अष्टविंशतिविष्णुनामस्तोत्रम्
मत्स्यं कूर्मं वराहं च वामनं च जनार्दनम् ।
गोविन्दं पुण्डरीकाक्षं माधवं दधुसूदनम् ॥१॥
पद्मनाभं सहस्राक्षं वनमालं हलायुधम्
गोवर्धनं हृषीकेशं वैकुण्ठं पुरुषोत्तमम् ॥२॥
विश्वरूपं वासुदेवं रामं नारायणं हरिम् ।
दामोदरं श्रीधरं च वेदांगं गरुडध्वजम् ॥३॥
अनन्तं कृष्णगोपालं जपतो नास्ति पातकम् ॥४॥
गवां कोटि प्रदानस्य अश्वमेधशतस्य च
कन्यादानसहस्राणां फलं प्राप्नोति मानवः ॥५॥
अमायां वा पौर्णमास्यां एकादश्यां तथैव च
संध्याकाले स्मरं नित्यं प्रातःकाले तथैव च
मध्याह्ने च जपन्नित्यं सर्वपापैः प्रमुच्यते ॥६॥