श्रीगणेशाय नमः ।
शिवां शान्तरूपां मनोवागतीतां
निजानन्दपूर्णां सदाऽद्वैतरूपाम् ।
परां वेदगम्यां परब्रह्मरूपां
भजे रेणुकां सर्वलौकैकवेद्याम् ॥ १॥
सदाचारसद्भक्तिबोधादिभिर्या
गुरोरङ्घ्रिशुश्रूषयां मुख्यवृत्त्या ।
सुवेद्या सुलभ्या परानन्दपूर्णा
भजे रेणुकां तां विमोहप्रशान्त्यै ॥ २॥
श्रुतिर्नेतिनेतीति सर्वं निरस्य
वदत्येकमाद्यं विभुं चित्सुखं यत् ।
तदेवावशिष्टं स्वरूपं विशुद्धं
भजे रेणुकां तां सदा मृत्युहीनाम् ॥ ३॥
यदानन्दसिन्धौ निमग्नो न पश्येद्-
अहो कर्मजालं फलं वा तदीयम् ।
न जैवं न शैवं जगन्नैव मायां
चिदेकस्वरूपां भजे रेणुकां ताम् ॥ ४॥
अनेकान्तिकां सर्वभेदातिरूपां
तमोऽज्ञानदुःखातिगां शुद्धरूपाम् ।
सदाऽध्यात्मविद्याप्रदानैकशीलं
भजे रेणुकां मुक्तिसौख्याधिदेवीम् ॥ ५॥
त्रितापप्रशन्त्यै समाराध्यमानां
सदा जीवलोके स्वसौख्यप्रदात्रीम् ।
भवोम्बोधिसेतुं चिदानन्दकन्दां
भजे रेणुकां ज्ञानमुद्रैकलक्ष्याम् ॥ ६॥
सदा भक्तहृत्कौमुदीं भद्रभद्रां
सदोङ्कारवाच्यां वरेण्यां शरण्याम् ।
स्वभक्तार्तिनाशां शुभाङ्गां गुणाढ्यां
भजे रेणुकां भक्तसौख्याब्धिरूपाम् ॥ ७॥
सदा भक्तवात्सल्यपूर्णां सुरम्यां
सुरेन्द्रादिभिः स्तूयमानां सुषूक्तैः ।
सदा भक्तवृन्दैश्च संसेव्यमानां
भजे रेणुकां भक्तभाग्यां भवानीम् ॥ ८॥
पठेद्यः सदा भक्तियुतो विशुद्धः
स्ववर्णाश्रमाचारतो नित्ययुक्तः ।
स मुक्तः कृती रेणुकायाः प्रसादात्
सदा राजते राजते लोकपूज्या ॥ ९॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यसद्गुरुभगवता श्रीधरस्वामिना
विरचितं श्रीरेणुकास्तोत्रं सम्पूर्णम् ॥