1. धर्म
  2. हिंदू
  3. हिंदू धर्माविषयी
  4. Ardhanari Nateshvara Stotram Lyrics

Ardhanari Nateshvara Stotram अर्धनारी नटेश्वर स्तोत्रम्

अर्धनारी नटेश्वर स्तोत्रम् Ardhanari Nateshvara Stotram Lyrics in Marathi
अर्धनारी नटेश्वर स्तोत्रम्
 
चांपेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय ।
धम्मिल्लकायै च जटाधराय नमः शिवयै च नमः शिवाय ॥१॥
 
कस्तूरिकाकुङ्कुमचर्चितायै चितारजःपुञ्जविचर्चिताय ।
कॄतस्मरायै विकॄतस्मराय नमः शिवायै च नमः शिवाय ॥२॥ 
 
चलत्क्वणत्कङ्कणनूपुरायै पादाब्जराजत्फणिनूपुराय ।
हेमाङ्गदायै भुजगाङ्गादाय नमः शिवायै च नमः शिवाय ॥३॥
 
 विशालनीलोत्पललोचनायै विकासिपङ्केरुहलोचनाय ।
समेक्षणायै विषमेक्षणाय  नमः शिवायै च नमः शिवाय ॥४॥ 
 
मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धराय ।
दिव्यांबरायै च दिगंबराय नमः शिवायै च नमः शिवाय ।५॥
 
अंभोधरश्यामळकुन्तळायै तडित्प्रभाताम्रजटाधराय ।
निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय ॥६॥
 
 प्रपञ्चसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय ।
जगज्जनन्यै जगदेकपित्रे नमः शिवायै च नमः शिवाय ॥७॥
 
 प्रदीप्तरत्नोज्ज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय ।
शिवान्वितायै च शिवान्विताय नमः शिवायै च नमः शिवाय ॥८॥
 
 एतत्पठेदष्टकमिष्टदं यो भक्त्या स मान्यो भुवि दीर्घजीवी ।
प्राप्नोति सौभाग्यमनन्तकालं भूयात्सदा तस्य समस्तसिद्धिः ॥९॥ 
 
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीगोविन्दभगवत्पूज्यपादशिष्य
श्रीमच्छङ्करभगवत्प्रणीतमर्धनारीनटेश्वरस्तोत्रं संपूर्णम् ॥ 
 
पुढील लेख
मकर संक्राती आणि एकादशी एकाच दिवशी ... काय करावे?