1. धर्म
  2. हिंदू
  3. हिंदू धर्माविषयी
  4. Venkatesa Ashtakam Lyrics

श्री वेंकटेश अष्टकम : सर्व संकटांतून मुक्ती देणारे प्रभावी स्तोत्र!

॥ श्री वेंकटेश अष्टकम ॥
ॐतत्सदिति निर्देश्यं जगज्जन्मादिकारणम् ।
अनन्तकल्याणगुणं वन्दे श्रीवेङ्कटेश्वरम् ॥ १॥
 
नतामरशिरोरत्न श्रीयुतम् श्रीपदाम्बुजम् ।
प्रावृषेण्यघनश्यामं वन्दे श्रीवेङ्कटेश्वरम् ॥ २॥
 
मोहादिषडरिव्यूहग्रहाकुलमहार्णवे ।
मज्जतां तरणीं नॄणां वन्दे श्रीवेङ्कटेश्वरम् ॥ ३॥
 
नाथं त्रिजगतां एकं साधुरक्षणदीक्षितम् ।
श्रीशेषशैलमध्यस्थं वन्दे श्रीवेङ्कटेश्वरम् ॥ ४॥
 
राजद्राजीवपत्रश्रीमदमोचनलोचनम् ।
मन्दहासलसद् वक्त्रं वन्दे श्रीवेङ्कटेश्वरम् ॥ ५॥
 
यन्मुखेन्दुस्मितज्योत्स्ना भूयसीं तमसां ततिम् ।
विधुनोति प्रपन्नानां वन्दे श्रीवेङ्कटेश्वरम्॥ ६॥
 
नान्तस्य कस्यचिद् वाक्यं शब्दस्यानन्य वाचिनः ।
ब्रह्मारुद्रेन्द्रजनकं वन्दे श्रीवेङ्कटेश्वरम् ॥ ७॥
 
यद्वक्षःस्थलमध्यास्य भाति श्रीरनपायिनी ।
तडिल्लेखेवाभ्रमध्ये वन्दे श्रीवेङ्कटेश्वरम् ॥ ८॥
 
वेङ्कटेशाष्टकमिदं नरकण्ठीरवोदितम् ।
यः पठेत् सततं भक्त्या तस्मै विष्णुः प्रसीदति ॥