रावश्यायमिश्रा परित इव वृता नीलजीमूतमाला ।
आबद्धाहीन्द्रकाञ्चीगुणमति पृथुलं शैलजाक्रीडभूमि
स्तद्वो निःश्रेयसे स्याज्जघनमतिघनं बालशीतांशुमौलेः ॥२०॥
पुष्टावष्ठंभभूतौ पृथुतरजघनस्यापि नित्यं त्रिलोक्याः
सम्यग्वृत्तौ सुरेन्द्रद्विरदवरकरोदारकान्तिं दधानौ ।
सारावूरूपुरारेः प्रसभमरिघटाघस्मरौ भस्मशुभ्रौ
भक्तैरत्यार्द्रचित्तैरधिकमवनतौ वाञ्छितं वो विधत्ताम् ॥२१॥
आनन्दायेन्दुकान्तोपलरचितसमुद्गायिते ये मुनीनां
चित्तादर्शं निधातुं विदधति चरणे ताण्डवाकुञ्चनानि ।
काञ्चीभोगीन्द्रमूर्ध्नां प्रतिमुहुरुपधानायमाने क्षणं ते
कान्ते स्तामन्तकारेर्द्युतिविजितसुधाभानुनीजानुनी व: ॥२२॥
मञ्जीरीभूतभोगिप्रवरगणफणामण्डलान्तर्नितान्त-
व्यादीर्घानर्घरत्नद्युतिकिसलयिते स्तूयमाने द्युसद्भिः
बिभ्रत्यौ विभ्रमं वः स्फटिकमणिबृहद्दण्डवद्भासिते ये
जंघे शंखेन्दुशुभ्रे भृशमिह भवतां मानसे शूलपाणेः ॥२३॥
अस्तोकस्तोमशस्त्रैरपचितिममलां भूरिभावोपहारैः
कुर्वद्भिः सर्वदोच्चैः सततमभिवृतौ ब्रह्मविद्देवलाद्यैः ।
सम्यक्संपूज्यमानाविह हृदि सरसीवानिशं युष्मदीये
शर्वस्य क्रीडतां तौ प्रपदवरबृहद्कच्छपावच्छभासौ ॥२४॥
याः स्वस्यैकांशपातादतिबहलगलद्रक्तवक्त्रं प्रणुन्न-
प्राणं प्राक्रोशयन् प्राङ् निजमचलवरं चालयन्तं दशास्यं ।
पादाङ्गुल्यो दिशन्तु द्रुतमयुगदृशःकल्मषप्लोषकल्याः
कल्याणं फुल्लमाल्यप्रकरविलसिता वः प्रणद्धाहिवल्ल्यः ॥२५॥
प्रह्व प्राचीनबर्हिः प्रमुखसुरवरप्रस्फुरन्मौलिसक्त-
ज्यायोरत्नोत्करोस्रैरविरतममला भूरिनीराजिता या ।
प्रोदग्राग्रा प्रदेयात्ततिरिव रुचिरा तारकाणां नितान्तं
नीलग्रीवस्य पादांबुरुहविलसिता सा नखाली सुखं व: ॥२६॥
सत्याः सत्याननेन्दावपि सविधगते ये विकासं दधाते
स्वान्ते स्वां ते लभन्ते श्रियमिह सरसीवामरा ये दधानाः ।
लोलं लोलंबकानां कुलमिव सुधियां सेवते ये सदा स्तां
भूत्यै भूत्यैणपाणेर्विमलतररुचस्ते पदांभोरुहे वः ॥२७॥
येषां रागादिदोषाक्षतमति यतयो यान्ति मुक्तिं प्रसादा-
द्ये वा नम्रात्ममूर्तिद्युसदृषिपरिषन्मूर्ध्नि शेषायमाणाः ।
श्रीकण्ठस्यारुणोद्यच्चरणसरसिजप्रोत्थितास्ते भवाख्यात्
पारावाराच्चिरं वो दुरितहतिकृतस्तारयेयुः परागाः ॥२८॥
भूम्ना यस्यास्तसीम्ना भुवनमनुसृतं यत्परं धाम धाम्नां
साम्नामाम्नायतत्त्वं यदपि च परमं यद्गुणातीतमाद्यं ।
यच्चांहोहन्निरीहं गहनमिति मुहुः प्राहुरुच्चैर्महान्तो
माहेशं तन्महो मे महितमहरहर्मोहरोहं निहन्तु ॥२९॥
 
********************** 
उपमन्युकृतशिवस्तोत्रम्
जय शंकर पार्वतीपते मृडशम्भो शशिखण्डमण्डन! ।
मदनान्तक भक्तवत्सल! प्रियकैलास दयासुधांबुधे! ॥१॥
सदुपायकथास्वपण्डितो हृदये दुःखशरेण खण्डितः ।
शशिखण्डशिखण्डमण्डनं शरणं यामि शरण्यमीश्वरम् ॥२॥
महतः परितःप्रसर्पतः तमसो दर्शनभेदिनो भिदे ।
दिननाथ इव स्वतेजसा हृदयव्योम्नि मनागुदेहि नः ॥३॥
न वयं तव चर्मचक्षुषा पदवीमप्युपवीक्षितुं क्षमाः ।
कृपयाऽभयदेन चक्षुषा सकलेनेश विलोकयाशु माम् ॥४॥
त्वदनुस्मृतिरेव पावनी स्तुतियुक्ता न हि वाक्तुमीश सा ।
मधुरं हि पयः स्वभावतो ननु कीदृक् सितशर्करयान्वितम् ॥५॥
सविषोप्यमृतायते भवान् शवमुण्डाभरणोऽपि पावनः ।
भव एव भवान्तकस्सतां समदृष्टिर्विषमेक्षणोपि सन् ॥६॥
अपि शूलधरो निरामयो दृढवैराग्यधरोऽपि रागवान् ।
अपि भैक्षचरो महेश्वरश्चरितं चित्रमिदं हि ते प्रभो ॥७॥
वितरत्यभिवाञ्छितं दृशा परिदृष्टः किल कल्पपादपः ।
हृदये स्मृत एव धीयते नमतेऽभिष्टफलप्रदो भवान् ॥८॥
सहसैव भुजंगपाशवान् विनिगृह्णाति न यावदन्तकः ।
अभयं कुत तावदाशु मे गतजीवस्य पुनः किमौषधैः ॥९॥
सविषैरिव भीमपन्नगैर्विषयैरेभिरलं परिक्षतं ।
अमृतैरिव संभ्रमेण मामभिषिञ्चाशु दयावलोकनैः ॥१०॥
मुनयो बहवोऽत्र धन्यतां गमिता स्वाभिमतार्थदर्शिनः ।
करुणाकर येन तेन मामवसन्नं ननु पश्य चक्षुषा ॥११॥
प्रणमाम्यथ यामि चापरं शरणं कं कृपणाभयप्रदम् ।
विरहीव विभो प्रियामयं परिपश्यामि भवन्मयं जगत् ॥१२॥
बहवो भवतानुकंपिताः किमितीशान न मानुकंपसे ।
दधता किमु मन्दराचलं परमाणुः कमठेन दुर्धरः ॥१३॥
अशुचिर्यदिमाऽनुमन्यसे किमिदं मूर्ध्नि कपालदाम ते ।

श्रीशिवरामाष्टकस्तोत्रम् 
शिव हरे शिव राम सखे प्रभो
त्रिविधतापनिवारण हे प्रभो ।
अज जनेश्वर यादव पाहि मां
शिव हरे विजयं कुरु मे वरम् ॥१॥
कमललोचन राम दयानिधे
हर गुरो गजरक्षक गोपते ।
शिवतनो भव शङ्कर पाहि मां
शिव हरे विजयं कुरु मे वरम् ॥२॥
सुजनरञ्जन मङ्गलमन्दिरं
भजति ते पुरुषः परमं पदम् ।
भवति तस्य सुखं परमद्भुतं
शिव हरे विजयं कुरु मे वरम् ॥३॥
जय युधिष्ठिरवल्लभ भूपते
जय जयार्जितपुण्यपयोनिधे ।
जय कृपामय कृष्ण नमोऽस्तु ते
शिव हरे विजयं कुरु मे वरम् ॥४॥
भवविमोचन माधव मापते
सुकविमानसहंस शिवारते ।
जनकजारत राघव रक्ष मां
शिव हरे विजयं कुरु मे वरम् ॥५॥
अवनिमण्डलमङ्गल मापते
जलदसुन्दर राम रमापते ।
निगमकीर्तिगुणार्णव गोपते
शिव हरे विजयं कुरु मे वरम् ॥६॥
पतितपावन नाममयी लता
तव यशो विमलं परिगीयते ।
तदपि माधव मां किमुपेक्षसे
शिव हरे विजयं कुरु मे वरम् ॥७॥
अमरतापरदेव रमापते
विजयतस्तव नामधनोपमा ।
मयि कथं करुणार्णव जायते
शिव हरे विजयं कुरु मे वरम् ॥८॥
हनुमतः प्रिय चापकर प्रभो
सुरसरिद्धृतशेखर हे गुरो ।
ममविभो किमु विस्मरणं कृतं
शिव हरे विजयं कुरु मे वरम् ॥९॥
अहरहर्जनरञ्जनसुन्दरं
पठति यः शिवरामकृतं स्तवम् ।
विशति रामरमाचरणाम्बुजे
शिव हरे विजयं कुरु मे वरम् ॥१०॥
प्रातरुत्थाय यो भक्त्या पठेदेकाग्रमानसः ।
विजयो जायते तस्य विष्णुमाराध्यमाप्नुयात् ॥११॥
 
********************** 
किरातमूर्तिस्तोत्रम् 
नमः शिवाय भर्गाय लीलाशबररूपिणे ।
प्रपन्नार्तपरित्राणकरुणामसृणात्मने ॥१॥
पिञ्छोत्तंसं समानीलश्मश्रुविद्योतिताननम् ।
उदग्रारक्तनयनं गौरकौशेयवाससम् ॥२॥
कैलासशिखरोत्तुङ्गं छुरिकाचापधारिणम् ।
किरातमूर्तिं ध्यायामि परमं कुलदैवतम् ॥३॥
दुर्जनैर्बहुधाऽऽक्रान्तं भयसंभ्रान्तमानसम् ।
त्वदेकशरणं दीनं परिपालय नाथ, माम् ॥४॥
मह्यं द्रुह्यन्ति रिपवो बाह्याश्चाभ्यन्तराश्च ये।
विद्रावय दयासिन्धो चापज्यानिस्वनेन तान् ॥५॥
कूटकर्मप्रसक्तानां शत्रूणां शातनाय भोः ।
चालय छुरिकां घोरां शतकोटिसमुज्ज्वलाम् ॥६॥
विपद्दावानलज्वालासन्तप्तं रोगपीडितम् ।
कर्तव्यताविमूढं मां त्रायस्व गिरिशात्मज ॥७॥
नमः किरातवपुषे नमः क्षेमङ्कराय च ।
नमः पापविघाताय नमस्ते धर्मसेतवे ॥८॥
 
********************** 
शिवषडक्षरस्तोत्रम् – २
ओंकारसंज्ञाय समस्तवेद-
पुराणपुण्यागमपूजिताय
ओंकाररूप प्रियदर्शनाय
ओंकाररूपाय नमः शिवाय ॥१॥
नाना जराव्याधि विनाशनाय
नाथाय लोकस्य जगद्धिताय ।
नाना कलाज्ञान निदर्शनाय
तस्मै नकाराय नमः शिवाय ॥२॥
मात्सर्यदोषान्तक संभवाय
मातुः पितुः दुःखनिवरणाय ।
माहेश्वरी सूक्ष्मवराय नित्यं
तस्मै मकाराय नमः शिवाय ॥३॥
शीलव्रतज्ञानदृढव्रताय
शीलासुवर्णाय समुत्सुकाय ।
शीघ्राय नित्यं सुरसेविताय
तस्मै शिकाराय नमः शिवाय ॥४॥
वामार्धविद्युत्प्रतिमप्रभाय
वचो मनः कर्म विमोचनाय ।
वागीश्वरी सूक्ष्मवराय नित्यं
तस्मै वकाराय नमः शिवाय ॥५॥
यक्षोरगेन्द्रादिसुरावृताय
यक्षाङ्गनाजन्मविमोचनाय
यक्षेषु लोकेषु जगद्धिताय
तस्मै यकाराय नमः शिवाय ॥६॥
उत्फुल्लनीलोत्पललोचनायै
कृशानुचन्द्रार्कविलोचनाय ।
निरीश्वरायै निखिलेश्वराय
नमः शिवायै च नमः शिवाय ॥७॥
 
