1. धर्म
  2. नवरात्र 2023
  3. नवरात्र संस्कृति
Written By
Last Modified: शनिवार, 21 ऑक्टोबर 2023 (17:52 IST)

Keelak Stotram कीलक स्तोत्र

Durgashtami
विनियोगः- ॐ अस्य कीलकमंत्रस्य शिव ऋषिः अनुष्टुप् छन्दः श्रीमहासरस्वती देवता श्रीजगदम्बाप्रीत्यर्थं सप्तशतीपाठाङ्गत्वेन जपे विनियोगः।।
ॐ नमश्चण्डिकायै 
 
मार्कण्डेय उवाच
 
ॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे .
श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे १
 
सर्वमेतद्विजानीयान्मन्त्राणामपि कीलकम्
सोऽपि क्षेममवाप्नोति सततं जप्यतत्परः २
 
सिद्ध्यन्त्युच्चाटनादीनि कर्माणि सकलान्यपि
एतेन स्तुवतां देवीं स्तोत्रवृन्देन भक्तितः ३
 
न मन्त्रो नौषधं तस्य न किञ्चिदपि विद्यते
विना जप्येन सिद्ध्येत्तु सर्वमुच्चाटनादिकम् ४
 
समग्राण्यपि सेत्स्यन्ति लोकशङ्कामिमां हरः
कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम् ५
 
स्तोत्रं वै चण्डिकायास्तु तच्च गुह्यं चकार सः
समाप्नोति स पुण्येन तां यथावन्निमन्त्रणाम् ६
 
सोऽपि क्षेममवाप्नोति सर्वमेव न संशयः
कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः ७
 
ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति
इत्थं रूपेण कीलेन महादेवेन कीलितम् ८
 
यो निष्कीलां विधायैनां चण्डीं जपति नित्यशः
स सिद्धः स गणः सोऽथ गन्धर्वो जायते ध्रुवम् ९
न चैवापाटवं तस्य भयं क्वापि न जायते
नापमृत्युवशं याति मृते च मोक्षमाप्नुयात् १०
 
ज्ञात्वा प्रारभ्य कुर्वीत ह्यकुर्वाणो विनश्यति
ततो ज्ञात्वैव सम्पूर्णमिदं प्रारभ्यते बुधैः ११
 
सौभाग्यादि च यत्किञ्चिद् दृश्यते ललनाजने
तत्सर्वं तत्प्रसादेन तेन जप्यमिदम् शुभम् १२
 
शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः
भवत्येव समग्रापि ततः प्रारभ्यमेव तत् १३
 
ऐश्वर्यं तत्प्रसादेन सौभाग्यारोग्यमेव च
शत्रुहानिः परो मोक्षः स्तूयते सा न किं जनैः १४
 
चण्डिकां हृदयेनापि यः स्मरेत् सततं नरः
हृद्यं काममवाप्नोति हृदि देवी सदा वसेत् १५
 
अग्रतोऽमुं महादेवकृतं कीलकवारणम्
निष्कीलञ्च तथा कृत्वा पठितव्यं समाहितैः १६
 
इति श्रीभगवत्याः कीलकस्तोत्रं समाप्तम्