- धर्म
» - हिंदू
» - हिंदू धर्माविषयी
पांडुरंगाष्टक
महायोगपीठे तटे भीमरथ्यावरं पुण्डरीकाय दातुं मुनीन्द्रैः .समागत्य निष्ठन्तमानंदकंदंपरब्रह्मलिङ्गं भजे पाण्डुरङ्गम् .. १.. तटिद्वाससं नीलमेघावभासंरमामंदिरं सुंदरं चित्प्रकाशम् .वरं त्विष्टकायां समन्यस्तपादंपरब्रह्मलिङ्गं भजे पाण्डुरङ्गम् .. २..प्रमाणं भवाब्धेरिदं मामकानांनितम्बः कराभ्यां धृतो येन तस्मात् .विधातुर्वसत्यै धृतो नाभिकोशःपरब्रह्मलिङ्गं भजे पाण्डुरङ्गम् .. ३..स्फुरत्कौस्तुभालङ्कृतं कण्ठदेशेश्रिया जुष्टकेयूरकं श्रीनिवासम् .शिवं शांतमीड्यं वरं लोकपालंपरब्रह्मलिङ्गं भजे पाण्डुरङ्गम् .. ४..शरच्चंद्रबिंबाननं चारुहासंलसत्कुण्डलाक्रांतगण्डस्थलांतम् .जपारागबिंबाधरं क~जनेत्रंपरब्रह्मलिङ्गं भजे पाण्डुरङ्गम्.. ५..किरीटोज्वलत्सर्वदिक्प्रांतभागंसुरैरर्चितं दिव्यरत्नैरनर्घैः .त्रिभङ्गाकृतिं बर्हमाल्यावतंसंपरब्रह्मलिङ्गं भजे पाण्डुरङ्गम्.. ६..
विभुं वेणुनादं चरंतं दुरंतंस्वयं लीलया गोपवेषं दधानम् .गवां बृन्दकानन्ददं चारुहासंपरब्रह्मलिङ्गं भजे पाण्डुरङ्गम् .. ७..अजं रुक्मिणीप्राणसञ्जीवनं तंपरं धाम कैवल्यमेकं तुरीयम् .प्रसन्नं प्रपन्नार्तिहं देवदेवंपरब्रह्मलिङ्गं भजे पाण्डुरङ्गम् .. ८..स्तवं पाण्डुरंगस्य वै पुण्यदं येपठन्त्येकचित्तेन भक्त्या च नित्यम् .भवांभोनिधिं ते वितीर्त्वान्तकालेहरेरालयं शाश्वतं प्राप्नुवन्ति ....
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ पाण्डुरङ्गाष्टकं संपूर्णम् ..