 
********************** 
अथर्वशिरोपनिषत्
अथर्ववेदीय शैव उपनिषत्‌॥
अथर्वशिरसामर्थमनर्थप्रोचवाचकम्‌।
सर्वाधारमनाधारं स्वमात्रत्रैपदाक्षरम्‌॥
ॐ भद्रं कर्णेभिः शृणुयाम देवा
भद्रं पश्येमाक्षभिर्यजत्राः।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभि-
र्व्यशेम देवहितं यदायुः॥
स्वस्ति न इन्द्रो वॄद्धश्रवाः
स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः
स्वस्ति नो बृहस्पतिर्दधातु॥
ॐ  शान्तिः  शान्तिः  शान्तिः॥
ॐ देवा ह वै स्वर्गं लोकमायंस्ते रुद्रमपृच्छन्को
भवानिति। सोऽब्रवीदहमेकः प्रथममासं वर्तामि च
भविश्यामि च नान्यः कश्चिन्मत्तो व्यतिरिक्त इति।
सोऽन्तरादन्तरं प्राविशत्‌ दिशश्चान्तरं प्राविशत्‌
सोऽहं नित्यानित्योऽहं व्यक्ताव्यक्तो ब्रह्माब्रह्माहं प्राञ्चः
प्रत्यञ्चोऽहं दक्षिणाञ्च उदञ्चोहं
अधश्चोर्ध्वं चाहं दिशश्च प्रतिदिशश्चाहं
पुमानपुमान् स्त्रियश्चाहं गायत्र्यहं सावित्र्यहं
त्रिष्टुब्जगत्यनुष्टुप् चाहं छन्दोऽहं गार्हपत्यो
दक्षिणाग्निराहवनीयोऽहं सत्योऽहं गौरहं
गौर्यहमृगहं यजुरहं सामाहमथर्वाङ्गिरसोऽहं
ज्येष्ठोऽहं श्रेष्ठोऽहं वरिष्ठोऽहमापोऽहं तेजोऽहं
गुह्योहंअरण्योऽहमक्षरमहं क्षरमहं पुष्करमहं
पवित्रमहमुग्रं च मध्यं च बहिश्च
पुरस्ताज्ज्योतिरित्यहमेव सर्वेभ्यो मामेव स सर्वः समां यो
मां वेद स सर्वान्देवान्वेद सर्वांश्च वेदान्साङ्गानपि
ब्रह्म ब्राह्मणैश्च गां गोभिर्ब्राह्माणान्ब्राह्मणेन
हविर्हविषा आयुरायुषा सत्येन सत्यं धर्मेण धर्मं
तर्पयामि स्वेन तेजसा। ततो ह वै ते देवा रुद्रमपृच्छन्‌
ते देवा रुद्रमपश्यन्‌।
ते देवा रुद्रमध्यायन्‌ ततो देवा ऊर्ध्वबाहवो रुद्रं स्तुवन्ति॥ १॥
ॐ यो वै रुद्रः स भगवान्यश्च ब्रह्मा तस्मै वै नमोनमः॥ १॥
यो वै रुद्रः स भगवान्‌ यश्च विष्णुस्तस्मै वै नमोनमः॥२॥
यो वै रुद्रः स भगवान्यश्च स्कन्दस्तस्मै वै नमोनमः॥ ३॥
यो वै रुद्रः स भगवान्यश्चेन्द्रस्तस्मै वै नमोनमः॥ ४॥
यो वै रुद्रः स भगवान्यश्चाग्निस्तस्मै वै नमोनमः॥ ५॥
यो वै रुद्रः स भगवान्यश्च वायुस्तस्मै वै नमोनमः॥ ६॥
यो वै रुद्रः स भगवान्यश्च सूर्यस्तस्मै वै नमोनमः॥ ७॥
यो वै रुद्रः स भगवान्यश्च सोमस्तस्मै वै नमोनमः॥ ८॥
यो वै रुद्रः स भगवान्ये चाष्टौ ग्रहास्तस्मै वै नमोनमः॥ ९॥
यो वै रुद्रः स भगवान्ये चाष्टौ प्रतिग्रहास्तस्मै वैनमोनमः॥ १०॥
यो वै रुद्रः स भगवान्यच्च भूस्तस्मै वै नमोनमः॥ ११॥
यो वै रुद्रः स भगवान्यच्च भुवस्तस्मै वै नमोनमः॥ १२॥
यो वै रुद्रः स भगवान्यच्च स्वस्तस्मै वै नमोनमः॥ १३॥
यो वै रुद्रः स भगवान्यच्च महस्तस्मै वै नमोनमः॥ १४॥
यो वै रुद्रः स भगवान्या च पृथिवी तस्मै वै नमोनमः॥१५॥
यो वै रुद्रः स भगवान्यच्चान्तरिक्षं तस्मै वै नमोनमः॥ १६॥
यो वै रुद्रः स भगवान्या च द्यौस्तस्मै वै नमोनमः॥ १७॥
यो वै रुद्रः स भगवान्याश्चापस्तस्मै वै नमोनमः॥ १८॥
यो वै रुद्रः स भगवान्यच्च तेजस्तस्मै वै नमोनमः॥ १९॥
यो वै रुद्रः स भगवान्यश्च कालस्तस्मै वै नमोनमः॥ २०॥
यो वै रुद्रः स भगवान्यश्च यमस्तस्मै वै नमोनमः॥ २१॥
यो वै रुद्रः स भगवान्यश्च मृत्युस्तस्मै वै नमोनमः॥ २२॥
यो वै रुद्रः स भगवान्यच्चामृतं तस्मै वै नमोनमः॥२३॥
यो वै रुद्रः स भगवान्यच्चाकाशं तस्मै वै नमोनमः॥२४॥
यो वै रुद्रः स भगवान्यच्च विश्वं तस्मै वै नमोनमः॥२५॥
यो वै रुद्रः स भगवान्याच्च स्थूलं तस्मै वै नमोनमः॥२६॥
यो वै रुद्रः स भगवान्यच्च सूक्ष्मं तस्मै वै नमोनमः॥२७॥
यो वै रुद्रः स भगवान्यच्च शुक्लं तस्मै नमोनमः॥ २८॥
यो वै रुद्रः स भगवान्यच्च कृष्णं तस्मै वै नमोनमः॥ २९॥
यो वै रुद्रः स भगवान्यच्च कृत्स्नं तस्मै वै नमोनमः॥३०॥
यो वै रुद्रः स भगवान्यच्च सत्यं तस्मै वै नमोनमः॥ ३१॥
यो वै रुद्रः स भगवान्यच्च सर्वं तस्मै वै नमोनमः॥३२॥॥ २॥
भूस्ते आदिर्मध्यं भुवः स्वस्ते शीर्षं विश्वरूपोऽसि
ब्रह्मैकस्त्वं द्विधा त्रिधा
वृद्धिस्तं शान्तिस्त्वं पुष्टिस्त्वं हुतमहुतं दत्तमदत्तं
सर्वमसर्वं विश्वमविश्वं
कृतमकृतं परमपरं परायणं च त्वम्‌। अपाम
सोमममृता अभूमागन्म ज्योतिरविदाम देवान्‌।
किं नूनमस्मान्कृणवदरातिः किमु धूर्तिरमृतं मार्त्यस्य।
सोमसूर्यपुरस्तात्‌ सूक्ष्मः पुरुषः।
सर्वं जगद्धितं वा एतदक्षरं प्राजापत्यं सूक्ष्मं
सौम्यं पुरुषं ग्राह्यमग्राह्येण भावं भावेन सौम्यं
सौम्येन सूक्ष्मं सूक्ष्मेण वायव्यं वायव्येन ग्रसति स्वेन
तेजसा तस्मादुपसंहर्त्रे महाग्रासाय वै नमो नमः।
हृदिस्था देवताः सर्वा हृदि प्राणाः प्रतिष्ठिताः। हृदि
त्वमसि यो नित्यं तिस्रो मात्राः परस्तु सः। तस्योत्तरतः शिरो
दक्षिणतः पादौ य उत्तरतः स ओङ्कारः य ओङ्कारः स प्रणवः
यः प्रणवः स सर्वव्यापी यः सर्वव्यापी सोऽनन्तः
योऽनन्तस्तत्तारं यत्तारं तत्सूक्ष्मं तच्छुक्लं
यच्छुक्लं तद्वैद्युतं यद्वैद्युतं तत्परं ब्रह्म यत्परं
ब्रह्म स एकः य एकः स रुद्रः य रुद्रः यो रुद्रः स ईशानः य
ईशानः स भगवान्‌ महेश्वरः॥ ३॥
अथ कस्मादुच्यत ओङ्कारो यस्मादुच्चार्यमाण एव
प्राणानूर्ध्वमुत्क्रामयति तस्मादुच्यते ओङ्कारः।
अथ कस्मादुच्यते प्रणवः यस्मादुच्चार्यमाण एव
ऋग्यजुःसामाथर्वाङ्गिरसं ब्रह्म ब्राह्मणेभ्यः प्रणामयति
नामयति च तस्मादुच्यते प्रणवः।
अथ कस्मादुच्यते सर्वव्यापी यस्मादुच्चार्यमाण एव
सर्वांलोकान्व्याप्नोति स्नेहो यथा पललपिण्डमिव
शान्तरूपमोतप्रोतमनुप्राप्तो व्यतिषक्तश्च तस्मादुच्यते
सर्वव्यापी।
अथ कस्मादुच्यतेऽनन्तो यस्मादुच्चार्यमाण एव
तिर्यगूर्ध्वमधस्ताच्चास्यान्तो नोपलभ्यते
तस्मादुच्यतेऽनन्तः।
अथ कस्मादुच्यते तारं यस्मादुच्चारमाण एव
गर्भजन्मव्याधिजरामरणसंसारमहाभयात्तारयति त्रायते
च तस्मादुच्यते तारम्‌।
अथ कस्मादुच्यते शुक्लं यस्मादुच्चार्यमाण एव क्लन्दते
क्लामयति च तस्मादुच्यते शुक्लम्‌।
अथ कस्मादुच्यते सूक्ष्मं यस्मादुच्चार्यमाण एव सूक्ष्मो
भूत्वा शरीराण्यधितिष्ठति सर्वाणि चाङ्गान्यमिमृशति
तस्मादुच्यते सूक्ष्मम्‌।
अथ कस्मादुच्यते वैद्युतं यस्मादुच्चार्यमाण एव व्यक्ते
महति तमसि द्योतयति तस्मादुच्यते वैद्युतम्‌। अथ
कस्मादुच्यते परं ब्रह्म यस्मात्परमपरं परायणं च
बृहद्बृहत्या बृंहयति तस्मादुच्यते परं ब्रह्म।
अथ कस्मादुच्यते एकः यः सर्वान्प्राणान्संभक्ष्य
संभक्षणेनाजः संसृजति विसृजति तीर्थमेके व्रजन्ति
तीर्थमेके दक्षिणाः प्रत्यञ्च उदञ्चः
प्राञ्चोऽभिव्रजन्त्येके तेषां सर्वेषामिह सद्गतिः। साकं
स एको भूतश्चरति प्रजानां तस्मादुच्यत एकः।
अथ कस्मादुच्यते रुद्रः
यस्मादृषिभिर्नान्यैर्भक्तैर्द्रुतमस्य रूपमुपलभ्यते
तस्मादुच्यते रुद्रः।
अथ कस्मादुच्यते ईशानः यः सर्वान्देवानीशते
ईशानीभिर्जननीभिश्च परमशक्तिभिः। अमित्वा शूर णो
नुमो दुग्धा इव धेनवः। ईशानमस्य जगतः
स्वर्दृशमीशानमिन्द्र तस्थिष इति तस्मादुच्यते ईशानः।
अथ कस्मादुच्यते भगवान्महेश्वरः यस्माद्भक्ता ज्ञानेन
भजन्त्यनुगृह्णाति च वाचं संसृजति विसृजति च
सर्वान्भावान्परित्यज्यात्मज्ञानेन योगेश्वैर्येण महति महीयते
तस्मादुच्यतेभगवान्महेश्वरः। तदेतद्रुद्रचरितम्‌॥ ४॥
एको ह देवः प्रदिशो नु सर्वाः पूर्वो ह जातः स उ गर्भे अन्तः।
स एव जातः जनिष्यमाणः प्रत्यङ्जनास्तिष्ठति सर्वतोमुखः।
एको रुद्रो न द्वितीयाय तस्मै य इमांल्लोकानीशत ईशनीभिः।
प्रत्यङ्जनास्तिष्ठति संचुकोचान्तकाले संसृज्य विश्वा
भुवनानि गोप्ता।
यो योनिं योनिमधितिष्ठतित्येको येनेदं सर्वं विचरति
सर्वम्‌।
तमीशानं पुरुषं देवमीड्यं निचाय्येमां
शान्तिमत्यन्तमेति।
क्षमां हित्वा हेतुजालास्य मूलं बुद्ध्या संचितं
स्थापयित्वा तु रुद्रे।
रुद्रमेकत्वमाहुः शाश्वतं वै पुराणमिषमूर्जेण
पशवोऽनुनामयन्तं मृत्युपाशान्‌।
तदेतेनात्मन्नेतेनार्धचतुर्थेन मात्रेण शान्तिं संसृजन्ति
पशुपाशविमोक्षणम्‌।
या सा प्रथमा मात्रा ब्रह्मदेवत्या रक्ता वर्णेन यस्तां
ध्यायते नित्यं स गच्छेत्ब्रह्मपदम्‌।
या सा द्वितीया मात्रा विष्णुदेवत्या कृष्णा वर्णेन
यस्तां ध्यायते नित्यं स गच्छेद्वैष्णवं पदम्‌। या सा
तृतीया मात्रा ईशानदेवत्या कपिला वर्णेन यस्तां
ध्यायते नित्यं स गच्छेदैशानं पदम्‌।
या सार्धचतुर्थी मात्रा सर्वदेवत्याऽव्यक्तीभूता खं
विचरति शुद्धा स्फटिकसन्निभा वर्णेन यस्तां ध्यायते
नित्यं स गच्छेत्पदमनामयम्‌।
तदेतदुपासीत मुनयो वाग्वदन्ति न तस्य ग्रहणमयं पन्था
विहित उत्तरेण येन देवा यान्ति येन पितरो येन ऋषयः
परमपरं परायणं चेति।
वालाग्रमात्रं हृदयस्य मध्ये विश्वं देवं जातरूपं
वरेण्यम्‌।
तमात्मस्थं येनु पश्यन्ति धीरास्तेषां शान्तिर्भवति
नेतरेषाम्‌।
यस्मिन्क्रोधं यां च तृष्णां क्षमां चाक्षमां हित्वा
हेतुजालस्य मूलम्‌।
बुद्ध्या संचितं स्थापयित्वा तु रुद्रे रुद्रमेकत्वमाहुः।
रुद्रो हि शाश्वतेन वै पुराणेनेषमूर्जेण तपसा नियन्ता।
अग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म
व्योमेति भस्म सर्वंह वा इदं भस्म मन एतानि
चक्षूंषि यस्माद्व्रतमिदं पाशुपतं यद्भस्म नाङ्गानि
संस्पृशेत्तस्माद्ब्रह्म तदेतत्पाशुपतं पशुपाश
विमोक्षणाय॥ ५॥
योऽग्नौ रुद्रो योऽप्स्वन्तर्य ओषधीर्वीरुध आविवेश। य इमा
विश्वा भुवनानि चक्लृपे तस्मै रुद्राय नमोऽस्त्वग्नये।
यो रुद्रोऽग्नौ यो रुद्रोऽप्स्वन्तर्यो ओषधीर्वीरुध आविवेश।
यो रुद्र इमा विश्वा भुवनानि चक्लृपे तस्मै रुद्राय
नमोनमः।
यो रुद्रोऽप्सु यो रुद्र ओषधीषु यो रुद्रो वनस्पतिषु। येन
रुद्रेण जगदूर्ध्वंधारितं पृथिवी द्विधा त्रिधा धर्ता
धारिता नागा येऽन्तरिक्षे तस्मै रुद्राय वै नमोनमः।
मूर्धानमस्य संसेव्याप्यथर्वा हृदयं च यत्‌।
मस्तिष्कादूर्ध्वं प्रेरयत्यवमानोऽधिशीर्षतः।तद्वा
अथर्वणः शिरो देवकोशः समुज्झितः। तत्प्राणोऽभिरक्षति
शिरोऽन्तमथो मनः। न च दिवो देवजनेन गुप्ता न
चान्तरिक्षाणि न च भूम इमाः।
यस्मिन्निदं सर्वमोतप्रोतं तस्मादन्यन्न परं किञ्चनास्ति।
न तस्मात्पूर्वं न परं तदस्ति न भूतं नोत भव्यं
यदासीत्‌। सहस्रपादेकमूर्ध्ना व्याप्तं स एवेदमावरीवर्ति
भूतम्‌।
अक्षरात्संजायते कालः कालाद्व्यापक उच्यते। व्यापको हि
भगवान्रुद्रो भोगायमनो यदा शेते रुद्रस्तदा संहार्यते
प्रजाः।
उच्छ्वासिते तमो भवति तमस आपोऽप्स्वङ्गुल्या मथिते
मथितं शिशिरे शिशिरं मथ्यमानं फेनं भवति फेनादण्डं
भवत्यण्डाद्ब्रह्मा भवति ब्रह्मणो वायुः वायोरोङ्कारः
ॐकारात्सावित्री सावित्या गायत्री गायत्र्या लोका भवन्ति।
अर्चयन्ति तपः सत्यं मधु क्षरन्ति यद्भुवम्‌। एतद्धि
परमं तपः। आपोऽज्योती रसोऽमृतं ब्रह्म भूर्भुवः स्वरो
नम इति॥ ६॥
य इदमथर्वशिरो ब्राह्मणोऽधीते अश्रोत्रियः श्रोत्रियो भवति
अनुपनीत उपनीतो भवति सोऽग्निपूतो भवति स वायुपूतो
भवति स सूर्यपूतो भवति स सर्वेर्देवैर्ज्ञातो भवति स
सर्वैर्वेदैरनुध्यातो भवति स सर्वेषु तीर्थेषु स्नातो
भवति तेन सर्वैः क्रतुभिरिष्टं भवति गायत्र्याः
षष्टिसहस्राणि जप्तानि भवन्ति इतिहासपुराणानां
रुद्राणां शतसहस्राणि जप्तानि भवन्ति। प्रणवानामयुतं
जप्तं भवति। स चक्षुषः पङ्क्तिं पुनाति। आ
सप्तमात्पुरुषयुगान्पुनातीत्याह भगवानथर्वशिरः
सकृज्जप्त्वैव शुचिः स पूतः कर्मण्यो भवति। द्वितीयं
जप्त्वा गणाधिपत्यमवाप्नोति। तृतीयं
जप्त्वैवमेवानुप्रविशत्यों सत्यमों सत्यमों सत्यम्‌ ॥७॥
ॐ भद्रं कर्णेभिरिति शान्तिः॥
 
