1. धर्म
  2. हिंदू
  3. हिंदू धर्माविषयी
  4. Ganga Mata Stotram गंगा मातेच्या कृपेचा अनुभव देणारे पवित्र स्तोत्र

गंगा माता स्तोत्रम् | Ganga Mata Stotram गंगा मातेच्या कृपेचा अनुभव देणारे पवित्र स्तोत्र

देवि सुरेश्वरि भगवति गङ्गेत्रिभुवनतारिणि तरलतरङ्गे।
शङ्करमौलिविहारिणि विमले मममतिरास्तां तव पदकमले ॥ 1॥
 
भागीरथिसुखदायिनि मातस्तवजलमहिमा निगमे ख्यातः।
नाहं जाने तव महिमानंपाहि कृपामयि मामज्ञानम् ॥ 2॥
 
हरिपदपाद्यतरङ्गिण गङ्गेहिमविधुमुक्ताधवलतरङ्गे।
दूरीकुरु मम दुष्कृतिभारंकुरु कृपया भवसागरपारम् ॥3॥
 
तव जलममलं येन निपीतंपरमपदं खलु तेन गृहीतम्।
मातर्गंगे त्वयि यो भक्तःकिल तं द्रष्टुं न यमः शक्तः ॥ 4॥
 
पतितोद्धारिणि जाह्नविगङ्गे खण्डितगिरिवरमण्डितभङ्गे।
भीष्मजननि हे मुनिवरकन्येपतितनिवारिणि त्रिभुवनधन्ये ॥ 5॥
 
कल्पलतामिव फलदां लोकेप्रणमति यस्त्वां न पतति शोके।
पारावारविहारिणि गङ्गेविमुखयुवतिकृततरलापाङ्गे ॥ 6॥
 
तव चेन्मातः स्रोतः स्नातःपुनरपि जठरे सोपि न जातः।
नरकनिवारिणि जाह्नवि गङ्गेकलुषविनाशिनि महिमोत्तुड़े ॥ 7॥
 
पुनरसदंगे पुण्यतरंगे जयजय जाह्नवि करुणापांगे।
इंद्रमुकुटमणिराजितचरणेसुखदे शुभदे भृत्यशरण्ये ॥ 8॥
 
रोगं शोकं तापं पापं हरहर मे भगवति कुमतिकलापम्।
त्रिभुवनसारे वसुधाहारेत्वमसि गतिर्मम खलु संसारे ॥ 9॥
 
अलकानन्दे परमानन्दे कुरुकरुणामयि कातरवन्द्ये।
तव तटनिकटे यस्य निवासःखलु वैकुण्ठे तस्य निवासः ॥ 10॥
 
वरमिह नीरे कमठो मीनःकिं वा तीरे शरटः क्षीणः।
अथवा श्वपचो मलिनो दीनस्तवन हि दूरे नृपतिकुलीनः ॥ 11॥
 
भो भुवनेश्वरि पुण्ये धन्येदेवि द्रवमयि मुनिवरकन्ये।
गङ्गास्तवमिमममलं नित्यंपठति नरो यः स जयति सत्यम् ॥ 12॥
 
येषां हृदये गङ्गाभक्तिस्तेषांभवति सदा सुखमुक्तिः।
मधुराकान्तापज्झटिकाभिःपरमानन्दकलितललिताभिः ॥ 13॥
 
गंगास्तोत्रमिदं भवसारंवाञ्छितफलदं विमलं सारम्।
शङ्करसेवकशङ्कररचितंपठति सुखीः तव इति च समाप्तः ॥ 14॥
 
॥ इति श्रीमच्छङ्कराचार्यविरचितं गङ्गास्तोत्रं सम्पूर्णम् ॥
 
पुढील लेख
जळणाऱ्या नातेवाईकांपासून स्वतःचा बचाव कसा करावा? आचार्य चाणक्यांचे विचार जाणून घ्या