- धर्म
» - सण-उत्सव
» - नवरात्रौत्सव
॥ भवान्यष्टकम् ॥
न तातो न माता न बन्धुर्न दातान पुत्रो न पुत्री न भृत्यो न भर्ता।न जाया न विद्या न वृत्तिर्ममैवगतिस्त्वं गतिस्त्वं त्वमेका भवानि॥1॥भवाब्धावपारे महादुःखभीरुःपपात प्रकामी प्रलोभी प्रमत्तः।कुसंसार-पाश-प्रबद्धः सदाऽहंगतिस्त्वं गतिस्त्वं त्वमेका भवानि॥2॥न जानामि दानं न च ध्यान-योगंन जानामि तंत्र न च स्तोत्र-मन्त्रम्।न जानामि पूजां न च न्यासयोगंगतिस्त्वं गतिस्त्वं त्वमेका भवानि॥3॥न जानामि पुण्यं न जानानि तीर्थंन जानामि मुक्तिं लयं वा कदाचित्।न जानामि भक्ति व्रतं वाऽपि मात-र्गतिस्त्वं गतिस्त्वं त्वमेका भवानि॥4॥कुकर्मी कुसंगी कुबुद्धि कुदासःकुलाचारहीनः कदाचारलीनः।कुदृष्टिः कुवाक्यप्रबंधः सदाऽहगतिस्त्व गतिस्त्वं त्वमेका भवानि॥5॥प्रजेशं रमेशं महेशं सुरेशंदिनेशं निशीथेश्वरं वा कदाचित्।न जानामि चाऽन्यत् सदाऽहं शरण्येगतिस्त्वं गतिस्त्वं त्वमेका भवानि॥6॥विवादे विषादे प्रमादे प्रवासेजले चाऽनले पर्वते शत्रुमध्ये।अरण्ये शरण्ये सदा मां प्रपाहिगतिस्त्वं गतिस्त्वं त्वमेका भवानि॥7॥अनाथो दरिद्रो जरा-रोगयुक्तोमहाक्षीणदीनः सदा जाड्यवक्त्रः।विपत्तौ प्रविष्टः प्रणष्टः सदाऽहंगतिस्त्वं गतिस्त्वं त्वमेका भवानि॥8॥॥ इति श्रीमच्छशंकराचार्यकृतं भवान्यष्टकं संपूर्णम् ॥