॥ इत्यथर्वशिरउपनिषत्समाप्ता॥
 
********************** 
शिवस्तुति लङ्केश्वरकृत
गले कलितकालिमः प्रकटितेन्दुभालस्थले विनाटितजटोत्करं रुचिरपाणिपाथोरुहे ।
उदञ्चितकपालकं जघनसीम्नि सन्दर्शितद्विपाजिनमनुक्षणं किमपि धाम वन्दामहे ॥१॥
 
वृषोपरि परिस्फुरद्धवलधामधामश्रियां कुबेरगिरिगौरिमप्रभवगर्वनिर्वासि तत् ।
क्वचित्पुनरुमाकुचोपचितकुङ्कुमै रञ्जितं गजाजिनविराजितं वृजिनभङ्गबीजं भजे ॥२॥
 
उदित्वरविलोचनत्रयविसृत्वरज्योतिषा कलाकरकलाकरव्यतिकरेण चाहर्निशम् ।
विकासितजटाटवीविहरणोत्सवप्रोल्लसत्तरामरतरङ्गिणीतरलचूडमीडे मृडम् ॥३॥
 
विहाय कमलालयाविलसितानि विद्युन्नटीविडम्बनपटूनि मे विहरणं विधत्तां मनः ।
कपर्दिनि कुमुद्वतीरमणखण्डचूडामणौ कटीतटपटीभवत्करटिचर्मणि ब्रह्मणि ॥४॥
 
भवद्भवनदेहलीविकटतुण्डदण्डाहतित्रुटन्मुकुटकोटिभिर्मघवदादिभिर्भूयते ।
व्रजेम भवदन्तिकं प्रकृतिमेत्य पैशाचिकीं किमित्यमरसम्पदः प्रमथनाथ नाथामहे ॥५॥
 
त्वदर्चनपरायणप्रमथकन्यकालुण्ठितप्रसूनसफलद्रुमं कमपि शैलमाशास्महे ।
अलं तटवितर्दिकाशयितसिद्धिसीमन्तिनीप्रकीर्णसुमनोमनोरमणमेरुणामेरुणा ॥६॥
 
न जातु हर यातु मे विषयदुर्विलासं मनोमनोभवकथास्तु मे न च मनोरथातिथ्यभूः ।
स्फुरत्सुरतरङ्गिणीतटकुटीरकोटौ वसन्नये शिव दिवानिशं तव भवानि पूजापरः ॥७॥
 
विभूषणसुरापगाशुचितरालवालावलीवलद्वहलसीकरप्रकरसेकसंवर्धिता ।
महेश्वरसुरद्रुमस्फुरितसज्जटामञ्जरी नमज्जनफलप्रदा मम नु हन्त भूयादियम् ॥८॥
 
बहिर्विषयसङ्गतिप्रतिनिवर्तिताक्षावलेः समाधिकलितात्मनः पशुपतेरशेषात्मनः ।
शिरःसुरसरित्तटीकुटिलकल्पकल्पद्रुमं निशाकरकलामहं बटुविमृश्यमानां भजे ॥९॥
 
त्वदीयसुरवाहिनीविमलवारिधारावलज्जटागहनगाहिनी मतिरियं मम क्रामतु ।
उपोत्तमसरित्तटीविटपिताटवी प्रोल्लसत्तपस्विपरिषत्तुलाममलमल्लिकाभ प्रभो ॥१०॥
 
इति श्रीलङ्केश्वरविरचिता शिवस्तुतिः समाप्ता ॥
 
 
********************** 
उपमन्युकृतशिवस्तोत्रम् 
जय शङ्कर पार्वतीपते मृड शम्भो शशिखण्डमण्दन ।
मदनान्तक भक्तवत्सल प्रियकैलास दयासुधाम्बुधे ॥१॥
 
सदुपायकथास्वपण्डितो हृदये दुःखशरेण खण्डितः ।
शशिखण्डशिखण्डमण्डनं शरणं यामि शरण्यमीश्वरम् ॥२॥
 
महतः परितः प्रसर्पतस्तमसो दर्शनभेदिनो भिदे ।
दिननाथ इव स्वतेजसा हृदयव्योम्नि मनागुदेहि नः ॥३॥
 
न वयं तव चर्मचक्षुषा पदवीमप्युपवीक्षितुं क्षमाः ।
कृपयाऽभयदेन चक्षुषा सकलेनेश विलोकयाशु नः ॥४॥
 
त्वदनुस्मृतिरेव पावनी स्तुतियुक्ता न हि वक्तुमीश सा ।
मधुरं हि पयः स्वभावतो ननु किदृक्सितशर्करान्वितम् ॥५॥
 
सविषोऽप्यमृतायते भवाञ्छवमुण्डाभरणोऽपि पावनः ।
भव एव भवान्तकः सतां समदृष्टिर्विषमेक्षणोऽपि सन् ॥६॥
 
अपि शूलधरो सतां निरामयो दृढवैराग्यरतोऽपि रागवान् ।
अपि भैक्ष्यचरो महेश्वरश्चरितं चित्रमिदं हि ते प्रभो ॥७॥
 
वितरत्यभिवाञ्छितं दृशा परिदृष्टः किल कल्पपादपः ।
हृदये स्मृत एव धीमते नमतेऽभीष्टफलप्रदो भवान् ॥८॥
 
सहसैव भुजङ्गपाशवान्विनिगृह्णाति न यावदन्तकः ।
अभयं कुरु तावदाशु मे गतजीवस्य पुनः किमौषधैः ॥९॥
 
सविषैरिव भीमपन्नगैर्विषयैरेभिरलं परिक्षतम् ।
अमृतैरिव संभ्रमेण मामभिषिञ्चाशु दयावलोकनैः ॥१०॥
 
मुनयो बहवोऽद्य धन्यतां गमिता स्वाभिमतार्थदर्शिनः ।
करुणाकर येन तेन मामवसन्नं ननु पश्य चक्षुषा ॥११॥
 
प्रणमाम्यथ यामि चापरं शरणं कं कृपणाभयप्रदम् ।
विरहीव विभो प्रियामयं परिपश्यामि भवन्मयं जगत् ॥१२॥
 
बहवो भवताऽनुकम्पिताः किमितीशान न मानुकम्पसे ।
दधता किमु मन्दराचलं परमाणुः कमठेन दुर्धरः ॥१३॥
 
अशुचिं यदि मानुमन्यसे किमिदं मूर्ध्नि कपालदाम ते ।
उत शाठ्यमसाधुसङ्गिनं विषलक्ष्मासि न किं द्विजिह्वधृक्॥१४॥
 
क्व दृशं विदधामि किं करोम्यनुतिष्ठामि कथं भयाकुलः ।
क्व नु तिष्ठसि रक्ष रक्ष मामयि शम्भो शरणागतोऽस्मि ते ॥१५॥
 
विलुठाम्यवनौ किमाकुलः किमुरो हन्मि शिरश्छिनद्मि वा ।
किमु रोदिमि रारटीमि किं कृपणं मां न यदीक्षसे प्रभो ॥१६॥
 
शिव सर्वग शर्व शर्मदं प्रणतो देव दयां कुरुष्व मे ।
नम ईश्वर नाथ दिक्पते पुनरेवेश नमो नमोऽस्तु ते ॥१७॥
 
शरणं तरुणेन्दुशेखरः शरणं मे गिरिराजकन्यका ।
शरणं पुनरेव तावुभौ शरणं नान्यदुपैमि दैवतम् ॥१८॥
 
उपमन्युकृतं स्तवोत्तमं जपतः शम्भुसमीपवर्तिनः ।
अभिवाञ्छितभाग्यसम्पदः परमायुः प्रददाति शङ्करः ॥१९॥
 
उपमन्युकृतं स्तवोत्तमं प्रजपेद्यस्तु शिवस्य सन्निधौ ।
शिवलोकमवाप्य सोऽचिरात्सह तेनैव शिवेन मोदते ॥२०॥
 
इत्युपमन्युकृतं शिवस्तोत्रं सम्पूर्णम् ।
 
********************** 

कल्किकृतं शिवस्तोत्रम्
गौरीनाथं विश्वनाथं शरण्यं भूतावासं वासुकीकण्ठभूषम् ।
त्र्यक्षं पञ्चास्यादिदेवं पुराणं वन्दे सान्द्रानन्दसन्दोहदक्षम् ॥१॥
योगाधीशं कामनाशं करालं गङ्गासङ्गक्लिन्नमूर्धानमीशम् ।
जटाजूटाटोपरिक्षिप्तभावं महाकालं चन्द्रभालं नमामि ॥२॥
श्मशानस्थं भूतवेतालसङ्गं नानाशस्त्रैः सङ्गशूलादिभिश्च ।
व्यग्रात्युग्रा बाहवो लोकनाशे यस्य क्रोधोद्भूतलोकोऽस्तमेति ॥३॥
यो भूतादिः पञ्चभूतैः सिसृक्षुस्तन्मात्रात्मा कालकर्मस्वभावैः ।
प्रहृत्येदं प्राप्य जीवत्वमीशो ब्रह्मानन्दे क्रीडते तं नमामि ॥४॥
स्थितौ विष्णुः सर्वजिष्णुः सुरात्मा लोकान्साधून् धर्मसेतून्बिभर्ति ।
ब्रह्माद्यंशे योऽभिमानी गुणात्मा शब्दाद्यङ्गैस्तं परेशं नमामि ॥५॥
यस्याज्ञया वायवो वान्ति लोके ज्वलत्यग्निः सविता याति तप्यन् ।
शीतांशुः खे तारकासङ्ग्रहश्च प्रवर्तन्ते तं परेशं प्रपद्ये ॥६॥
यस्य श्वासात्सर्वधात्री धरित्री देवो वर्षत्यम्बुकालः प्रमाता ।
मेरुर्मध्ये भूवनानां च भर्ता तमीशानं विश्वरूपं नमामि ॥७॥
इति श्रीकल्किपुराणे कल्किकृतं शिवस्तोत्रं सम्पूर्णम् ।
 
