Webdunia - Bharat's app for daily news and videos

Install App

श्री योगेश्वरी देवी मंत्र

Published: शनिवार, 21 सप्टेंबर 2024 (17:01 IST)
हीच प्रार्थना अखंड चरणी देवी योगेश्वरी स्वामिनी ||
 
योगेश्वरी देवी गायत्री मंत्र
रक्तचामुण्डायैच विद्महे | भुतसंहारिन्यैच धीमहि | तन्नो योगेश्वरी प्रचोदयात् ||
 
श्रीयोगेश्र्वरीकवचम् 
श्री गणेशाय नमः। श्री सरस्वत्यै नमः । श्री देव्युवाच । 
भगवन् सर्वमाख्यातं मंत्रतंत्रादिकं त्वया । 
योगिन्याः कवचं देव न कुत्रापि प्रकाशितम् ॥ १ ॥ 
श्रोतुमिच्छामि यत्नेन कृपापात्रं तवास्म्यहम् । 
कथयस्व महादेव यद्दहं प्राणवल्लभा ॥ २ ॥ 
ईश्र्वर उवाच । 
श्रृणु देवी महाविद्दां सर्व देवर्षिपूजिताम् । 
यस्याः कटाक्षमात्रेण त्रैलोक्यविजयी हरिः ॥ ३ ॥ 
सृष्टिं वितनुते ब्रह्मा संहर्ताsहं तथैव च । 
यस्याः स्मरणमात्रेण देवाः देवत्वमाप्नुयुः ॥ ४ ॥ 
रहस्यं श्रृणु वक्ष्यामि योगिन्याः प्राणवल्लभे । 
त्रैलोक्यसुंदरं नामं कवचं मंत्रविग्रहम् ॥ ५ ॥ 
श्री योगेश्र्वरीकवचमंत्रस्य महादेव ऋषिः। 
अनुष्टुप् छंदः । श्री योगेश्र्वरी देवता । 
ऐं बीजम् । र्‍हीं शक्तिः । श्रीं कीलकम् । 
श्रीयोगेश्र्वरीप्रसादप्रीत्यर्थे । जपे विनियोगः । 
अथ न्यासः । 
महादेव ऋषये नमः शिरसि । 
अनुष्टुप् छंदसे नमः मुखे । 
श्री योगेश्र्वरी देवतायै नमः ह्रदये । 
ऐं बीजाय नमः दक्षिणस्तने । 
र्‍हीं शक्तये नमः वामस्तने । 
श्रीं कीलकाय नमः नाभौ । 
ऐं अंगुष्ठाभ्यां नमः ह्रदयाय नमः। 
र्‍हीं तर्जनीभ्यां नमः शिरसे स्वाहा । 
श्रीं मध्यमाभ्यां नमः शिखायै वषट् । 
ऐं अनामिकाभ्यां नमः कवचाय हुम् । 
र्‍हीं कनिष्ठिकाभ्यां नमः नेत्रत्रयाय वौशट् । 
श्रीं करतलकरपृष्ठाभ्यां नमः अस्त्राय फट् । 
ध्यान 
खड्गं पात्रं च मुसलं लांगलं च बिभर्ति सा । 
आख्याता रक्तचामुंडा देवी योगेश्र्वरीति च ॥ १ ॥ । 
मानसोपचारैः संपूज्य । 
लं पृथिव्यात्मकं श्रीयोगेश्र्वरीदेवतायै नमः गंधं परिकल्पयामि । 
हं आकाशात्मकं श्रीयोगेश्र्वरीदेवतायै नमः पुष्पं परिकल्पयामि । 
यं वाय्वात्मकं श्रीयोगेश्र्वरीदेवतायै नमः धूपं परिकल्पयामि । 
रं तेजात्मकं श्रीयोगेश्र्वरीदेवतायै नमः दीपं परिकल्पयामि । 
वं अमृतात्मकं श्रीयोगेश्र्वरीदेवतायै नमः नैवेद्दं परिकल्पयामि । 
सं सर्वात्मकं श्रीयोगेश्र्वरीदेवतायै नमः तांबुलादि सर्वोपचारान् परिकल्पयामि । 
अथ कवचम् 
शिरो मे शांकरी पातु मूर्ध्नि नारायणी तथा । 
ऐं बीजं भालदेशे च र्‍हीं बीजं दक्षिणनेत्रे ॥ १ ॥ 
श्रीं बीजं वामनेत्रे च दक्षिणश्रोत्रे परास्मृता । 
वामश्रोत्रे नारसिंही नासामूलं च खड्गिनी ॥ २ ॥ 
नासिकां मानिनी पातु मुखं मेsवतु चाम्बिका । 
कपोलौ भूतसंहारी चिबुकं भ्रामरी तथा ॥ ३ ॥ 
 कंण्ठं मे चण्डिका पातु ह्रदयं विंध्यवासिनी । 
उदरे गिरिजा पातु नाभिं मेsवतु भोगिनी ॥ ४ ॥ 
शुंभिनी पृष्ठदेशे तु स्कन्धयोः शूलधारिणी । 
हस्तयोर्योगिनी रक्षेत् कंबुकण्ठी गलं तथा ॥ ५ ॥ 
कट्ट्यां च सुन्दरी रक्षेत् गुह्यं गुह्येश्र्वरी तथा । 
कुंजिका पातु मे मेढ्ं पायुदेशं च शांभवी ॥ ६ ॥ 
भद्रकाली पातु चोरु जान्वो मेsवतु कालिका । 
जंघे पातु महाभीमा गुल्फाववतु शूलिनी ॥ ७ ॥ 
पादयोः श्रीधरी रक्षेत् सर्वांगेsवतु भोगिनी । 
रक्तमज्जावसामांसान्यस्थिमेदांसि भैरवी ॥ ८ ॥ 
चामुंडा चैव वाराही कौमारी वैष्णवी तथा । 
माहेश्र्वरी च सर्वाद्दा जयश्री मंड्गला तथा ॥ ९ ॥ 
रक्षतुश्र्वायुधैर्दिक्षु मां विदिक्षु यथा तथा । 
इतीदं कवचं दिव्यं षण्मासात् सर्वसिध्दिदम् ॥ १० ॥ 
फलश्रुतिः
स्मरणात्कवचस्यास्य जयः सर्वत्र जायते । 
राजद्वारे स्मशाने च भूतप्रेताभिचारके ॥ ११ ॥ 
बंधने च महादुःखे जपेच्छत्रुसमागमे । 
प्रयोगं चाभिचारं च यो नरः कर्तृमिच्छति ॥ १२ ॥ 
आयुताश्र्च भवेत् सिद्धिः पठनात्कवचस्य तु । 
सर्वत्र लभते कीर्ति श्रीमान भवति धार्मिकः ॥ १३ ॥ 
भूर्जे विलिख्य कवचं गुटिका यस्तु धारयन् । 
मंत्रसिद्धिमवाप्नोति योगेश्र्वर्याः प्रसादतः ॥ १४ ॥ 
पुत्रवान् धनवान् श्रीमान नानाविद्दानिधिर्भवेत । 
अष्टोत्तरशतं जप्त्वा पुरश्र्चरणमस्य वै ॥ १५ ॥ 
सिद्धर्थं सर्वदा कुर्यात् योगिनी प्रीतिभाक् भवेत् । 
ब्रह्मास्त्रादीनि शाम्यन्ति तद्गात्रस्परशनात्ततः ॥ १६ ॥ 
इदं कवचमज्ञात्वा योगिनी भजते नरः । 
शतलक्षं जपित्वाsपि तस्य विद्दा न सिद्धयति ॥ १७ ॥ 
इति श्रीरुद्रयामले बहुरुपाष्टकप्रस्तावे ईश्र्वरपार्वतीसंवादे योगेश्र्वरी कवचं संपूर्णम् ॥

