1. धर्म
  2. हिंदू
  3. हिंदू धर्माविषयी
  4. Sri Kartikeya Ashtakam and Kartavirya Arjuna Mantra

श्री कार्तिकेय अष्टकम Sri Kartikeya Ashtakam

श्री कार्तिकेय अष्टकम Sri Kartikeya Ashtakam
ॐ श्रीगणेशाय नमः
 
अगस्त्य उवाच-
नमोऽस्तु वृन्दारकवृन्दवन्द्यपादारविन्दाय सुधाकराय ।
षडाननायामितविक्रमाय गौरीहृदानन्दसमुद्भवाय ॥ १ ॥
नमोऽस्तु तुभ्यं प्रणतार्तिहन्त्रे कर्त्रे समस्तस्य मनोरथानाम् ।
दात्रे रथानां परतारकस्य हन्त्रे प्रचण्डासुरतारकस्य ॥ २ ॥
अमूर्तमूर्ताय सहस्रमूर्तये गुणाय गण्याय परात्पराय ।
अपारपाराय परापराय नमोऽस्तु तुभ्यं शिखिवाहनाय ॥ ३ ॥
नमोऽस्तु ते ब्रह्मविदां वराय दिगम्बरायाम्बरसंस्थिताय ।
हिरण्यवर्णाय हिरण्यबाहवे नमो हिरण्याय हिरण्यरेतसे ॥ ४ ॥
तपः स्वरूपाय तपोधनाय तपः फलानां प्रतिपादकाय ।
सदा कुमाराय हि मारमारिणे तृणीकृतैश्वर्यविरागिणे नमः ॥ ५ ॥
नमोऽस्तु तुभ्यं शरजन्मने विभो प्रभातसूर्यारुणदन्तपङ्क्तये ।
बालाय चाबालपराक्रमाय षाण्मातुरायालमनातुराय ॥ ६ ॥
मीढुष्टमायोत्तरमीढुषे नमो नमो गणानां पतये गणाय ।
नमोऽस्तु ते जन्मजरातिगाय नमो विशाखाय सुशक्तिपाणये ॥ ७ ॥
सर्वस्य नाथस्य कुमारकाय क्रौञ्चारये तारकमारकाय ।
स्वाहेय गाङ्गेय च कार्तिकेय शैवेय तुभ्यं सततं नमोऽस्तु ॥ ८ ॥
 
॥ इति स्कान्दे काशीखण्डतः श्रीकार्तिकेयाष्टकं सम्पूर्णम् ॥
 
श्री कार्तिकेय अष्टकम सोबत जर कार्तवीर्यार्जुन द्वादश नाम स्तोत्राचे पठण केले तर हे अष्टकम लवकर फलदायी ठरते, जर श्री कार्तिकेय अष्टकम सोबत परद कार्तिकेय मूर्तीची पूजा केली तर मनोकामना पूर्ण होते. 
कार्तवीर्यार्जुन द्वादश नाम स्तोत्र Kartavirya Arjuna Mantra
कार्तवीर्यार्जुनॊनाम राजाबाहुसहस्रवान् …
तस्यस्मरण मात्रॆण गतम् नष्टम् च लभ्यतॆ !!
 
कार्तवीर्यह:खलद्वॆशीकृत वीर्यॊसुतॊबली …
सहस्र बाहु:शत्रुघ्नॊ रक्तवास धनुर्धर: !!
 
रक्तगन्थॊ रक्तमाल्यॊ राजास्मर्तुरभीश्टद:…
द्वादशैतानि नामानि कातवीर्यस्य य: पठॆत् !!
 
सम्पदस्तत्र जायन्तॆ जनस्तत्रवशन्गतह:…
आनयत्याशु दूर्स्थम् क्षॆम लाभयुतम् प्रियम् !!
 
सहस्रबाहुम् महितम् सशरम् सचापम्…
रक्ताम्बरम् विविध रक्तकिरीट भूषम् !!
 
चॊरादि दुष्ट भयनाशन मिश्टदन्तम्…
ध्यायॆनामहाबलविजृम्भित कार्तवीर्यम् !!
 
यस्य स्मरण मात्रॆण सर्वदु:खक्षयॊ भवॆत्…
यन्नामानि महावीरस्चार्जुनह:कृतवीर्यवान् !!
 
हैहयाधिपतॆ: स्तॊत्रम् सहस्रावृत्तिकारितम्…
वाचितार्थप्रदम् नृणम् स्वराज्यम् सुक्रुतम् यदि !!
 
॥ इति श्री कार्तवीर्यार्जुन स्त्रोत द्वादश नामस्तॊत्रम् सम्पूर्णम् !!
पुढील लेख
Skanda Sashti Vrat Katha स्कंद षष्ठी पौराणिक कथा