******************* 
 
शिवस्तोत्रम् 
ॐ नमः शिवाय ।
निखिलभुवनजन्मस्थमभङ्गप्ररोहाः
अकलितमहिमानः कल्पिता यत्र तस्मिन् ।
सुविमलगगनाभे ईशसंस्थेऽप्यनीशे
मम भवतु भवेऽस्मिन् भासुरो भावबन्धः ॥
निहतनिखिलमोहेऽधीशता यत्र रूढा
प्रकटितपरप्रेम्ना यो महादेव संज्ञः ।
अशिथिलपरिरम्भः प्रेमरूपस्य यस्य
प्रणयति हृदि विश्वं व्याजमात्रं विभुत्वम् ॥
वहति विपुलवातः पूर्व संस्काररूपः
प्रमथति बलवृंदं घूर्णितेवोर्मिमाला ।
प्रचलति खलु युग्मं युष्मदस्मत्प्रतीतम्
अतिविकलितरूपं नौमि चित्तं शिवस्थम् ॥
जनकजनितभावो वृत्तयः संस्कृताश्च
अगणनबहुरूपा यत्र एको यथार्थः ।
शमितविकृतवाते यत्र नांतर्बहिश्च
तमहह हरमौडे चित्तवृत्तेर्निरोधम् ॥
गलिततिमिरमालः शुभ्रतेजःप्रकाशः
धवलकमलशोभः ज्ञानपुञ्जाट्टहासः ।
यमिजनहृदिगम्यः निष्कलं ध्यायमानः
प्रणतमवतु मं सः मानसो राजहंसः ॥
दुरितदलनदक्षं दक्षजादत्तदोषम्
कलितकलिकलङ्कं कम्रकल्हारकांतम् ।
परहितकरणाय प्राणविच्छेदसूत्कम्
नतनयननियुक्तं नीलकंठं नमामः ॥
 
******************* 
शिवस्तवः 
ॐ नमः शिवाय शर्वाय देवदेवाय वै नमः ।
रुद्राय भुवनेशाय शिवरूपाय वै नमः ॥१॥
त्वं शिवस्त्वं महादेव ईश्वरः परमेश्वरः ।
ब्रह्मा विष्णुश्च रुद्रश्च पुरुषः प्रकृति-स्तथा ॥२॥
त्वं कालस्त्वं यमो मृत्यु-र्वरुणस्त्वं कुबेरकः ।
इन्द्रः सूर्यः शशाङ्कश्च ग्रह-नक्षत्र-तारकः ॥३॥
पृथिवी सलिलं त्वं हि त्वमग्नि-र्वायुरेव च ।
आकाशं त्वं परं शून्यं सकलं निष्कलं तथा ॥४॥
अशुचिर्वा शुचिर्वापि सर्वकामगतोपि वा ।
चिन्तयेद्देवमीशानं स बाह्याभ्यन्तरः शुचिः ॥५॥
नमस्ते देवदेवेश त्वत्प्रसादाद्वदाम्यहम् ।
वाक्ये हीनेऽतिरिक्ते वा मां क्षमस्व सुरोत्तम ॥६॥
नमस्ते देवदेवेश ईशान वरदाच्युत ।
मम सिद्धिं भूयश्च (सिद्धिः सदा भूयात्) सर्वकार्येषु शंकर ॥७॥
ब्रह्मा विष्णुरीश्वरश्च महादेव नमोऽस्तु ते ।
सर्वकार्यं प्रसिध्यतां क्षमानुग्रहकारण ॥८॥
॥शुभम् ॥
नमः शब्दगुणायास्तु व्यतीतेन्द्रियवर्त्मने ।
विश्वतो व्यश्नुवानाय व्योमरूपाय शम्भवे ॥१॥
उन्मना या सती कान्ता नितान्त-शिवसङ्गता ।
जगद्धिताय चाशास्तु सा शक्ति-रचलात्मजा ॥२॥
जयतीन्दु रवि व्योम वाय्वात्म क्ष्मा जलानलैः ।
तनोति तनुभिः शम्भुर्योऽष्टभिरखिलं जगत् ॥३॥
यमान्तरं ज्योतिरुपासते बुधाः निरुत्तरं ब्रह्मपदं जिगीषवः ॥१॥
तपश्श्रुतेज्याविधयो यदर्पणा(त्) भवन्त्यनिर्देश्यफलानुबन्धिनः ।
न केवलं तत्फलयोगसंगिनामसंगिनां कर्मफलत्यजामपि ॥२॥
निसर्गसिद्धैरणिमादिभिर्गुणैरुपेतमंगीकृतशक्तिविस्तरईः (रम्) ।
धियामतीतं वचसामगोचरमनास्पदं यस्य पदं विदुर्बुधाः ॥३॥
 ॥ॐ तत्सत् ॥
 
******************* 
शिवसूत्र 
शिवसूत्र
शाम्भवोपाय चैतन्यमात्मा । १। ज्ञानं बन्धः । २। योनिवर्गः कलाशरीरम् । ३। ज्ञानाधिष्ठानं मातृका । ४। उद्यमो भैरवः । ५। शक्तिचक्रसन्धाने विश्वसंहारः । ६। जाग्रत्स्वप्नसुषुप्तभेदे तुर्याभोगसंभवः । ७। ज्ञानं जाग्रत् । ८। स्वप्नो विकल्पाः । ९। अविवेको मायासौषुप्तम् । १०। त्रितयभोक्ता वीरेशः । ११। विस्मयो योगभूमिकाः । १२। इच्छा शक्तिरुमा कुमारी । १३। दृश्यं शरीरम् । १४। हृदये चित्तसंघट्टाद् दृश्यस्वापदर्शनम् । १५। शुद्धतत्त्वसन्धानाद् वा अपशुशक्तिः । १६। वितर्क आत्मज्ञानम् । १७। लोकानन्दः समाधिसुखम् । १८। शक्तिसन्धाने शरीरोत्पत्तिः । १९। भूतसन्धान भूतपृथक्त्व विश्वसंघट्टाः । २०। शुद्धविद्योदयाच्चक्रेशत्व सिद्धिः । २१। महाह्रदानुसन्धानान्मन्त्रवीर्यानुभवः । २२।
शाक्तोपाय चित्तं मन्त्रः । १। प्रयत्नः साधकः । २। विद्याशरीरसत्ता मन्त्ररहस्यम् । ३। गर्भे चित्तविकासोऽविशिष्ट विद्यास्वप्नः । ४। विद्यासमुत्थाने स्वाभाविके खेचरी शिवावस्था । ५। गुरुरुपायः । ६। मातृकाचक्रसम्बोधः । ७। शरीरं हविः । ८। ज्ञानं अन्नम् । ९। विद्यासंहारे तदुत्थ स्वप्न दर्शनम् । १०। आणवोपाय आत्मा चित्तम् ।
१। ज्ञानं बन्धः । २। कलादीनां तत्त्वानां अविवेको माया । ३। शरीरे संहारः कलानाम् । ४। नाडी संहार भूतजय भूतकैवल्य भूतपृथक्त्वानि । ५। मोहावरणात् सिद्धिः । ६। मोहजयाद् अनन्ताभोगात् सहजविद्याजयः । ७। जाग्रद् द्वितीयकरः । ८। नर्तक आत्मा । ९। रङ्गोऽन्तरात्मा । १०। प्रेक्षकाणीन्द्रियाणि । ११। धीवशात् सत्त्वसिद्धिः । १२। सिद्धः स्वतन्त्रभावः । १३। यथा तत्र तथान्यत्र । १४। विसर्गस्वाभाव्याद् अबहिः स्थितेस्तत्स्थितिः । १५। बीजावधानम् । १६। आसनस्थः सुखं ह्रदे निमज्जति । १७। स्वमात्रा निर्माणं आपादयति । १८। विद्या अविनाशे जन्म विनाशः । १९। कवर्गादिषु माहेश्वर्याद्याः पशुमातरः । २०। त्रिषु चतुर्थं तैलवदासेच्यम् । २१। मग्नः स्वचित्तेन प्रविशेत् । २२। प्राण समाचारे समदर्शनम् । २३। मध्येऽवर प्रसवः । २४। मात्रास्वप्रत्यय सन्धाने नष्टस्य पुनरुत्थानम् । २५। शिवतुल्यो जायते । २६। शरीरवृत्तिर्व्रतम् । २७। कथा जपः । २८। दानं आत्मज्ञानम् । २९। योऽविपस्थो ज्ञाहेतुश्च । ३०। स्वशक्ति प्रचयोऽस्य विश्वम् । ३१। स्तिथिलयौ । ३२। तत् प्रवृत्तावप्यनिरासः संवेत्तृभावात् । ३३। सुख दुःखयोर्बहिर्मननम् । ३४। तद्विमुक्तस्तु केवली । ३५। मोहप्रतिसंहतस्तु कर्मात्मा । ३६। भेद तिरस्कारे सर्गान्तर कर्मत्वम् । ३७। करणशक्तिः स्वतोऽनुभवात् । ३८। त्रिपदाद्यनुप्राणनम् । ३९। चित्तस्थितिवत् शरीर करण बाह्येषु । ४०। अभिलाषाद्बहिर्गतिः संवाह्यस्य । ४१। तदारूढप्रमितेस्तत्क्षयाज्जीवसंक्षयः । ४२। भूतकञ्चुकी तदा विमुक्तो भूयः पतिसमः परः । ४३। नैसर्गिकः प्राणसंबन्धः । ४४। नासिकान्तर्मध्य संयमात् किमत्र सव्यापसव्य सौषुम्नेषु । ४५। भूयः स्यात् प्रतिमीलनम् । ४६।
ॐ तत् सत्
 
******************* 
यमभय निवारण स्तोत्रम्
अतिभीषणकटुभाषणयमकिङ्किरपटली
कृतताडनपरिपीडनमरणागमसमये ।
उमया सह मम चेतसि यमशासन निवसन्
शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥१॥
असदिन्द्रियविषयोदयसुखसात्कृतसुकृतेः
परदूषणपरिमोक्षणकृतपातकविकृतेः ।
शमनाननभवकानननिरतेर्भव शरणं
शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥२॥
विषयाभिधबडिशायुधपिशितायितसुखतो
मकरायितमतिसन्ततिकृतसाहसविपदम् ।
परमालय परिपालय परितापितमनिशं
शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥३॥
दयिता मम दुहिता मम जननी मम जनको
मम कल्पितमतिसन्ततिमरुभूमिषु निरतम् ।
गिरिजासुख जनितासुख वसतिं कुरु सुखिनं
शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥४॥
जनिनाशन मृतिमोचन शिवपूजननिरतेः
अभितो दृशमिदमीदृशमहमावह इति हा ।
गजकच्छप जनितश्रम विमलीकुरु सुमतिं
शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥५॥
त्वयि तिष्ठति सकलस्थितिकरुणात्मनि हृदये
वसुमार्गण कृपणेक्षण मनसा शिव विमुखम् ।
अकृताह्निकमसुपोषकमवतात् गिरिसुतया
शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥६॥
पितराविति सुखदाविति शिश्नुना कृतहृदयौ
शिवया सह भयके हृदि जनितं तव सुकृतम् ।
इति मे शिव हृदयं भव भवतात्तव दयया
शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥७॥
शरणागतभरणाश्रित करुणामृतजलधे
शरणं तव चरणौ शिव मम संसृतिवसतेः ।
परिचिन्मय जगदामयभिषजे नतिरावतात्
शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥८॥
विविधाधिभिरतिभीतिरकृताधिकसुकृतं
शतकोटिषु नरकादिषु हतपातकविवशम् ।
मृड मामव सुकृतीभव शिवया सह कृपया
शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥९॥
कलिनाशन गरलाशन कमलासनविनुत
कमलापतिनयनार्चितकरुणाकृतिचरण ।
करुणाकर मुनिसेवित भवसागरहरण
शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥१०॥
विजितेन्द्रिय विबुधार्चित विमलाम्बुजचरण
भवनाशन भयनाशनभजिताङ्गितहृदय ।
फणिभूषण मुनिवेषण मदनान्तक शरणं
शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥११॥
त्रिपुरान्तक त्रिदशेश्वर त्रिगुणात्मक शम्भो
वृषवाहन विषदूषण पतितोद्धर शरणम् ।
कनकासन कनकाम्बर कलिनाशन शरणं
शिवशङ्कर शिवशङ्कर हर मे हर दुरितम् ॥१२॥
 ॥इति श्रीशिवशङ्करस्तोत्रम् ॥
 