सर्व पहा

Sabudana Rasmalai श्रावण उपवासात बनवा शाही मिठाईसारखी साबुदाणा रसमलाई

श्रावणातील आदित्यराणूबाई व्रत पूजा पद्धत आणि माहिती

श्रावण महिन्यात शनिवारी 'पारंपरिक कढी-खिचडी' बनवण्याची सुंदर परंपरा

मंगळागौरच्या दिवशी चुकूनही करू नका या १० चुका; अन्यथा व्रताचे पुण्य कमी होऊ शकते

Sampat Shanivar Katha संपत शनिवारची कहाणी

सर्व पहा

शिवलिंगासमोर तीनदा टाळ्या का वाजवतो? प्रत्येक टाळीमागील अर्थ जाणून घ्या

३ ऑगस्टपासून या ५ राशींचे नशीब बदलणार; ग्रहांचे नकारात्मक प्रभाव संपतील आणि शुभ दिवसांची सुरुवात होईल

रोज फक्त २ अंजीर खा आणि पाहा कमाल! हे ३ आरोग्यदायी फायदे तुम्हाला ठाऊक आहेत का?

आठवड्यातून दोनदा कोरफडीची वाफ घेऊन तेजस्वी आणि चमकदार त्वचा मिळवा, कसे ते जाणून घ्या

श्रावण महिन्यात पाले भाज्या खाण्यास मनाई का आहे?

पुढील लेख
Show comments