शनिवार, 30 नोव्हेंबर 2024
  1. धर्म
  2. हिंदू
  3. हिंदू धर्माविषयी
Written By
Last Modified: शुक्रवार, 8 नोव्हेंबर 2024 (06:00 IST)

नारायणस्तोत्रम् आणि नारायणाथर्वशीर्षोपनिषत्

नारायणस्तोत्रम् 
नारायण नारायण जय गोविन्द हरे ।
नारायण नारायण जय गोपाल हरे॥
 
करुणापारावार! वरुणालयगंभीर! - नारायण! ॥१॥
घननीरदसंकाश! कृतकलिकल्मषनाशन! - नारायण! ॥२॥
यमुनातीरविहार! धृतकौस्तुभमणिहार! - नारायण! ॥३॥
पीताम्बरपरिधान! सुरकल्याणनिधान! - नारायण! ॥४॥
मञ्जुलगुञ्जाभूष! मायामानुषवेष! - नारायण! ॥५॥
राधाधरमधुरसिक! रजनिकरकुलतिलक! - नारायण! ॥६॥
मुरलीगानविनोद! वेदस्तुतिभूपाद! - नारायण! ॥७॥
बर्हिनिबर्हापीड! नटनाटकफणिक्रीड! - नारायण! ॥८॥
वारिजभूषाभरण! वारिजपुत्रीरमण! - नारायण! ॥९॥
जलरुहसन्निभनेत्र! जगदारंभकसूत्र! - नारायण! ॥१०॥
पातकरजनीसंहार! करुणालय मामुद्धर - नारायण ॥११॥
अघबकक्षय कंसारे! केशव कृष्ण मुरारे! - नारायण! ॥१२॥
हाटकनिभपीताम्बर! अभयं कुरु मे मावर! - नारायण! ॥१३॥
दशरथराजकुमार! दानवमदसंहार! - नारायण! ॥१४॥
गोवर्धनगिरिरमण! गोपीमानसहरण! - नारायण! ॥१५॥
सरयूतीरविहार! सज्जनऋषिमन्दार! - नारायण! ॥१६॥
विश्वामित्रमखत्र! विविधपरासुचरित्र! - नारायण! ॥१७॥
ध्वजवज्राङ्कुशपाद! धरणिसुतासहमोद! - नारायण! ॥१८॥
जनकसुताप्रतिपाल! जयजयसंसृतिलील! - नारायण! ॥१९॥
दशरथवाग्धृतिभार! दण्डकवनसञ्चार! - नारायण! ॥२०॥
मुष्टिकचाणूरसंहार! मुनिमानसविहार! - नारायण! ॥२१॥
बालिविनिग्रहशौर्य! वरसुग्रीवहितार्य! - नारायण! ॥२२॥
मां मुरलीधरधीवर! पालय पालय श्रीवर! - नारायण! ॥२३॥
जलनिधिबन्धनधीर! रावणकण्ठविदार! - नारायण! ॥२४॥
ताटीमददलनाढ्य! नटगुणविधगानाढ्य! - नारायण! ॥२५॥
गौतमपत्नीपूजन! करुणाघनावलोकन! - नारायण! ॥२६॥
संभ्रमसीताहार! साकेतपुरविहार! - नारायण! ॥२७॥
अचलोद्धृतिचञ्चत्कर! भक्तानुग्रहतत्पर! - नारायण ॥२८॥
नैगमगानविनोद! रक्षःसुतप्रह्लाद! - नारायण ॥२९॥
 
**********************
नारायणाथर्वशीर्षोपनिषत् 
ॐ अथ पुरुषो ह वै नारायणॊऽकामयत
प्रजाः सृजायेति । नारायणात् प्राणो जायते । मनः सर्वेन्द्रियाणि च ।
खं ज्योतिरापः पृथिवी विश्वस्य धारिणी ।
नारायणाद् ब्रह्मा जायते । नारायणाद् रुद्रो जायते ।
नारायणादिन्द्रो जायते । नारायणाद् प्रजापतयः प्रजायन्ते ।
नारायणाद्द्वादशादित्या रुद्रा वसवः सर्वाणि च छन्दांसि ।
नारायणादेव समुत्पद्यन्ते । नारायणे प्रवर्तन्ते । नारायणे प्रलीयन्ते ॥१॥
ॐ । अथ नित्यो नारायणः । ब्रह्मा
नारायणः । शिवश्च नारायणः । शक्रश्च नारायणः ।
द्यावापृथिव्यौ च नारायणः । कालश्च नारायणः ।
दिशश्च नारायणः । ऊर्ध्वश्च नारायणः ।
अधश्च नारायणः । अन्तर्बहिश्च नारायणः ।
नारायण एवेदं सर्वम् । यद्भूतं यच्च भव्यम् ।
निष्कलो निरञ्जनो निर्विकल्पो निराख्यातः शुद्धो देव एको नारायणः ।
न द्वितीयोऽस्ति कश्चित् । य एवं वेद ।
स विष्णुरेव भवति स विष्णुरेव भवति ॥२॥
ओमित्यग्रे व्याहरेत् । नम इति पश्चात् ।
नारायणायेत्युपरिष्टात् । ओमित्येकाक्षरम् ।
नम इति द्वे अक्षरे । नारायणायेति पञ्चाक्षराणि ।
एतद्वै नारायणस्याष्टाक्षरं पदम् ।
यो ह वै नारायणस्याष्टाक्षरं पदमध्येति ।
अनपब्रुवः सर्वमायुरेति । विन्दते प्राजापत्यं रायस्पोषं गौपत्यम् ।
ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नुत इति । य एवं वेद ॥३॥
प्रत्यगानन्दं ब्रह्म पुरुषं प्रणवस्वरूपम् । अकार उकार मकार इति ।
तानेकधा समभवत्तदेतदोमिति । यमुक्त्वा मुच्यते योगी जन्मसंसार-बन्धनात् ।
ॐ नमो नारायणायेति मन्त्रोपासकः । वैकुण्ठभुवनलोकं गमिष्यति ।
तदिदं परं पुण्डरीकं विज्ञानघनम् । तस्मात् तडिदाभमात्रम् ।
ब्रह्मण्यो देवकीपुत्रो ब्रह्मण्यो मधुसूदनोम् ।
सर्वभूतस्थमेकं नारायणम् । कारणरूपमकार परब्रह्मोम् ।
एतदथर्वशिरो योऽधीते प्रातरधीयानो रात्रिकृतं पापं नाशयति ।
सायमधीयानो दिवसकृतं पापं नाशयति ।
माध्यन्दिनमादित्याभिमुखोऽधीयानः पञ्चपातकोपपातकात् प्रमुच्यते ।
सर्ववेदपारायणपुण्यं लभते ।
नारायणसायुज्यमवाप्नोति नारायणसायुज्यमवाप्नोति ।
य एवं वेद । इत्युपनिषत् ॥४॥
**********************