******************* 
शिव नीरांजनम्
हरिः ॐ नमोऽत्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुवाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटियुगधारिणे नमः ॥१॥
ॐ जय गङ्गाधर हर शिव, जय गिरिजाधीश शिव, जय
गौरीनाथ ।
त्वं मां पालय नित्यं, त्वं मां पालय शम्भो, कृपया जगदीश ।
ॐ हर हर हर महादेव ॥२॥
कैलासे गिरिशिखरे कल्पद्रुमविपिने, शिव कल्पद्रुमविपिने
गुञ्जति मधुकर पुञ्जे, गुञ्जति मधुकरपुञ्जे गहने ।
कोकिलः कूजति खेलति, हंसावलिललिता रचयति
कलाकलापं रचयति, कलाकलापं नृत्यति मुदसहिता ।
ॐ हर हर हर महादेव ॥३॥
तस्मिँल्ललितसुदेशे शालामणिरचिता, शिव शालामपिरचिता,
तन्मध्ये हरनिकटे तन्मध्ये हरनिकटे, गौरी मुदसहिता ।
क्रीडां रचयति भूषां रञ्जितनिजमीशम्, शिव रञ्जितनिजमीशं
इन्द्रादिकसुरसेवित ब्रह्मादिकसुरसेवित, प्रणमति ते शीर्षम्,
ॐ हर हर हर महादेव ॥४॥
विबुधवधूर्बहु नृत्यति हृदये मुदसहिता, शिव हृदये मुदसहिता,
किन्नरगानं कुरुते किन्नरगानं कुरुते, सप्तस्वर सहिता ।
धिनकत थै थै धिनकत मृदङ्गं वादयते, शिव
मृदङ्गं वादयते,
क्वणक्वपललिता वेणुं मधुरं नादयते ।
ॐ हर हर हर महादेव ॥५॥
कण कण-चरणे रचयति नूपुरमुज्वलितं, शिवनूपुरमुज्वलितं।
चक्राकारं भ्रमयति चक्राकारं भ्रमयति, कुरुते तां धिकताम् ।
तां तां लुप-चुप तालं नादयते, शिव तालं नादयते,
अङ्गुष्ठाङ्गुलिनादं अङ्गुष्ठाङ्गुलिनादं लास्यकतां कुरुते ।
ॐ हर हर हर महादेव ॥६॥
कर्पुरद्युतिगौरं पञ्चाननसहितम्, शिव पञ्चाननसहितं,
विनयन शशधरमौले, विनयन विषधरमौले कण्ठयुतम् ।
सुन्दरजटाकलापं पावकयुत फालम्, शिव पावकशशिफालं,
डमरुत्रिशूलपिनाकं डमरुत्रिशूलपिनाकं करधृतनृकपालम् ।
ॐ हर हर हर महादेव ॥७॥
शङ्खननादं कृत्वा झल्लरि नादयते, शिव झल्लरि नादयते,
नीराजयते ब्रह्मा, नीराजयते विष्णुर्वेद-ऋचं पठते ।
इति मृदुचरणसरोजं हृदि कमले धृत्वा, शिव हृदि कमले धृत्वा
अवलोकयति महेशं, शिवलोकयति सुरेशं, ईशं अभिनत्वा ।
ॐ हर हर महादेव ॥८॥
रुण्डै रचयति मालां पन्नगमुपवीतं, शिव पन्नगमुपवीतं,
वामविभागे गिरिजा, वामविभागे गौरी, रूपं अतिललितम् ।
सुन्दरसकलशरीरे कृतभस्माभरणं, शिव कृत भस्माभरणम्,
इति वृषभध्वजरूपं, हर-शिव-शङ्कर-रूपं तापत्रयहरणम् ।
ॐ हर हर हर महादेव ॥९॥
ध्यानं आरतिसमये हृदये इति कृत्वा, शिव हृदये इति कृत्वा,
रामं त्रिजटानाथं, शम्भुं विजटानाथं ईशं अभिनत्वा ।
सङ्गीतमेवं प्रतिदिनपठनं यः कुरुते, शिव पठनं यः कुरुते,
शिवसायुज्यं गच्छति, हरसायुज्यं गच्छति, भक्त्या यः शृणुते ।
ॐ हर हर हर महादेव ॥१०॥
ॐ जय गङ्गाधर हर शिव, जय गिरिजाधीश शिव, जय
गौरीनाथ ।
त्वं मां पालय नित्यं त्वं मां पालय शम्भो कृपया जगदीश ।
ॐ हर हर हर महादेव ॥११॥
 
******************* 

रुद्राभिषेकस्तोत्रं 
कृष्णार्जुनावूचतुः ।
नमो भवाय शर्वाय रुद्राय वरदाय च ।
पशूनां पतये नित्यमुग्राय च कपर्दिने ॥
महादेवाय भीमाय त्र्यम्बकाय च शान्तये ।
ईशानाय मखघ्नाय नमोऽस्त्वन्धकघातिने ॥
कुमारगुरवे तुभ्यं नीलग्रीवाय वेधसे ।
पिनाकिने हविष्याय सत्याय विभवे सदा ॥
विलोहिताय ध्रूम्राय व्याधायानपराजिते ।
नित्यं नीलशिखण्डाय शूलिने दिव्यचक्षुषे ॥
होत्रे पोत्रे त्रिनेत्राय व्याधाय वसुरेतसे ।
अचिन्त्यायाम्बिकाभर्त्रे सर्वदेवस्तुताय च ॥
वृषध्वजाय मुण्डाय जटिने ब्रह्मचारिणे ।
तप्यमानाय सलिले ब्रह्मण्यायाजिताय च ॥
विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते ।
नमोनमस्ते सेव्याय भूतानां प्रभवे सदा ॥
ब्रह्मवक्त्राय सर्वाय शंकराय शिवाय च ।
नमोस्तु वाचस्पतये प्रजानां पतये नमः ॥
अभिगम्याय काम्याय स्तुत्यायार्याय सर्वदा ।
नमोऽस्तु देवदेवाय महाभूतधराय च ।
नमो विश्वस्य पतये पत्तीनां पतये नमः ॥
नमो विश्वस्य पतये महतां पतये नमः ।
नमः सहस्रशिरसे सहस्रभुजमृत्यवे॥
सहस्रनेत्रपादाय नमोऽसङ्ख्येयकर्मणे ।
नमो हिरण्यवर्णाय हिरण्यकवचाय च ।
भक्तानुकम्पिने नित्यं सिध्यतां नो वरः प्रभो ॥
सञ्जय उवाच ।
एवं स्तुत्वा महादेवं वासुदेवः सहार्जुनः ।
प्रसादयामास भवं तदा ह्यस्त्रोपलब्धये ॥
॥इति श्रीमन्महाभारते द्रोणपर्वणि प्रतिज्ञापर्वणि
अर्जुनस्वप्ने अशीतितमोऽध्यायः ॥८०॥
 
******************** 
रामनाथ 
 
गणेशं शारदां शंभुं देवीं दुर्गां च राघवम् ।
रामनाथं नमस्कृत्य सुप्रभातं करोम्यहम् ॥१॥
नमस्ते गिरिजा-कान्त शरणागत-वत्सल ।
उत्तिष्ठ करुणासिन्धो सन्ध्याकालः प्रवर्तते ॥२॥
उत्तिष्ठोत्तिष्ठ गौरीश उत्तिष्ठ वृषभ-ध्वज ।
उत्तिष्ठ पार्वती-नाथ त्रैलोक्यं मङ्गलं कुरु ॥३॥
मातः पुरारि-हृदयांबुज-नित्यवासे भक्त्या मुरारि-मुखपूजित-पादयुग्मे ।
श्रीशंकराश्रित-जनेषु दयार्द्र-चित्ते श्रीरामनाथ-दयिते तव सुप्रभातम् ॥४॥
तव सुप्रभातममरेन्द्र-वन्दिते निज-दीन-भक्त-वरदान-शोभिते ।
हर्-इधातृ-देवरमणीभिरर्चिते ह्यव रामनाथ-दयिते दयायुते ॥५॥
 
रामादि-भक्तनिचयास्त्वदुपासनाय गंगादि-पुण्यसरिदाहृत-दिव्यपुष्पैः ।
आगत्य पादयुगलार्चन-जागरूकाः श्रीगन्धमादनविभो तव सुप्रभातम् ॥६॥
वीणा-मृदङ्ग-परिमण्डित-नारदाद्यैः संगीयमान-चरितामृत पुण्यदेह ।
चूडामणीकृत-मनोहर-चन्द्रबिंब श्रीगन्धमादनविभो तव सुप्रभातम् ॥७॥
रामेश्वरेति प्रथिते प्रदेशे रामं पुरस्कृत्य शिवं स्तुवन्ति ।
ऐक्यं प्रदिष्टं शिवरामयोश्च विष्ण्वीशमूर्ते  तव सुप्रभातम् ॥८॥
ब्रह्मेन्द्र-विष्णु-गुह-वाक्पति-सोमसूर्याः मृत्युञ्जयादि-चरितं बहुधा स्तुवन्ति ।
वाचस्पतिर्वदति वासरशुद्धिमारात् श्रीगन्धमादनविभो तव सुप्रभातम् ॥९॥
दुष्पण्यजात-शिशुमारणवारकं च यत्पावकाख्यमतिपावनमग्नितीर्थम् ।
आवाति मन्दमनिलस्सह तस्य तोयैः श्रीगन्धमादनविभो तव सुप्रभातम् ॥१०॥
 
श्रीराममन्त्र-जपपावन-चित्तवृत्तिः आपादवक्त्रमनुलेपित-रक्तवर्णः ।
श्रीमारुतिर्जयति मन्दिर-पूर्वभागे श्रीगन्धमादनविभो तव सुप्रभातम् ॥११॥
सीतापहर्तृ-दशकण्ठ-विमर्दनाय देवांशभूत-हरियूथ-सहायकेन ।
रामेण बद्ध-वरसेतुतल-प्रसन्न श्रीगन्धमादनविभो तव सुप्रभातम् ॥१२॥
ब्रह्मघ्न-पाप-परिहारविधौ यतेन रामेण पूजित-पवित्र-पदाब्ज-युग्म ।
भक्तार्ति-भञ्जन निरञ्जन रामनाथ श्रीगन्धमादनविभो तव सुप्रभातम् ॥१३॥
शैलाधिराज-तनयाञ्चिअत-वामभाग कैलासवास करुणामृत-पूर्ण-नेत्र ।
गंगाधर त्रिनयनाङ्कित चन्द्रचूड श्रीगन्धमादनविभो तव सुप्रभातम् ॥१४॥
नित्याभिषेचन-विधौ तव गाङ्ग-तोयं येन प्रदिष्टमिह रावण-घातकेन ।
तत्कोटि-तीर्थ-महिमावृत-सन्निधान श्रीगन्धमादनविभो तव सुप्रभातम् ॥१५॥
 
शेषेण वायुकृत-विक्रम-वाद-युद्धे वातेन भेदितमभूत् किल पर्वताग्रम् ।
तद्गन्धमादन-गिरौ कृत-सन्निधानं श्रीगन्धमादनविभो तव सुप्रभातम् ॥१६॥
गङ्गानदी-तट-वराल-पुण्यभूमौ ब्रह्मादि-देव-निकरैः स्तुत-विश्वनाथः ।
त्वद्वामभाग-परिकल्पित-मन्दिरस्थः श्रीगन्धमादनविभो तव सुप्रभातम् ॥१७॥
पूर्णेन्दु-बिंब-वदनस्सरसीरुहाक्षः कोदण्ड-मण्डित-करः करुणा-समुद्रः ।
सीतापतिर्जयति सुन्दर ते समक्षं श्रीरामनाथ शिव भो तव सुप्रभातम् ॥१८॥
नन्दीश्वरेण गजवक्त्र-षडाननाद्यैः देवैरनन्त-वरदैश्च नवग्रहाद्यैः ।
भक्त्या समर्चित-निजाम्बुज-पाद-युग्म श्रीरामनाथ शिव भो तव सुप्रभातम् ॥१९॥
पद्मालयापति-विधीन्द्र-किरीट-रत्नैः नीराजिताङ्घ्रि-युगला गिरिराज-पुत्री ।
त्वद्दक्षिणालयवरे कृत-सन्निधाना श्रीरामनाथ शिव भो तव सुप्रभातम् ॥२०॥
 
लक्ष्मीसरः-प्रभृति पाप-हराणि सन्ति तीर्थानि पुण्य-फलदानि तवालयान्ते ।
तत्तीर्थ-दिव्य-महिमावृत-पुण्य-देश श्रीरामनाथ शिव भो तव सुप्रभातम् ॥२१॥
श्रीरामलिङ्ग करुणामृत-पूर्ण-नेत्र श्रीभूमिनाथ-परिसेवित-दिव्यगात्र ।
श्रीपार्वतीश भवताप-विनाश-दक्ष श्रीरामनाथ शिव भो तव सुप्रभातम् ॥२२॥
ज्योतिः-स्वरूप तव दिव्य-पदाम्बुजे मे निर्व्याज-भक्तिमिह देहि कृपाम्बुराशे ।
मां पाहि देव शरणागत-पारिजात श्रीरामनाथ शिव भो तव सुप्रभातम् ॥२३॥
 
॥इति श्रीरामनाथ सुप्रभातम्॥
 
******************* 
मार्गसहायलिङ्ग स्तुतिः
॥श्रीमद् अप्पय्यदीक्षितेन्द्रैः विरचिता ॥
पयो-नदीतीर निवासलिङ्गं बालार्क-कोटि प्रतिमं त्रिनेत्रम् ।
पद्मासनेनार्चित दिव्यलिङ्गं वन्दामहे मार्गसहायलिङ्गम् ॥१॥
गङ्गातरङ्गोल्लसदुत्तमाङ्गं गजेन्द्र-चर्मांबर भूषिताङ्गम् ।
गौरी-मुखांभोज-विलोल-भृङ्गं वन्दामहे मार्गसहायलिङ्गम् ॥२॥
सुकङ्कणीभूत महाभुजङ्गं संज्ञान-संपूर्ण-निजान्तरङ्गम् ।
सूर्येन्दु-बिंबानल-भूषिताङ्गं वन्दामहे मार्गसहायलिङ्गम् ॥३॥
भक्तप्रियं भावविलोलभृङ्गं भक्तानुकूलामल भूषिताङ्गम् ।
भावैक-लोक्यान्तरमादिलिङ्गं वन्दामहे मार्गसहायलिङ्गम् ॥४॥
सामप्रियं सौम्य महेशलिङ्गं सामप्रदं सौम्य-कटाक्षलिङ्गम् ।
वामाङ्ग-सौन्दर्य-विलोलिताङ्गं वन्दामहे मार्गसहायलिङ्गम् ॥५॥
पञ्चाक्षरी-भूत-सहस्रलिङ्गं पञ्चामृतस्नान-परायणाङ्गम् ।
पञ्चामृतांभोज-विलोल-भृङ्गं वन्दामहे मार्गसहायलिङ्गम् ॥६॥
वन्दे सुराराधित-पादपद्मं श्रीश्यामवल्ली-रमणं महेशम् ।
वन्दे महामेरु-शरासनं शिवं वन्दा सदा मार्गसहायलिङ्गम् ॥७॥
॥इति  श्री मार्गसहायलिङ्ग स्तुतिः संपूर्णा ॥
॥ॐ तत्सत् ॥
 
******************* 

शिवपंचाक्षरस्तोत्र
नागेन्द्रहाराय त्रिलोचनाय भस्माङ्गरागाय महेश्वराय ।
नित्याय शुद्धाय दिगम्बराय तस्मै नकाराय नमः शिवाय ॥१॥
 
मन्दाकिनि-सलिलचन्दन-चर्चिताय
नन्दीश्वर-प्रमथनाथ-महेश्वराय ।
मन्दारपुष्प-बहुपुष्प-सुपूजिताय
तस्मै मकाराय नमः शिवाय ॥२॥
 
शिवाय गौरीवदनाब्ज-वृन्द-
सूर्याय दक्षाध्वरनाशकाय ।
श्रीनीलकण्ठाय वृषध्वजाय
तस्मै शिकाराय नमः शिवाय ॥३॥
 
वसिष्ठ-कुम्भोद्भव-गौतमार्यमुनीन्द्र-देवार्चितशेखराय ।
चन्द्रार्क-वैश्वानरलोचनाय तस्मै वकाराय नमः शिवाय ॥४॥
 
यक्षस्वरूपाय जटाधराय पिनाकहस्ताय सनातनाय ।
दिव्याय देवाय दिगम्बराय तस्मै यकाराय नमः शिवाय ॥५॥
 
पंचाक्षरमिदं पुण्यं यः पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥
 
॥इति श्रीमच्छंकराचार्यविरचित शिवपञ्चाक्षर स्तोत्रं समाप्तं ॥
 
******************* 
पञ्चरत्नस्तुतिः 
वस्तां पिशङ्गं वसनं दिशो वा गरुत्मता यातु ककुद्मता वा ।
निद्रातु वा नृत्यतु वाऽधिरङ्गे भेदो न मे स्यात्परमस्य धाम्नः ॥
     
॥पञ्चरत्नस्तुतिः ॥
॥श्रीमदप्पय्यदीक्षितसार्वभाउमैः विरचिता ॥
भूतस्य जात इति वारिरुहासनस्य
जातो बृहन्निति हरेश्च जनिः प्रसिद्धा ।
यस्मादजात इति मन्त्रवरोपदिष्टा-
त्तं रुद्रमेव जनितश्चकितः प्रपद्ये ॥१॥
 
उक्त्वा प्रसूतिमजशौरिहरेश्वराणां
संसूच्य दीपकसहोक्तिभिरन्यनिघ्नाम् ।
तां संयधारयदतर्वशिखा हि यस्य
तं सर्वकारणमनादिशिवं प्रपद्ये ॥२॥
 
वेदान्तेषु प्रथमभवनं वर्णितं यस्य याभ्यां
तद्वत्तस्य प्रसववचसा जन्म तत्ख्यापयित्वा ।
यस्यैकस्य स्फुटमजनिता निश्चिता कारणस्य
ध्यायामस्तं जनिविहतये शंभुमाकाशमध्ये ॥३॥
 
यद्भ्रूभङ्गैकवश्या विधिहरिगिरिशख्यातिदाः शक्तिकोट्यो
यद्भृत्या देवदेवाः सकलभुवनगाः संनियच्छन्ति विश्वम् ।
यल्लिङ्गं सर्वदेवासुरमनुजमुखैरर्च्यते विश्वरूपं
तस्मै नित्यं नमस्यां प्रवितनुत परब्रह्मणे शंकराय ॥४॥
 
आस्यं सूक्ष्मं लिङ्गरूपत्वलिङ्गं
स्याद्ब्रह्मेशानाख्ययैवाल्पमात्रम् ।
इत्येवेनावेदयत्सूत्रकारो
यं ब्रह्माख्यं तं प्रपद्ये महेशम् ॥५॥
इति श्रीमदप्पय्यदीक्षितसार्वभौमैः
विरचिता पञ्चरत्नस्तुतिः संपूर्णा ॥
 
******************* 
नववर्णमाला 
श्री सदाशिवब्रह्मेन्द्रविरचिता ॥
ओंकारैकनिरूप्यं पङ्कजभवनादिभावितपदाब्जम् ।
किंकरकैरवशशिनं शंकरमेकं कलये॥१ ॥
ऐन्द्रं पदमपि मनुते नैव वरं यस्य पदरजःस्पर्शात् ।
सान्द्रसुखोदधिमेकं चन्द्रकलोत्तंसमीशमासेवे॥२ ॥
नागेशकृत्तिवसनं वागीशाद्यैकवन्दिताङ्घ्रियुगम् ।
भोगीशभूषिताङ्गं भागीकृतसर्वमङ्गलं नौमि॥३ ॥
नगराजशिखरवासिनं अगजामुखकुमुदकौमुदीनिकरम् ।
गगनशिरोरुहमेकं निगमशिरस्तन्त्रविदितमवलंबे॥४ ॥
मन्दस्मितलसदाननं इन्दुकलोत्तंसमम्बिकासचिवम् ।
कंदर्पकोटिशतगुण-सुन्दरदिव्याकृतिं शिवं वन्दे॥५ ॥
मस्तक नम कमलांघ्रिं संस्तुहि भो वाणि वरगुणोदारम् ।
हस्तयुगार्चय शर्वं स्वस्थो निवसामि निजमहिम्न्यमुना॥६ ॥
क्लिन्नेक्षणमतिकृपया संनुतमहिमानमागमशिरोभिः ।
तं नौमि पार्वतीशं पन्नगवरभूषणोज्ज्वलकराब्जम्॥७ ॥
वटविटपिनिकटनिलयं कुटिलजटाघटितहिमकरोदारम् ।
कटिलसितकरटिकृत्तिं निटिलाम्बकमेकमालंबे॥९ ॥
वामाङ्ककलितकान्तं कामान्तकमादिदैवतं दान्तम् ।
भूमानन्दघनं तद्धाम किमप्यन्तरान्तरं भाति॥१० ॥
यदपाङ्गितात्प्रबोधात्पदमलभेऽखण्डितात्ममात्रमहम् ।
सदयं सांबशिवं तं मदनान्तकमादिदैवतं नौमि॥११ ॥
सौस्नातिकममृतजलैः सुस्मितवदनेन्दुसमुदितदिगन्तम् ।
संस्तुतममरगणैस्तं निस्तुलमहिमानमानतोऽस्मि शिवम्॥१२ ॥
नववर्णमालास्तुतिमेतामादिदेशिकेन्द्रस्य ।
धारयतः स्याद्भुक्तिः सकलकलावाप्तिरथ परा मुक्तिः॥१३ ॥
॥इति श्री सदाशिवब्रह्मेन्द्रविरचिता नववर्णमाला संपूर्णा॥
 
******************* 
नटेश पञ्चरत्न स्तोत्र
॥ध्यानम् ॥
वामे भूधरजा पुरश्च वृषराट् पश्चान्मुनिर्जैमिनिः ।
श्री मद्-व्यास पतञ्जलीत्युभयतः वाय्वादिकोणेषु च ॥
श्रीमत्तिल्लवनैकवासिमखिनः ब्रह्मादिवृन्दारकाः
मध्ये स्वर्ण सभापतिर्विजयते हृत्पुण्डरीके पुरे ॥
 
॥अथ श्री नटेश पञ्चरत्नम् ॥
श्रीमच्चिदम्बरनटनात् नटराजराजात्
विद्याधिपात् विविधमङ्गलदानशौण्डात् ।
पूर्णेन्दु सुन्दर मुखात् द्विजराजचूडात्
भर्गात्परं किमपि तत्त्वमहं न जाने ॥१॥
डक्काविभूशितकरात् विषनीलकण्टात् ।
फुल्लारविन्दनयनात् फणिराजवन्द्यात् ।
व्याघ्राङ्घ्रि पूज्यचरणात् शिवकुञ्चिताङ्घ्रेः
शम्भोः परं किमपि तत्त्वमहं न जाने ॥२॥
श्रीनाथमृग्यचरणात् विधिमृग्यचूडात्
श्रीपुण्डरीक निलयात् श्रितदुःखनाशात् ।
श्रीमद्गुहस्य जनकात् सुखटत्तराजात्
श्रीशात्परं किमपि तत्त्वमहं न जाने ॥३॥
श्रीमद्गणेशजनकात् मखिवृन्दपूज्यात्
तिल्लीटवीसुनिलयात् त्रिपुराम्बिकेशात् ।
व्याघ्राजिनाम्बरधरात् उरूरोगनाशात्
रुद्रात्परं किमपि तत्त्वमहं न जाने ॥४॥
श्रिमद्-व्याघ्रपुरेश्चरात् फणिराजभूषात्
संसार रोगभिषजः निखिलाण्डपालात् ।
श्रीमद्धेमसभेश्वरात् ललिताम्बिकेशात्
स्थाणोः परं किमपि तत्त्वमहं न जाने ॥५॥
॥अथ फलश्रुतिः ॥
पञ्चरत्नं नटेशस्य सोमशेखरयज्वभिः ।
संस्तुतं यः पठेन्नित्यं शाश्वतं तस्य मङ्गलम् ॥
॥इति श्री नटेश पञ्चरत्नम् सम्पूर्णम् ॥
 
******************* 

नटेशनवरत्नमालिका 
प्रपन्नजनसन्दोह-प्रत्यह-ध्वान्त-भास्करम् ।
अमृतांशुकलाचूडं कुञ्जरास्यमुपास्महे ॥१॥
आजानुबाहुमरविन्ददलायताक्ष-
मानीलदेहमसुरद्विषमब्जवक्त्रम् ।
अम्बोधिजाधिपवाङ्मनसावगम्यं
गोविन्द्राजमनुचिन्तय चित्त नित्यम् ॥२॥
यस्याहुर्महिमानमागमविदो वाङ्मानसाध्वातिगं
।प्रापुर्यन्नटनावलोकनवशान्मुक्तिं फणिशादयः ।
यडूढक्कानिनदारुणो हृदयगं प्रोन्मार्ष्टि नॄणां तपः
स श्रीकन्त-विधीन्द्र-वन्द्य-चरणो दद्यान्नटेशश्शिवम् ॥३॥
नृत्यं त्वदीयमवलोक्य नटेश पूर्व-
मानन्दतुन्दिलहृदो मुनयो बभूवुः ।
तद्दर्शयाद्य मम मोदमुपैमि चाहं
निष्पक्षपात भवतस्सम एव सर्वः ॥४॥
नन्दादयोऽपि नटराज पुरालभन्त
भक्त्या पदांबुजयुगे तव बन्धमोकम् ।
देयाद्य सा न किमु मे करुणांबुराशे
को वा मया व्यरचि तं वद तेऽपराधः ॥५॥
कस्मान्नटेश कुरुषे न कृपां मयि त्वं
किं वा त्वया न विदितो मम दीनभावः ।
जानाति नो यदि भवान्मम दीनतां तत्
श्रुत्युक्तमीश वितथं किमु सर्ववित्त्वम् ॥६॥
संसृत्युदन्वति नटेश सदाऽप्यगाधे
मग्नं न मां चिरमुदासितुमर्हसि त्वम् ।
यद्यप्यहं तव चकार बहून् हि मन्तून्
शंभो तवाऽपि न हि तान् गणयान्तरङ्गे ॥७॥
दुःखांबुदौ पतितमीश समुद्धरैनं
नोचेच्छरण्य न हि मे क्षतिरस्ति कापि ।
भूयान्निमज्जनमकीर्तिपयोनिधौ ते
सर्वेश्वरस्य भवतो न हि युक्तमेतत् ॥८॥
पादांबुजातयुगलं तव यो भजेत
हन्ताधिरोहति हि तस्य ललाटमग्निः ।
वक्षस्थलं विषधरो विषमुत्तमाङ्गं
कण्ठञ्च पार्श्वभुजमस्य पिशाचवर्गाः ॥९॥
त्वामामनन्ति नटनाथ पदाब्जभाजां
सर्वार्थदायिनमहो निखिलाश्च वेदाः ।
त्वं चोरयस्यहह शोकमशेषमेषां
अन्यादृशी विलसतीश वदान्यता ते ॥१०॥
सर्वेश्वरोऽपि नटराज दिगंबरस्त्वं
वाहो वृषस्तव गिरौ शयनं पिशाचाः ।
मित्राणि भूषणमहो भुजगश्च भस्म
भिक्षामटस्यपि च नृत्यसि नित्यमेव ॥११॥
तातो भवान्मम तनूभव एष तेऽहं
सर्वेश्वरोऽस्यहमपीश नितान्तदीनः ।
एतादृशं न किल मां परिरक्षसि त्वं
प्रेमात्मजेष्वसदृशं भवतो विभासि ॥१२॥
श्रीमन्नटेश-चरणाब्ज-समर्प्यमाणं
श्रीरामशर्म-कलितां नवरत्नमालां ।
सन्तो विलोक्य परिहृत्य समस्त-दोषान्
गृह्णन्तु पूर्णकृपया गुणमल्पमेव ॥१३॥
 ॥श्रीनटेश नवरत्नमालिका समाप्ता ॥
 
************ 
नटराजस्तोत्रम् 
सदञ्चित मुदञ्चित निकुञ्चित पदं झलझलञ्चलित मञ्जु कटकम्
पतञ्जलि दृगञ्जन मनञ्जन मचञ्चलपदं जनन भञ्जन करम् ।
कदम्बरुचिमम्बरवसं परमम्बुद कदम्ब कविडम्बक कगलम्
चिदम्बुधि मणिं बुध हृदम्बुज रविं पर चिदम्बर नटं हृदि भज ॥१॥
 
हरं त्रिपुर भञ्जनं अनन्तकृतकङ्कणं अखण्डदय मन्तरहितं
विरिञ्चिसुरसंहतिपुरन्धर विचिन्तितपदं तरुणचन्द्रमकुटम् ।
परं पद विखण्डितयमं भसित मण्डिततनुं मदनवञ्चन परं
चिरन्तनममुं प्रणवसञ्चितनिधिं पर चिदम्बर नटं हृदि भज ॥२॥
 
अवन्तमखिलं जगदभङ्ग गुणतुङ्गममतं धृतविधुं सुरसरित्-
तरङ्ग निकुरम्ब धृति लम्पट जटं शमनदम्भसुहरं भवहरम् ।
शिवं दशदिगन्तर विजृम्भितकरं करलसन्मृगशिशुं पशुपतिं
हरं शशिधनञ्जयपतङ्गनयनं परचिदम्बर नटं हृदि भज ॥३॥
 
अनन्तनवरत्नविलसत्कटककिङ्किणिझलं झलझलं झलरवं
मुकुन्दविधि हस्तगतमद्दल लयध्वनिधिमिद्धिमित नर्तन पदम् ।
शकुन्तरथ बर्हिरथ नन्दिमुख शृङ्गिरिटिभृङ्गिगणसङ्घनिकटम्
सनन्दसनक प्रमुख वन्दित पदं परचिदम्बर नटं हृदि भज ॥४॥
 
अनन्तमहसं त्रिदशवन्द्य चरणं मुनि हृदन्तर वसन्तममलम्
कबन्ध वियदिन्द्ववनि गन्धवह वह्निमख बन्धुरविमञ्जु वपुषम् ।
अनन्तविभवं त्रिजगन्तर मणिं त्रिनयनं त्रिपुर खण्डन परम्
सनन्द मुनि वन्दित पदं सकरुणं पर चिदम्बर नटं हृदि भज ॥५॥
 
अचिन्त्यमलिवृन्द रुचि बन्धुरगलं कुरित कुन्द निकुरम्ब धवलम्
मुकुन्द सुर वृन्द बल हन्तृ कृत वन्दन लसन्तमहिकुण्डल धरम् ।
अकम्पमनुकम्पित रतिं सुजन मङ्गलनिधिं गजहरं पशुपतिम्
धनञ्जय नुतं प्रणत रञ्जनपरं पर चिदम्बर नटं हृदि भज ॥६॥
 
परं सुरवरं पुरहरं पशुपतिं जनित दन्तिमुख षण्मुखममुं
मृडं कनक पिङ्गल जटं सनकपङ्कज रविं सुमनसं हिमरुचिम् ।
असङ्घमनसं जलधि जन्मकरलं कवलयन्त मतुलं गुणनिधिम्
सनन्द वरदं शमितमिन्दु वदनं पर चिदम्बर नटं हृदि भज ॥७॥
 
अजं क्षितिरथं भुजगपुङ्गवगुणं कनक शृङ्गि धनुषं करलसत्
कुरङ्ग पृथु टङ्क परशुं रुचिर कुङ्कुम रुचिं डमरुकं च दधतमं ।
मुकुन्द विशिखं नमदवन्ध्य फलदं निगम वृन्द तुरगं निरुपमं
सचण्डिकममुं झटिति संहृतपुरं परचिदम्बर नटं हृदि भज ॥८॥
 
अनङ्गपरिपन्थिनमजं क्षिति धुरन्धरमलं करुणयन्तमखिलं
ज्वलन्तमनलं दधतमन्तकरिपुं सततमिन्द्रमुखवन्दितपदम् ।
उदञ्चदरविन्दकुल बन्धुशत बिम्बरुचि संहति सुगन्धि वपुषं
पतञ्जलिनुतं प्रणवपञ्चर शुकंपर चिदम्बर नटं हृदि भज ॥९॥
 
इति स्तवममुं भुजगपुङ्गव कृतं प्रतिदिनं पठति यः कृतमुखः
सदः प्रभुपद द्वितयदर्शनपदं सुललितं चरण शृङ्ग रहितम् ।
सरःप्रभव सम्भव हरित्पति हरिप्रमुख दिव्यनुत शङ्करपदं
स गच्छति परं न तु जनुर्जलनिधिं परमदुःखजनकं दुरितदम् ॥१०॥
 
॥इति श्रीपतञ्जलिमुनिप्रणीतं चरणशृङ्गरहित नटराजस्तोत्रं संपूर्णम् ॥
 
************ 
दक्षिणामूर्तिस्तोत्र सूतसंहिता
 
प्रलंबितजटाबद्धं चन्द्ररेखावतंसकम् ।
नीलग्रीवं शरच्चन्द्रिकाभिर्विराजितम् ॥१॥
गोक्षीरधवलाकारं चन्द्रबिंबसमाननम् ।
सुस्मितं सुप्रसन्नं च स्वात्मतत्त्वैकसंस्थितम् ॥२॥
गङ्गाधरं शिवं शान्तं लसत्केयूरमण्डितम् ।
सर्वाभरणसंयुक्तं सर्वलक्षणसंयुतम् ॥३॥
वीरासने समासीनं वेदयज्ञोपवीतिनम् ।
भस्मधाराभिरामं तं नागाभरणभूषितम् ॥४॥
व्याघ्रचर्माम्बरं शुद्धं योगपट्टावृतं शुभम् ।
सर्वेषां प्राणिनामात्मज्ञापस्मारपृष्टतः ॥५॥
विन्यस्तचरणं सम्यग् ज्ञानमुद्राधरं हरम् ।
सर्वविज्ञानरत्नानं कोशभूतं सुपुस्तकम् ॥६॥
दधानं सर्वतत्त्वाक्षमालिकां कुण्डिकामपि ।
स्वात्मभूतपरानन्दपरशक्त्यर्ध विग्रहम् ॥७॥
धर्मरूपवृषोपेतं धार्मिकैर्वेदपारगैः ।
मुनिभिस्संऋतं मायावटमूलाश्रितं शुभम् ॥८॥
ईशानं सर्वविद्यानामीश्वरेश्वरमव्ययम् ।
उत्पत्त्यादिविनिर्मुक्तं ओङ्कारकमलासनम् ॥९॥
स्वात्मविद्याप्रदानेन सदा संसारमोचकम् ।
रुद्रं परमकारुण्यात्सर्वप्राणिहिते रतम् ॥१०॥
उपासकानां सर्वेषामभीष्टसकलप्रदम् ।
दक्षिणामूर्तिदेवाख्यं जगत्स्वर्गादिकारणम् ॥११।
समागत्य महाभक्त्या दण्डवत्पृथिवीतले ।
प्रणम्य बहुशो देवं समाराध्य यथा बलम् ॥१२॥
रुद्र यत्ते मुखं तेन दक्षिणं पाहि मामिति ।
उक्त्वा पुनः पुनर्देवं पूजयामास भक्तितः ॥१३॥
॥इति सूतसंहितान्तर्गतम् दक्षिणामूर्तिस्तोत्रम् ॥
 
************ 
दशश्लोकी स्तुति
साम्बो नः कुलदैवतं पशुपते साम्ब त्वदीया वयं
साम्बं स्तौमि सुरासुरोरगगणाः साम्बेन संतारिताः ।
साम्बायास्तु नमो मया विरचितं साम्बात्परं नो भजे
साम्बस्यानुचरोऽस्म्यहं मम रतिः साम्बे परब्रह्मणि ॥१॥
 
विष्ण्वाद्याश्च पुरत्रयं सुरगणा जेतुं न शक्ताः स्वयं
यं शंभुं भगवन्वयं तु पशवोऽस्माकं त्वमेवेश्वरः ।
स्वस्वस्थाननियोजिताः सुमनसः स्वस्था बभूवुस्तत-
स्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥२॥
 
क्षोणी यस्य रथो रथाङ्गयुगलं चन्द्रार्कबिम्बद्वयं
कोदण्डः कनकाचलो हरिरभूद्बाणो विधिः सारथिः ।
तूणीरो जलधिर्हयाः श्रुतिचयो मौर्वी भुजङ्गाधिप-
स्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥३॥
 
येनापादितमङ्गजाङ्गभसितं दिव्याङ्गरागैः समं
येन स्वीकृतमब्जसंभवशिरः सौवर्णपात्रैः समम् ।
येनाङ्गीकृतमच्युतस्य नयनं पूजारविन्दैः समं
तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥४॥
 
गोविन्दादधिकं न दैवतमिति प्रोच्चार्य हस्तावुभा-
वुद्धृत्याथ शिवस्य संनिधिगतो व्यासो मुनीनां वरः ।
यस्य स्तम्भितपाणिरानतिकृता नन्दीश्वरेणाभव-
त्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥५॥
 
आकाशश्चिकुरायते दशदिशाभोगो दुकूलायते
शीतांशुः प्रसवायते स्थिरतरानन्दः स्वरूपायते ।
वेदान्तो निलयायते सुविनयो यस्य स्वभावायते
तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥६॥
 
विष्णुर्यस्य सहस्रनामनियमादम्भोरुहाण्यर्चय-
न्नेकोनोपचितेषु नेत्रकमलं नैजं पदाब्जद्वये ।
सम्पूज्यासुरसंहतिं विदलयंस्त्रैलोक्यपालोऽभव-
त्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥७॥
 
शौरिं सत्यगिरं वराहवपुषं पादाम्बुजादर्शने
चक्रे यो दयया समस्तजगतां नाथं शिरोदर्शने ।
मिथ्यावाचमपूज्यमेव सततं हंसस्वरूपं विधिं
तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥८॥
 
यस्यासन्धरणीजलाग्निपवनव्योमार्कचन्द्रादयो
विख्यातास्तनवोऽष्टधा परिणता नान्यत्ततो वर्तते ।
ओंकारार्थविवेचनी श्रुतिरियं चाचष्ट तुर्यं शिवं
तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥९॥
 
विष्णुब्रह्मसुराधिपप्रभृतयः सर्वेऽपि देवा यदा
संभूताज्जलधेर्विषात्परिभवं प्राप्तास्तदा सत्वरम् ।
तानार्ताञ्शरणागतानिति सुरान्योऽरक्षदर्धक्षणा-
त्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥१०॥
 
इति श्रीमत्परमहंसपरिव्रजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवत्पाद कृतौ
दशश्लोकीस्तुतिः सम्पूर्णा ॥
 
************ 

सभापतिस्तुतिः 
नमस्ते रूद्र मन्यव उतोत इषवे नमः ।
नमस्ते अस्तु धन्वने कराभ्यां ते नमो नमः ॥१॥
याते रुद्र शिवा तनूः शान्ता तस्यै नमो नमः ।
नमोऽस्तु नीलग्रीवाय सहस्राक्षाय ते नमः ॥२॥
सहस्रपाणये तुभ्यं मीढुष्टमाय ते नमः ।
कपर्दिने नमस्तुभ्यं कालरूपाय ते नमः ॥३॥
नमस्ते चात्तशस्त्राय नमस्ते शूलपाणये ।
हिरण्यपाणये तुभ्यं हिरण्यपतये नमः ॥४॥
नमस्ते वृक्षरूपाय हरिकेशाय ते नमः ।
पशूनां पतये तुभ्यं पथीनां पतये नमः ॥५॥
पुष्टानां पतये तुभ्यं क्षेत्राणां पतये नमः ।
आतताविस्वरूपाय वनानां पतये नमः ॥६॥
रोहिताय स्तपतये वृक्षाणां पतये नमः ।
नमस्ते मन्त्रिणे साक्षात् कक्षाणां पतये नमः ॥७॥
ओषधीनां च पतये नमः साक्षात्परात्मने ।
उच्चैर्घोषाय देवाय पत्तीनां पतये नमः ॥८॥
सत्वानां पतये तुभ्यं घनानां पतये नमः ।
सहमानाय शान्ताय शंकराय नमो नमः ॥९॥
आधीनां पतये तुभ्यं व्याधीनं पतये नमः ।
ककुभाय नमस्तुभ्यं नमस्तेऽस्तु निषङ्गिणे ॥१०॥
स्तेनानां पतये तुभ्यं धनानां पतये नमः ।
तस्कराणां नमस्तुभ्यं पतये पापहारिणे ॥११॥
वञ्चते परिवञ्चते स्तायूनां पतये नमः ।
नमो निचेरवे तुभ्यं अरण्यानां पतये नमः ॥१२॥
उष्णीषिणे नमस्तुभ्यं नमस्ते परमात्मने ।
विस्तृताय नमस्तुभ्यं आसीनाय नमोनमः ॥१३॥
शयनाय नम्स्तुभ्यं सुषुप्ताय नमो नमः ।
प्रबुद्धाय नमस्तुभ्यं स्थिराय परमात्मने ॥१४॥
सभारूपाय ते नित्यं सभायाः पतये नमः ।
नमः शिवाय साम्बाय ब्रह्मणे सर्वसाक्षिणे ॥१५॥
॥इति सूतसंहितायां मुक्तिकाण्डे सभापतिस्तुतिः सम्पूर्णम् ॥
 
***************** 
श्रीकाशीविश्वनाथसुप्रभातम् 
॥श्रीगुरुभ्यो नमः॥
विश्वेशं माधवं धुण्डिं दण्डपाणिं च भैरवम् ।
वन्दे काशीं गुहां गङ्गां भवानीं मणिकर्णिकाम् ॥१॥
उत्तिष्ठ काशि भगवान् प्रभुविश्वनाथो
गङ्गोर्मि-संगति-शुभैः परिभूषितोऽब्जैः ।
श्रीधुण्डि-भैरव-मुखैः सहिताऽऽन्नपूर्णा
माता च वाञ्छति मुदा तव सुप्रभातम् ॥२॥
ब्रह्मा मुरारिस्त्रिपुरान्तकारिः
भानुः शशी भूमिसुतो बुधश्च ।
गुरुश्च शुक्रः शनि-राहु-केतवः
कुर्वन्तु सर्वे भुवि सुप्रभातम् ॥३॥
वाराणसी-स्थित-गजानन-धुण्डिराज
तापत्रयापहरणे प्रथित-प्रभाव ।
आनन्द-कन्दलकुल-प्रसवैकभूमे
नित्यं समस्त-जगतः कुरु सुप्रभातम् ॥४॥
ब्रह्मद्रवोपमित-गाङ्ग-पयः-प्रवाहैः
पुण्यैः सदैव परिचुंबित-पादपद्मे ।
मध्ये-ऽखिलामरगणैः परिसेव्यमाने
श्रीकाशिके कुरु सदा भुवि सुप्रभातम् ॥५॥
प्रत्नैरसंख्य-मठ-मन्दिर-तीर्थ-कुण्ड-
प्रासाद-घट्ट-निवहैः विदुषां वरैश्च
आवर्जयस्यखिल-विश्व-मनांसि नित्यं
श्रीकाशिके कुरु सदा भुवि सुप्रभातम् ॥६॥।
के वा नरा नु सुधियः कुधियो। अधियो वा
वाञ्छन्ति नान्तसमये शरणं भवत्याः ।
हे कोटि-कोटि-जन-मुक्ति-विधान-दक्षे
श्रीकाशिके कुरु सदा भुवि सुप्रभातम् ॥७॥
या देवैरसुरैर्मुनीन्द्रतनयैर्गन्धर्व-यक्षोरगैः
नागैर्भूतलवासिभिर्द्विजवरैस्संसेविता सिद्धये ।
या गङ्गोत्तरवाहिनी-परिसरे तीर्थैरसंख्यैर्वृता
सा काशी त्रिपुरारिराज-नगरी देयात् सदा मङ्गलम् ॥८॥
तीर्थानां प्रवरा मनोरथकरी संसार-पारापरा
नन्दा-नन्दि-गणेश्वरैरुपहिता देवैरशेषैः-स्तुता ।
या शंभोर्मणि-कुण्डलैक-कणिका विष्णोस्तपो-दीर्घिका
सेयं श्रीमणिकर्णिका भगवती देयात् सदा मङ्गलम् ॥९॥
अभिनव-बिस-वल्ली पाद-पद्मस्य विष्णोः
मदन-मथन-मौलेर्मालती पुष्पमाला ।
जयति जय-पताका काप्यसौ मोक्षलक्ष्म्याः
क्षपित-कलि-कलङ्का जाह्नवी नः पुनातु ॥१०॥
गाङ्गं वारि मनोहारि मुरारि-चरणच्युतम् ।
त्रिपुरारि-शिरश्चारि पापहारि पुनातु माम् ॥११॥
विघ्नावास-निवासकारण-महागण्डस्थलालंबितः
सिन्दूरारुण-पुञ्ज-चन्द्रकिरण-प्रच्छादि-नागच्छविः ।
श्रीविघ्नेश्वर-वल्लभो गिरिजया सानन्दमानन्दितः (पाठभेद विश्वेश्वर)
स्मेरास्यस्तव धुण्डिराज-मुदितो देयात् सदा मङ्गलम् ॥१२॥
कण्ठे यस्य लसत्कराल-गरलं गङ्गाजलं मस्तके
वामाङ्गे गिरिराजराज-तनया जाया भवानी सती ।
नन्दि-स्कन्द-गणाधिराज-सहितः श्रीविश्वनाथप्रभुः
काशी-मन्दिर-संस्थितोऽखिलगुरुः देयात् सदा मङ्गलम् ॥१३॥
श्रीविश्वनाथ करुणामृत-पूर्ण-सिन्धो
शीतांशु-खण्ड-समलंकृत-भव्यचूड ।
उत्तिष्ठ विश्वजन-मङ्गल-साधनाय
नित्यं सर्वजगतः कुरु सुप्रभातम् ॥१४॥
श्रीविश्वनाथ वृषभ-ध्वज विश्ववन्द्य
सृष्टि-स्थिति-प्रलय-कारक देवदेव ।
वाचामगोचर महर्षि-नुताङ्घ्रि-पद्म
वाराणसीपुरपते कुरु सुप्रभातम् ॥१५॥
श्रीविश्वनाथ भवभञ्जन दिव्यभाव
गङ्गाधर प्रमथ-वन्दित सुन्दराङ्ग ।
नागेन्द्र-हार नत-भक्त-भयापहार
वाराणसीपुरपते कुरु सुप्रभातम् ॥१६॥
श्रीविश्वनाथ तव पादयुगं नमामि
नित्यं तवैव शिव नाम हृदा स्मरामि ।
वाचं तवैव यशसाऽनघ भूषयामि
वाराणसीपुरपते कुरु सुप्रभातम् ॥१७॥
काशी-निवास-मुनि-सेवित-पाद-पद्म
गङ्गा-जलौघ-परिषिक्त-जटाकलाप ।
अस्याखिलस्य जगतः सचराचरस्य
वाराणसीपुरपते कुरु सुप्रभातम् ॥१८॥
गङ्गाधराद्रितनया-प्रिय शान्तमूर्ते
वेदान्त-वेद्य सकलेश्वर विश्वमूर्ते ।
कूटस्थ नित्य निखिलागम-गीत-कीर्ते
वाराणसीपुरपते कुरु सुप्रभातम् ॥१९॥
विश्वं समस्तमिदमद्य घनान्धकारे
मोहात्मके निपतितं जडतामुपेतम् ।
भासा विभास्य परया तदमोघ-शक्ते
वाराणसीपुरपते कुरु सुप्रभातम् ॥२०॥
सूनुः समस्त-जन-विघ्न-विनास-दक्षो
भार्याऽन्नदान-निरता-ऽविरतं जनेभ्यः ।
ख्यातः स्वयं च शिवकृत् सकलार्थि-भाजां
वाराणसीपुरपते कुरु सुप्रभातम् ॥२१॥
ये नो नमन्ति न जपन्ति न चामनन्ति
नो वा लपन्ति विलपन्ति निवेदयन्ति ।
तेषामबोध-शिशु-तुल्य-धियां नराणां
वाराणसीपुरपते कुरु सुप्रभातम् ॥२२॥
श्रीकण्ठ कण्ठ-धृत-पन्नग नीलकण्ठ
सोत्कण्ठ-भक्त-निवहोपहितोप-कण्ठ ।
भस्माङ्गराग-परिशोभित-सर्वदेह
वाराणसीपुरपते कुरु सुप्रभातम् ॥२३॥
श्रीपार्वती-हृदय-वल्लभ पञ्च-वक्त्र
श्रीनील-कण्ठ नृ-कपाल-कलाप-माल ।
श्रीविश्वनाथ मृदु-पङ्कज-मञ्जु-पाद
वाराणसीपुरपते कुरु सुप्रभातम् ॥२४॥
दुग्ध-प्रवाह-कमनीय-तरङ्ग-भङ्गे
पुण्य-प्रवाह-परिपावित-भक्त-सङ्गे ।
नित्यं तपस्वि-जन-सेवित-पाद-पद्मे
गङ्गे शरण्य-शिवदे कुरु सुप्रभातम् ॥२५॥
सानन्दमानन्द-वने वसन्तं आनन्द-कन्दं हत-पाप-वृन्दम् ।
वाराणसी-नाथमनाथ-नाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥२६॥
 
***************** 
आर्त्तत्राणस्तोत्रम् 
क्षीराम्भोनिधिमन्थनोद्भवविषात् सन्दह्यमानान् सुरान्
ब्रह्मादीनवलोक्य यः करुणया हालाहलाख्यं विषम् ।
निःशङ्कं निजलीलया कवलयन् लोकान् ररक्षादरात्
आर्त्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥१॥
 
क्षीरं स्वादु निपीय मातुलगृहे गत्वा स्वकीयं गृहं
क्षीरालाभवशेन खिन्नमनसे घोरं तपः कुर्वते ।
कारुण्यादुपमन्यवे निरवधिं क्षीराम्बुधिं दत्तवान्
आर्त्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥२॥
 
मृत्युं वक्षसि ताडयन् निजपदध्यानैकभक्तं मुनिं
मार्कण्डेयमपालयत् करुणया लिङ्गाद्विनिर्गत्य यः ।
नेत्राम्भोजसमर्पणेन हरयेऽभीष्टं रथाङ्गं ददौ
आर्त्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥३॥
 
ऊढं द्रोणजयद्रथादिरथिकैः सैन्यं महत् कौरवं
दृष्ट्वा कृष्णसहायवन्तमपि तं भीतं प्रपन्नार्त्तिहा ।
पार्थं रक्षितवान् अमोघविषयं दिव्यास्त्रमुद्घोषयन्
आर्त्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥४॥
 
बालं शैवकुलोद्भवं परिहसत्स्वज्ञातिपक्षाकुलं
खिद्यन्तं तव मूर्ध्नि पुष्पनिचयं दातुं समुद्यत्करम् ।
दृष्ट्वाऽऽनम्य विरिञ्चिरम्यनगरे पूजां त्वदीयां भजन्
आर्त्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥५॥
 
सन्त्रस्तेषु पुरा सुरासुरभयादिन्द्रादिवृन्दारकेऽ-वृन्दारके अश्वारूढो
श्वारूढो धरणीरथं श्रुतिहयं कृत्वा मुरारिं शरम् ।
रक्षन् यः कृपया समस्तविबुधान् जित्वा पुरारीन् क्षणात्
आर्त्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥६॥
 
श्रौतस्मार्त्तपथे पराङ्मुखमपि प्रोद्यन्महापातकं
विश्वातीतमपत्यमेव गतिरित्यालापयन्तं सकृत् ।
रक्षन् यः करुणापयोनिधिरिति प्राप्तप्रसिद्धिः पुरा
ह्यार्त्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥७॥
 
गाङ्गं वेगमवाप्य मान्यविबुधैः सोढुं पुरा याचितो
दृष्ट्वा भक्तभगीरथेन विनतो रुद्रो जटामण्डले ।
कारुण्यादवनीतले सुरनदीमापूरयत् पावनीम्
आर्त्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥८॥
 
॥इति आर्त्तत्राणस्तोत्रम्  सम्पूर्णम् ॥
 
***************** 
आर्तिहरस्तोत्रम् 
श्री शंभो मयि करुणाशिशिरां दृष्टिं दिशन् सुधावृष्टिम्।
सन्तापमपाकुरुमे मन्तापरमेश तव दयायाः स्याम् ॥१॥
अवसीदामि यदार्तिभिरनुगुणमिदमोकसोंहसां खलु मे।
तव सन्नवसीदामि यदन्तकशासन नतत्तवानुगुणम् ॥२॥
देव स्मरंति तव येतेषां स्मरतोऽपि नार्तिरितिकीर्तिम्।
कलयसि शिव पाहीतिक्रन्दन् सीदाम्यहं किमुचितमिदम् ॥३॥
आदिश्याघकृतौ मामन्तर्यामिन्नसावघात्मेति।
आर्तिषुमज्जयसे मां किंब्रूयां तवकृपैकपात्रमहम् ॥४॥
मन्दाग्र्णीरहं तव मयि करुणां घटयितुं विबोनालम्।
आकृष्टुं तान्तु बलादलमिह मद्दैन्यमिति समाश्वसिति ॥५॥
त्वं सर्वज्ञोऽहं पुनरज्ञोऽनीशोहमीश्वरत्वमसि।
त्वं मयि दोषान् गणयसि किं कथये तुदति किं दया नत्वाम् ॥६॥
आश्रितमार्ततरं मामुपेक्षसे किमिति शिव न किं दयसे।
श्रितगोप्ता दीनार्तिहृदिति खलु शंसंति जगति सन्तस्त्वाम् ॥७॥
प्रहराहरेतिवादी फणितमदाख्य इति पालितो भवता।
शिव पाहीति वदोऽहं शृतो न किं क्वां कथं न पाल्यस्ते ॥८॥
शरणं व्रज शिवमार्तीस्सतव हरेदिति सतां गिराऽहम् त्वाम्।
शरणं गतोऽस्मि पालय खलमपि तेष्वीश पक्षपातान्माम् ॥९॥
इति श्री श्रीधरवेंकटेशार्यकृतिषु आर्तिहरस्तोत्रं संपूर्णम् ॥
 
श्रीकण्ठमिव भास्वन्तं शिवनामपरायणम्। श्रीधरं वेङ्कटेशार्यं श्रेयसे गुरुमाश्रये ॥
 
*****************